#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00070 Uniform title: prāṇatoṣiṇī sargakāṇḍa Author : rāmatoṣaṇa compiler Description: Compiled by rāmatoṣaṇa bhaṭṭācārya Originally published by kalikātā in Bengali script in the tantrasārādivividhatantrasaṃgraha Notes: Data-entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski . Revision 0 : Dec. 11, 2007 . Publisher : kalikātā Publication year : Pre-1900 Publication city : Publication country : India #################################################### || श्रीः || प्राणतोषिणी श्रीरामतोषण भट्टाचार्येण तन्त्रशास्त्रात् संकलयय विरचिता Vइ, ए उपाधिधारिणा पण्डितकुलपतिना स्रीजीवानन्दविद्यासागरभट्टाअचर्ययेण प्रकासिता | Kअलिकातानगरे Kअलिकातायन्त्रे मुद्रिता १८९८ १) सर्गकाण्ड जडे काव्यं दात्री द्रुतमुदकविन्दौ जलधितां पयोधौ पाथोऽणुत्वमपि ननु सर्वैकवशगा | गिरौ धूलीलेशत्वमचलवरत्वं रजसि वा विचित्रेच्छा स्वैरं जयति जयतारे ! तव नवा || यत्पादाम्बुजसेवया प्रतिदिनं कर्म क्षणाल्लीलया ब्रह्मोपेन्द्रमहेश्वरप्रभृतयः कुर्वन्ति सृष्ट्यादिकम् | यामाराध्य मनुत्वमाप सुरथो ज्ञानं समाधिः स्वयं सास्माकं वितनोतु वाञ्छितफलं तस्यै भवान्यै नमः || आसीद्विश्वासवंशे विमलमतिदयारामविश्वासनामा तत्पुत्त्रोऽत्यन्तदान्तोऽप्यतिशयसुकृती रामहर्याह्वयोऽसौ | विश्वासो विश्वनाथार्चनचरणरतो विश्वविश्वासवासो वाराणस्यामुषित्वा बहुविधमपि सत्कर्म कृत्वाप मुक्तिम् || तत्सूनुर्भूमिपालो विविधबुधगणैकाग्रगण्योऽतिधन्यो मान्यः श्रीप्राणकृष्णो यदनुजनुजगन्मोहनाख्यः प्रसिद्धः | पुत्त्राः षड्यस्य जाताः सुविमलमतयो धैर्यगाम्भीर्यवन्तो दीनानाथान्धबन्धुद्विजगणभरणैकान्तविभ्रान्तचित्ताः || तत्रानन्दमयो महेशमहिषीध्यानावधानः सदा ज्येष्ठः श्रेष्ठतमः सदैव सदयो दारिद्राविद्रावणः | तस्योपेन्द्रसमः कृती भगवतीभक्तो भवनीपति- श्रीपादाम्बुजयुग्मलुब्धमधुपः श्रीरामचन्द्रोऽनुजः | दाता कर्णसमो रणेऽर्जुनसमः शत्रौ कृतान्तोपमो दाता दीनदयामयस्तदनुजः श्रीविश्वनाथस्तथा | श्रीयुक्तः शम्भुनाथस्तदनु समभवत् सुन्दरस्तस्य पश्चात् श्रीकाशीनाथनामा तदनुज उदितश्चन्द्रवच्चन्द्रनाथः | स्वर्धुन्याः पूर्वतौरे सुरचिरनिलयः खड्दहाख्यः प्रसिद्धो नित्यानन्दादिसिद्धाश्रमविहितमहाशुद्ध इन्द्रालयाभः | प्. २) ग्रामो जीयान्महद्भिः कृतशुभनिलयारामभीमालयाढ्यः कैल्कातातो नगर्याः क्षितपतिनगरादुत्तरे यामगम्यः || तस्मिन् श्रीप्राणकृष्णो निवसति निखिलस्वीयनिर्धूततृष्णो जिष्णोस्तुल्योऽतिमूल्यीत्तममणिगणसम्पूर्णकोषाधिपालः | श्रीमान् धीमान् स्वकीर्त्त्या विधुरिव भुवि विश्वासवंशावतंसः | साक्षात् सूर्यः प्रतापैररितृणदहनो जीवतात् स प्रजाभिः || अपि च || ज्योतिर्ग्रन्थान् बहुविधानालोक्य बहुभिर्बुधैः | संग्रहं कारयामास प्राणकृष्णक्रियाम्बुधिम् | ततो नानाविधानानि समालोक्य समासतः | प्राणकृष्णीयशब्दाब्धिं कारयामास यत्नतः || तन्त्राणि बहुधा नानादेशादाहृत्य तत्परम् | खाभ्रेषुसम्मितं नानासंग्रहञ्च कृतं बुधैः | संग्रहे जयसिंहादिनृपाणां नामदर्शनात् | चिरं मृतानां ग्रन्थस्थनाम्नाद्यापि सुजीवताम् | ग्रन्थकीर्तिं वरां मेने सर्वकीर्तेरनश्वराम् | ग्रन्थं कारयितुं धीरं यत्नतोऽन्वेषयत् कृती | न लेभे सहसा तेन सदा चिन्तापरः स्थितः | अथ श्रीशिवपादाव्जभ्रमरीकृतमानसः | कैल्कातानगरे रम्ये चकार मठमेव यः | श्रीगोपीनाथमिश्रेणानीयतं रामतोषणम् | श्रीप्राणकृष्णविश्वासो विश्वासवंशभास्करः | आदिष्टवांस्तन्त्रशास्त्रोत्तमसंग्रहहेतवे | समस्त ज्ञानदातॄन् षड् गुरून् नत्वा सहस्रशः | मुण्डमालां मत्स्यसूक्तं तन्त्रं महिषमर्दिनीम् | मायाञ्च मातृकाभेदं मातृकोदयमुत्तमम् | महानिर्वाणतन्त्रञ्च मालिनीविजयं तथा | महानीलं महाकालसंहितां मेरुतन्त्रकम् | भैरवं भैरवीं भूतडामर इयमेव च | वीरभद्रं बीजचिन्तामणिमेकजटीं तथा | निर्वाणतन्त्रं त्रिपुरासारं कालीविलासकम् | विश्वसारञ्च वरदां वासुदेवरहस्यकम् | वाराहीञ्च वृहत्गौतमीयं वर्णोद्धृतिं तथा | विश्वसाराख्यतन्त्रञ्च विष्णुजामलमेव च | वृहन्नीलं वृहद्योनिं रहस्यं विष्णुसम्मतम् | प्. ३) वामकेश्वरतन्त्रञ्च ब्रह्मज्ञानं ततः परम् || ब्रह्मजामलमहैतं वर्णविलासमेव च | फेत्कारिणीं तथा तन्त्रं पुरश्चरणचन्द्रिकाम् | पुरश्चाररसोल्लासं तन्त्रं पञ्चदशीं शुभाम् || पिच्छिलां प्रपञ्चसारं हंसाद्यं पारमेश्वरम् | नवरत्नेश्वरं नित्यं नीलं नारायणीयकम् | निरुत्तरं नारदीयं नागार्जुनमतः परम् | दक्षिणामूर्तितन्त्रञ्च दक्षिणामूर्तिसंहिताम् | दत्तात्रेयसंहिताञ्चाष्टावक्रसंहितां तथा | यक्षिणीं योगिनीं योनिं योगसारं तदर्णवम् | योगिनीहृदयं योगियाज्ञवल्क्यमनुत्तमम् | योगम्बरोदयञ्चैवाकाशभैरवमेव च | राजराजेश्वरीं राधां रेवतीं रुद्रजामलम् | रामार्चनचन्द्रिकाञ्च सावरञ्चेन्द्रजालकम् | कालीतन्त्रञ्च कामाख्यां कामधेनुमतःपरम् | श्रीकालीकुलसर्वस्वं कुमारीतन्त्रमेव च | कृकलासदीपिकाञ्च कङ्कालमालिनीं तथा | कालोत्तरं कुब्जिकाञ्च कुलोड्डीयं कुलार्णवम् | कुलमूलावताराख्यकल्पसूत्रं यक्षडामरम् | सरस्वतीं सारदाञ्च शक्तिसङ्गमतन्त्रकम् | शक्तिकागमसर्वस्वमूर्द्धाम्नायं स्वरोदयम् | स्वतन्त्रतन्त्रं सम्मोहं चीनाचारञ्च तोडलम् | षडन्वयमहारत्नं सिद्धैकवीरतन्त्रकम् | निगमस्य कल्पद्रुमं लतां तत्सारमेव च | तारारहस्यं श्रीश्यामारहस्यं स्कन्दजामलम् | इत्याद्यनेकतन्त्राणि पुराणं पञ्चरात्रकम् | श्रुतिस्मृतिसंग्रहांश्च दृष्ट्वान्यशास्त्रमेव च | रत्नान्येभ्यः समाहृत्य रत्नाकरेभ्य एव च | श्रीरामतोषणेनेयं रोपिता प्राणतोषणी || कल्पद्रुमो दिशति वाञ्छितमेव चिन्त्यं चिन्तामणिः क्वचन कामदुघा त्वभीष्टम् | श्रीप्राणतोषणकृता व्रततिर्जनेभ्यो दृष्टैव यच्छति फलं भुवि सर्वदेयम् | एतामक्षरमालिकां न मनुतामज्ञः स्वभावोज्ज्वलां नानारत्नमयीं विलोकयतु सद्गुरुर्वङ्घिकारुण्यतः | विश्वं पश्यति मन्दधीर्हतधिया प्रत्यक्षमेतज्जगद्ब्रह्मैवेति विलोकते स गुरुतो वैराग्यवांश्चेत्तदा | प्. ४) आशावात- प्रौढतुङ्गोत्तरङ्गेऽपारे सारे हाभ्रमौ घोरसिन्धौ | जीर्णां नौकामाश्रितस्येष्टसिद्ध्यै भीतस्यैधि त्वं गुरो ! कर्णधारः | इमां मत्सरिणो दोषदृष्ट्योपहसतः प्रति | तथ्यं वदामि श्रुत्वा यद्रोचते कुर्वतान्तु तत् | मान्याः ! कृताञ्जलिरहं विनयेन वच्मि सर्वाण्यमुत्र गुरुवृद्धवचांस्यमूनि | सज्जीचकार लतिकावयवानमीभिर्दोषा न मे न च गुणाः परिवेत्थ धीराः | गृह्णन्ति ये गुणकणानिव दोषराशेः पङ्केरुहाङ्कमलिनेऽन्यपिकालिकस्ते | पश्यन्तु मादृशविनिर्मितिचित्रवल्लीं रत्नोज्ज्वलां शुभवरीमुपसर्पकाणाम् | वल्लीयं सर्गधर्मार्थकमनभजन-ज्ञान-नैर्गुण्यसप्तकाण्डाचित्र- प्रसूनच्छदमुकुलफला कोरकाद्यैर्विचित्रा | नानाविद्यार्थवादारुणकिरणमहास्विन्नचित्ताकुलानां स्थेयःसिद्धान्तरूपप्रकृतवचनजच्छाययार्त्तिं निहन्तु | वैवस्वतान्तरगतस्य गजाक्षिसंख्यस्येयं युगस्य चरणेऽजनि तूर्यसंख्ये | भूनेत्रधर्मयुगसम्मितवीतवर्षे राधे दिने गुणमिते मृदुला हिमांशोः | शाके नेत्रयुगाद्रिकाश्यपिमितेऽतीतेऽक्षयायां तिथावेषा प्रादुरभूद्विचक्षणमनःकह्लारसंह्लादिनी | विप्रश्रीयुतरामतोषणकृता श्रीप्राणतोषण्यस्यौ सोमक्षेमसरस्वतीमयतया न्यक्कुर्वतोत्थं त्विषा | वाणी श्रीप्राणतोषण्यसि सकलगुणा वज्रदृग्दीप्तदेहा नित्यं स्निग्धा नवीना नवरसरुचिरा रोपिताराममध्ये | किन्त्वाराद्वृद्धमूर्तिर्जगदिदमनुगन्तासि दुष्टार्थबुद्ध्या मन्दानर्थाभिमानान्धितखलधिषणान् देवि ! तुभ्यं नमोऽस्तु || प्रतिकाण्डं नमस्कृत्य देवतां विघ्ननाषिणीम् | काण्डानि निर्ममे सप्त रत्नोद्दिप्तिकाराण्यहम् | आशांशुका शुचिशशीनदिगभ्रकृष्णा पञ्चाशदर्णघटिता स्रगनन्तमूर्तिः | ध्यातेष्टदा गलितकुन्तलभाररम्या क्षेमाय नो भवतु सम्प्रति मालकान्ता || आद्यं नूतनसर्गकाण्डममलं यत्रास्ति शब्दाकारो नित्यानित्यविचारशब्दजनिविष्ण्वोषध्युडुव्योमगाः | प्. ५) भूतोद्भूतमिदं चराचरमपि ब्रह्मध्वनिर्जन्तुतो वर्णान् प्रेरयतीति लेखनविधिर्वर्णाभिधानादि च || नृणामत्र प्रवृत्त्यर्थमादौ निर्घण्टनं मया | केषाञ्चित् क्रियतेऽन्यानि भूयांसि वेत्तु तान्यपि || आदौ तन्त्रप्रशंसादि वर्णाविर्भावकारणम् | शिवशक्त्याविर्भवनं तदवस्थानिरूपणम् | त्रिविधं शक्तिरूपन्तु ब्रह्मादेः शक्तिनिर्णयः | शक्तिं विना जाड्यमेषां शब्दब्रह्मनिरूपणम् | शब्दब्रह्मपरब्रह्ममूर्तिरीशस्य शाश्वती | इति सर्गाद्यकाण्डस्य परिच्छेदस्तथादिमः || १ || अर्थाभिव्यक्तये शब्दस्फोटवादनिरूपणम् | प्रसिद्धानित्यरूपे द्वे पत्रे नित्यस्य कीर्तिते | अनित्यमतदोषश्च प्रसिद्धमतनिर्णयः | शब्दो ब्रह्मेति शब्दार्थो ब्रह्मेति मतदूषणम् | नित्यमते पूर्वपक्षसिद्धान्तौ च निरूपितौ | शरीरं तत्त्वषट्त्रिंशन्निर्मितं कञ्चुकान्वितम् | शशीनाग्निकलावर्णोद्भवाश्चापि कलास्ततः | वर्णजाः सशक्तिविष्णुरुद्राश्चौषधयस्तथा | प्रयोजनञ्चौषधीनां हंसो विकृतिजाक्षरम् | तद्विकृतेः प्रकारश्च प्रणवाद्धंससम्भवः | सह नाशे तत्प्रणवस्थितेर्निदर्शनं तथा | वर्णानां नित्यताबोधकारणं साधकान्तरम् | मतद्वये तु वेदानां नित्यानित्यत्वदर्शनम् | तथ्यं नित्यत्वमेतेषां युक्तिदृष्टिप्रमाणकैः | वर्णेभ्यो ग्रहराश्यृक्षोत्पत्तिश्चक्रभ्रमात्मिका | अमावास्याद्युद्भवश्च नक्षत्रवृक्षनिर्णयः | स्वनक्षत्रवृक्षमात्रच्छेदने दोषदर्शनम् | ऋक्षादिष्ठातृदेवाश्च नक्षत्रयोनिनिर्णयः | तद्विरोधदर्शनञ्च दम्पत्यादिविचारणे | तिथिभेदशशर्नञ्च तिथ्यधिपतिनिरूपणम् | इत्यङ्कुरपरिच्छेदद्वितीयस्य समापनम् || २ || सदाशिवादेरुत्पत्तिर्लवादिकालनिर्णयः | तत्त्वसृष्ट्यारम्भणञ्चाहङ्कारस्य त्रिधाकृतिः | त्रिविधाहङ्कृतेः सृष्टिः शब्दादेर्भूतसम्भवः | भूतमण्डलरूपाणि देहसृष्टिश्चतुर्विधा | पञ्चीकृतिप्रकारश्चोद्भिदुत्पत्तिस्ततः परम् | पापेनोद्भिदयोनिस्तत्प्रायश्चित्तं ततः परम् | प्. ६) स्वेदजोत्पत्तिकथनमण्डजोत्पत्तिरेव च | मनुष्यत्वप्रशंसा च जन्ममृत्युक्रमस्तथा | प्रकृत्या जायते सर्वं तस्यां संलीयते पुनः | इति शाखापरिच्छेदतृतीयस्य समापनम् || ३ || रजस्वलाया गर्भस्थात् पुंवीर्याद्गर्भसम्भवः | रजस्वलानिदानञ्च गर्भे वीर्यगतिक्रमः | स्त्रीपुंनपुंसकोत्पत्तिकारणं तदनन्तरम् | बह्वपत्यत्वादिबीजं बलवद्गर्भकारणम् | जीवप्रवेशनं तत्र शुक्राद्युत्पत्तिकारणम् | स्वेदमूत्रपूरीषाणामुत्पत्तित्यागयोः क्रमः | रोगोत्पत्तेः कारणञ्च धातूत्पत्तिक्रमस्ततः | प्राणादीनां क्रियां पश्चात् कललादिनिरूपणम् | मल एष विवेकश्च मांसपिण्डाङ्कुरस्तथा | मेदोमज्जादिसम्भूतिरङ्गप्रत्यङ्गसम्भवः | अभीष्टदानं मातुस्तत्फलादिनिर्णयस्तथा | त्वक्श्रुत्यादिसमुद्भूतिः सन्धेः सम्पूर्णता तथा | दोषदूष्यादिनिर्णीतिरिन्द्रियादिनिरूपणम् | अन्तःकरणनिर्णीतिस्तत्त्वानां पञ्चविंशकम् | पञ्चभूतगुणैर्देहो दशवायुनिरूपणम् | नाडीनिरूपणं नाडीकन्दो द्वारस्थिताः शिराः | शाखाप्रशाखा नाडीनां ततः स्थाननिरूपणम् | अस्थ्यस्थिसन्धिपेश्यादि स्त्रीणां पेश्यधिका मता | प्रशाखानामविच्छेदचतुष्कस्य समापनम् || ४ || वायुनामानि वायूनां मुख्यत्वादिविनिर्णयः | तेषां रूपाणि स्थानानि कर्माणि च पृथक् पृथक् | पिङ्गलेडागते प्राणे सूर्याचन्द्रमसोर्गतिः | दोषदूष्याग्निनामानि चोर्मिकोषनिरूपणम् | क्षेत्रज्ञस्यार्थग्रहणप्रकारस्तदनन्तरम् | श्रोत्रादौ खादिसंस्थानं प्राधान्येन निदर्शितम् | वातपित्तकफैर्नुन्नधातुभीरोगसम्भवः | पूर्वादृष्टस्मृतिर्गर्भस्थितिलक्षणमत्र तु | गर्भाशयप्रमाणन्तु त्रिविधं कर्म तत्परम् | गर्भे चिन्ताप्रकारश्च निश्चेष्टा तदनन्तरम् | देहस्थाक्षरवृत्तान्तं भुवनानि चतुर्दश | तनावद्रिद्वीपखेटराशिनक्षत्रसंस्थितिः | शुक्रामृग्भ्यां रक्तबिन्दुदर्शनादेश्च सम्भवः | सूर्याचन्द्रमसोः स्थानं ब्रह्मादीनां तथैव च | प्. ७) गर्भाच्छिशोर्निःसरणं पूर्वोदान्तस्य विस्मृतिः | गर्भान्निर्गमकाले तु पापिनामधिका व्यथा | रोदनानेहसि तदा नादावस्थानिरूपणम् | देहावस्था पुनर्देहप्राप्तिः कर्मानुसारतः | ऐहिकस्य प्रेत्य भोगः कर्मणो जायते ध्रुवम् | इति पल्लवरूपेषु परिच्छेदसमापनम् || ५ || अस्पष्टाक्षरभाषा तु श्रुतिमार्गाविभागतः | कुण्डलीस्फूर्तिरेकादिपञ्चाशद्धा यदा भवेत् | गुणिता सा तदा शब्दार्थाद्युद्भूतिः क्रमेण च | पञ्चाशत् कामनामानि रतिनामानि च क्रमात् | सशक्तिकगणेशाननामानि तदनन्तरम् | क्षेत्रपालस्य नामानि तत्पूजादिफलं ततः | सुखाद्वर्णप्रकाशस्तत्प्रकाशान्ते तु विस्मृतिः | वर्णप्रकाशस्थानानि चन्द्रसूर्याग्निजाक्षरम् | सर्वे विसर्गजा वर्णा अष्टस्थाननिरूपणम् | वर्णोच्चारक्रमाः पाञ्चभौतिकाक्षरनिर्णयः | इति स्तवनरूपर्तुपरिच्छेदसमापनम् || ६ || पत्रारूढाक्षरतनुनिदानञ्च लिपिक्रमः | अकारादिक्षकारान्तवर्णानां दैवतैः सह | भूमौ लिपिनिषेधादिलेखनीनियमस्ततः | पुस्तकस्य ततो मानं पुस्तकच्छिद्रनिर्णयः | पुस्तिकापत्रनिर्णीतिर्वेदलेखननिन्दनम् | युगभेदेऽक्षरे देवभेदो लेखनपूजनम् | आरम्भादौ लेखकस्य वेतनग्रहदूषणम् | इति कोरकविच्छेदसप्तमस्य समापनम् || ७ || ओंकारादिक्षकारान्तनामानि कुसुमानि च | तन्त्रसङ्केतकारीण्यष्टमच्छेदसमापनम् || ८ || पञ्चवक्त्रोद्भवा मन्त्रास्तन्त्रादिशास्त्रमेव च | गणेशेन सर्वतन्त्रविस्तारकरणं ततः | महामहादिविद्यानां वीजत्वं तदनन्तरम् | तथाष्टदशविद्यानां दर्शनानाञ्चनिर्णयः | ईश्वरस्य शक्तिसमावेशाच्छास्त्रादिकर्तृता | मनुष्यप्रभृतीनाञ्च शास्त्रकर्तृनिरूपणम् | आन्वीक्षिक्यादिनिर्णीतिर्गृहिणां न तु मानसम् | पापमीशो द्विधात्मानमकरोत् तस्य कारणम् | तन्त्रावतारवीजञ्च पञ्चवक्त्राह्वयस्तथा | पञ्चवक्त्रस्य रूपञ्च पञ्चाम्नायनिरूपणम् | प्. ८) षडाम्नायस्य कथनमाम्नायभेददेवता | आम्नायानां फलञ्चैव तथाशु फलनिर्णयः | आम्नायभेदमन्त्राणामाचारादिनिरूपणम् | अपवादोत्सर्गतया विद्याशास्त्रविनिर्णयः | मन्त्रविद्याविभागश्च देवताभेदतस्तथा | स्त्रीपुंनपुंसकत्वञ्च मन्त्राणां षट्सु कर्मसु | मन्त्राणां क्रूरसौम्यत्वं स्वप्रजागरणादिकम् | इति केशरविच्छेदनवमस्य समापनम् || ९ || छिन्नादिदोषनिर्णीतिर्मन्त्राणां तत्प्रतिक्रिया | महामुद्रालक्षणञ्च योनिमुद्राकृतिस्तथा | कण्ठासनलक्षणञ्च षट्चक्रेष्टस्मृतिर्यथा | सहस्राराम्बुजे ध्यानमिष्टदेव्यास्ततः परम् | पुनर्मूलाधारपद्मादिषु चिन्ताक्रमस्तथा | मन्त्राक्षरस्य चिच्छक्तौ प्रोतानन्तरकर्म यत् | तत्फलं संवत्सरेणाभ्यासात् सिद्धिरनुत्तमा | असक्तस्य योनिमुद्राकरणे तु जपक्रमः | भूतलिपिनिधानञ्च तस्या ऋष्यादिनिर्णयः | ध्यानं भूतलिपेः प्राणप्रतिष्ठा तदनन्तरम् | वर्णन्यासः पूजनञ्च नवावृत्तय एव च | होमश्च कामनाभेदाद्भूतलिप्या पुटीकृतः | सहस्रकृत्वः सञ्जप्तो मासमात्रं यदा तदा | मनुः सर्वसिद्धिकरो दशसंस्कारकारणम् | वीजनामानि वीजानां भूतडामरसम्मतम् | नामधेयमिदं व्योमपरिच्छेदसमापनम् || १० || यद्यत्तन्त्रसारकारैरस्मद्वंशाब्जभास्करैः | धृतं प्रमाणं तेनात्र नास्ति किञ्चित् प्रयोजनम् | द्रष्टव्यं तत्र तत् सर्वं मन्त्रयन्त्रादिकं तथा | न्यासपूजादिमुद्रापि स्तवश्च कवचं तथा | मालासंस्कारकर्मादि सर्वं तत्रास्ति केवलम् | संगृह्णाम्यधृतं तेन स्मार्तेंनापि क्वचित् क्वचित् | मूलग्रन्थानुक्रमेण व्याख्यार्थमपि वादिनाम् | आक्षेपस्य निराकृत्यै तद्धृतं ध्रियते मया | यत्राभिप्रायमात्रन्तु दर्शितं तेन सूरिणा | प्रमाणं नैव दत्तं तत् प्रमाणमपि लिख्यते | शब्दाभिप्रायव्याख्यापि कृता यत्र महात्मना | तेन तदविदो मन्दधियो विहसतः प्रति | स्पष्टीकरोमि तां सर्वां यथाशास्त्रार्थनिश्चयाम् | प्. ९) एष क्रमः सर्वकाण्डे विज्ञातव्यो विचक्षणैः | बीजं नव्याङ्कुराढ्यं तदनु समभवद्दिव्यशाखाप्रशाखा जातं तत्पल्लवं तत्स्तवक उदगमत् कोरकोऽतः प्रसूनम् | प्रोद्भूतः केशरः स्वाद्वजनि फलमिदं सर्गकाण्डस्त्वमीभिर्विद्वन्नभ्यञ्जयद्राङ्नयनयुगमितो निर्मलं पश्य सर्वम् | धन्यो मान्यो वरेण्योऽग्रगण्यः सत्कीर्तिशालिनाम् | स्थिरलक्ष्मीनिवासः श्रीयुतः स्वीयेष्टभक्तिमान् | प्राणकृष्णश्चिरञ्जीवी भगवतादात्मजैः सह | मुण्डमालातन्त्रे अष्टमपटले | विना तन्त्रात् विना मन्त्रात् विना यन्त्रात् महेश्वरि ! | न च भुक्तिश्च मुक्तिश्च जायते वरवर्णिनि ! | मत्स्यसूक्ते महातन्त्रे चतुर्विंशतिसाहस्रे उपरिभागे प्रथमचरणे चतुर्थपटले | विष्णुर्वरिष्ठो देवानां ह्लदानामुदधिर्यथा | नदीनाञ्च यथा गङ्गा पर्वतानां हिमालयः | अश्वत्थः सर्ववृक्षाणां राज्ञामिन्द्रो यथा वरः | देवीनाञ्च यथा दुर्गा वर्णानां ब्राह्मणो यथा | तथा समस्तशास्त्राणां तन्त्रशास्त्रमनुत्तमम् | इति तन्त्रशास्त्रप्रशंसा | वृहन्नीलतन्त्रे प्रथमपटले | यद्गृहे निवसेत्तन्त्रं तत्र लक्ष्मीः स्थिरायते | राजद्वारे श्मशाने च सभायां रणमध्यतः | निर्जने च जले घोरे श्वापदैः परिभूषिते | महात्मपात्तस्य देवेशि ! चमत्कारो भवेत् प्रिये ! | तस्मात् सर्वप्रयत्नेन गोपनीयं प्रयत्नतः | इति गृहे तन्त्रशास्त्रस्थितिफलम् | मत्स्यसूक्ते | यानि तन्त्रागमोक्तानि न हन्तव्यानि हेतुभिः | ईश्वरेण प्रणीतानि यस्मात्तस्माद्द्विजातिभिः | इति हेतुवादेन तन्त्रोक्तकर्महानिनिषेधः | तत्रैव | ज्योतिषे मन्त्रवादे च वैद्यके वेदकर्मणि | अर्थमात्रन्तु गृह्णीयान्नापशब्दं विचारयेत् | मन्त्रस्य वादो यत्र इति मन्त्रवादस्तन्त्रमिति | ज्योतिरादौ शब्दविचारनिषेधः | तत्रैव | शब्दे मा संशयं कुर्याददृष्टस्त्विति कुत्रचित् | प्. १०) श्रद्धातव्यं विनिश्चित्य आनन्त्याच्छब्दरूपतः | निर्वाण तन्त्रे नवमपटलेऽपि | शब्दब्रह्मस्वरूपञ्च मम वक्त्राद्विनिर्गतम् | सन्देहो नैव कर्त्तव्यो यदि मुक्तिं समिच्छति | सन्देहात् परमं याति रौरवं पितृभिः सह || इति तन्त्रशास्त्रे संशयनिषेधः | गन्धर्वतन्त्रे द्वितीयपटले | सर्वकार्येषु सर्वत्र तान्त्रिके वैदिके तथा | अविश्वासो महान् दोषो यत्नतस्तं विवर्जयेत् | संसिद्धेः कारणं देवि ! विश्वासः समुदाहृतः || इति शास्त्रे विश्वासफलम् || महानिर्वाणतन्त्रे चतुर्दशोल्लासे || किं तस्य तीर्थभ्रमणैः किं यज्ञैर्जपसाधनैः | जानन्नेव महातन्त्रं कर्मपाशैर्विमुच्यते | स सिद्धः सर्वसास्त्रेषु सर्वधर्मविदां वरः | स ज्ञानी ब्रह्मवित् साधु यस्तन्त्रं वेत्ति कालिके ! || इति तन्त्रज्ञानफलम् || तत्रैव | अलं वेदैः पुराणैश्च स्मृतिभिः संहितादिभिः | किमन्यैर्बहुभिस्तन्त्रैः ज्ञात्वैकं सर्वविद्भवेत् | इत्येकतन्त्रस्यापि ज्ञानफलम् || गन्धर्वतन्त्र द्वितीयपटले | आस्तिकोऽथ शुचिर्दक्षो द्वैतहीनो जितेन्द्रियः | ब्रह्मिष्ठो ब्रह्मवादी च ब्रह्मी ब्रह्मपरायणः | सर्वहिंसाविनिर्मुक्तः सर्वप्राणिहिते रतः | सोऽस्मिन् शास्त्रेऽधिकारी स्यात्तदन्यत्र न साधकः || इति तन्त्रशास्त्राधिकारिकथनम् || कुब्जिकातन्त्रे प्रथमपटले || श्रुतिस्मृतिविधानेन पूजा कार्या युगत्रये | आगमोक्तविधानेन कलौ देवान् यजेत् सुधीः | न हि देवाः प्रसीदन्ति कलौ चान्यविधानतः || पुरश्चरणरसोल्लासतन्त्रे तृतीयपटलेऽपि | तन्त्रोक्तं ध्यानमन्त्रञ्च प्रशस्तं भारते कलौ | वेदोक्तञ्चैव स्मृत्युक्तं पुराणोक्तं वरानने ! | न शस्तं चञ्चलापाङ्गि ! कदाचिद्भारते कलाविति || महानिर्वाणतन्त्रे द्वितीयोल्लासे च || विना ह्यागममार्गेण कलौ नास्ति गतिः प्रिये ! | श्रुतिस्मृतिपुराणादौ मयैवोक्तं पुरा शिवे ! | आगमोक्तेन विधिना कलौ देवान् यजेत् सुधीः | कलावागममुल्लङ्ग्य योऽन्यमार्गे प्रवर्तते || प्. ११) न तस्य गतिरस्तीति सत्यं सत्यं न संशयः || तथां, कलौ तन्त्रोदिता मन्त्राः सिद्धास्तूर्णफलप्रदाः | शस्ताः कर्मसु सर्वेषु जपयज्ञक्रियादिषु | निर्वीर्याः श्रौतजातीया विषहीनोरगा इव | सत्यादौ सकला आसन् कलौ ते मृतका इव | पाञ्चालिका यथा भित्तौ सर्वेन्द्रियसमन्विताः | अमूरशक्ताः कार्येषु तथान्ये मन्त्रराशयः | अन्यमन्त्रैः कृतं कर्म बन्ध्यास्त्रीसङ्गमो यथा | न त्र फलसिद्धिः स्यात् श्रम एव हि केवलम् | कलावन्योदितैर्मार्गैः सिद्धिमिच्छति यो नरः | तृषितो जान्हवीतीरे कूपं खनति दुर्मतिः | नान्यः पन्था मुक्तिहेतुरिहामुत्र मुखाप्तये | यथा तन्त्रोदितो मार्गो मोक्षाय च मुखाय च || इति कलौ तन्त्रशास्त्रोक्तकर्मणा फलप्राप्तिकथनम् || मुण्डमालायाम् | तन्त्रवक्ता गुरुः साक्षात् यथा च ज्ञानदः शिवः | यथा गुरुर्महेशानि ! यथा च परमोगुरुः | यथा परापरगुरुः परमेष्ठी यथा गुरुः | यथा चैव हि मन्त्रज्ञस्तन्त्रवक्ता गुरुः स्वयम् | इति तन्त्रवक्तृप्रशंसा || तत्रैव || तन्त्रञ्च तन्त्रवक्तारं निन्दन्ति तान्त्रिकीं क्रियाम् | ये जना भैरवास्तेषां मांसास्थिचर्वणोद्यताः | अत एव च तन्त्रज्ञं न निन्दन्ति कदाचन | न हसन्ति न निन्दन्ति न वदन्त्यन्यथा | क्वचित् || इति तन्त्रादिनिन्दा करणदोषः || प्रथमपटले || शृणु देवे ! जगद्धात्रि ! सर्वमङ्गलमङ्गलम् | तन्त्रं शृणुयाद्देवेशि ! ब्रह्मनिर्वाणमाप्नुयात् || दशमपटले || तन्त्रराजं महेशानि ! सारात्सांरतरं प्रिये ! | श्रुत्वा ज्ञात्वा म्क्षमाशु लभते नात्र संशयः || एकादशपटले || शृणुयात् यो मुण्डमालातन्त्रं परमकारणम् | ज्ञानदं मोक्षदं भक्तिभुक्तिसौख्यप्रदं शिवे ! इत्येवं परमं देवि ! देवानामपि दुर्लभम् | यो वेद धरणीमध्ये स एव परमार्थवित् || इति तन्त्रविशेषश्रवणफलम् || निर्वाणतन्त्रे || ज्ञानञ्च निर्मलं कृत्वा बुद्धिञ्च निर्मलां ततः | प्. १२) महाभक्तियुतो भूत्वा सर्वप्राणिहिते रतः | शब्दब्रह्ममयं ज्ञात्वा शृणोति पटलं यदि | तदा मुक्तिमवाप्नुति सत्यं सत्यं न शंशयः | अष्टादशपुराणानां श्रवणेनैव यत् फलम् | मेरुतुल्यसुवर्णञ्च गुरवे ब्रह्मरूपिणे | सशस्यां परमेशानि ! सप्तद्वीपां वसुन्धराम् | प्रदद्याद्भक्तिभावेन यदि स्यात् वेदपारगः | तस्माद्वै परमेशानि ! फलं बहुविधं शिवे ! | अस्य तन्त्रस्य चार्वङ्गि ! शृणोति पटलं यदि | तत्फलात् कोटिगुणितं फलं स लभते ध्रुवम् | इति तन्त्रस्य पटलमात्रश्रवणफलम् | शब्दज्ञानं विना सर्वो जाड्येन परिभूम्यते | प्रादुर्भूतिमतस्त्वग्रे शब्दानां वक्तुमारभे | सारदातिलके प्रथमपटले || सच्चिदानन्दविभवात् सकलात् परमेश्वरात् | आसीच्छक्तिस्ततो नादो नादाद्बिन्दुसमुद्भवः || सच्चिदानन्दविभवादित्यनेन अविद्योपहितत्वेऽपीश्वरस्य स्वरूपहानिरिति राघवभट्टः | सकलात् सप्रकृतिकादीश्वरात् शक्तिरासीदिति योजना | तथा च तत्रैव | निर्गुणः सगुणश्चेति शिवो ज्ञेयः सनातनः | निर्गुणः प्रकृतेरन्यः सगुणः सकलः स्मृतः || इति कला प्रकृतिस्तया सह वर्त्तमानादिति दद्व्याख्यानञ्च | ननु शक्तिसहितादेव पुनः शक्तिः कथमासीदिति चेत् सत्यं या अनादिरूपा चैतन्याध्यासेन महाप्रलये सूक्ष्मतया स्थिता तस्या गुणवैषम्यात्तु सगुणतया सात्त्विकराजसतामसस्रष्टव्यप्रपञ्चसाधने तद्गुणावस्थाने वोपचारादुत्पत्तिरिति सांख्यमतमाश्रित्य ग्रन्थकारस्योक्तिरियमिति ज्ञेयम् | तथा च मार्कण्डेयपुराणम् | देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा | उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते | राघवभट्टधृतप्रयोगसारश्च | तस्माद्विनिर्गता नित्या सर्वगा विश्वसम्भवा | विश्वेषां सम्भवो यस्या इति | तद्धृतवायवीसंहितापि | शिवेच्छया परा शक्तिः शिवतत्त्वैकतां गता | ततः परिस्फुरत्यादौ सर्गे तैलं तिलादिवेति | कुब्जिका तन्त्रे प्रथमपटले तु | प्. १३) आसीद्बिन्दुस्ततो नादो नादाच्छक्तिः समुद्भवा | नादरूपा महेशानि ! चिद्रूपा परमा कला | नादाच्चैव समुत्पन्ना अर्द्धबिन्दुर्महेश्वरि ! | सार्द्धत्रितयबिन्दुभ्यो भुजङ्गी कुलकुण्डली | विगुणा सगुणा देवि ! ब्रह्मरूपा सनातनी | चैतन्यरूपिणी देवी सर्वभूतप्राकाशिनी | आनन्दरूपिणी देवी ब्रह्मानन्दप्रकाशिनी | इति विन्दोरादौ उत्पत्तिर्योक्ता सा आम्नायभेदेन अविरुद्धेति | स चाम्नायभेदोऽग्रे स्फुटीभविष्यति | इति सगुणशिवाच्छक्त्युत्पत्तिः | तस्याः शक्तेस्तु नादबिन्दुसृष्ट्यु पयोग्यवस्थारूपौ | तदुक्तं प्रयोगसारे | नादात्मना प्रबुद्धा सा निरामयपदोन्मुखी | शिवोन्मुखी यदा शक्तिः पुंरूपा सा तदा स्मृता | इति शक्त्यवस्थाभेदः | इच्छासत्त्वादिरूपतया बिन्दुरपि त्रिविध उक्तः सारदातिलके कान्यकुब्जवासिना जगद्गुरुणा लक्ष्मणाचार्येण | शिवशक्तिमयः साक्षात्त्रिधासौ भिद्यते पुनः | असौ बिन्दुः शिवमयः शक्तिमय उभयमयश्चेति त्रिविधः | त्रिविधस्य स्वरूपमुक्तं तत्रैव | बिन्दुर्नादो बीजमिति तस्य भेदाः समीरिताः | बिन्दुः शिवात्मको बीजं शक्तिर्नादस्तयोर्मिथः | समव्ययः समाख्यातः सर्वागमविशारदैः | क्रियासारेऽपि | बिन्दुः शिवात्मकस्तत्र बीजं शक्त्यात्मकं स्मृतम् | तयोर्योगे भवेन्नादस्ताभ्यो जातास्त्रिशक्तयः | इति त्रिबिन्दुकथनम् | शक्तित्रयमुक्तं तत्रैव | रौद्रीविन्दोस्ततो नादात् ज्येष्ठा बीजादजायत | वामा ताभ्यः समुत्पन्ना रुद्रब्रह्मरमाधिपाः | ते ज्ञानेच्छाक्रियात्मानो वह्नीन्द्वर्कस्वरूपिणः | एतत् सर्द्धवचनं शारदायामपि | ते रुद्रब्रह्मरमाधिपाः शिवब्रह्मनारायणा यथाक्रमं ज्ञानशक्तीच्छाशक्तिक्रियाशक्तिस्वरूपा इत्यर्थः | अतएवैते वह्नीन्द्वर्कस्वरूपिणः शब्दस्य सृष्ट्यन्तर्गता निबोधका अर्द्धेन्दुबिन्दुरूपाः शक्तेरेवावस्थाविशेषा ज्ञेयाः | एतेन शक्तेरेव सृष्ट्यादिकर्त्तृत्वमिति ध्वनितम् | ननु शब्दार्थभावि भुवनं सृजतीन्दुरूपा यावद्विभर्ति पुनरर्कतनुः स्वशक्त्या | प्. १४) वह्न्यात्मिका हरति तत् सकलं युगान्ते तां शारदां मनसि जातु न विस्मरामीति | गोरक्षसंहितायामपि | इच्छाक्रिया तथा ज्ञानं गौरी ब्राह्मी तु वैष्णवी | त्रिधा शक्तिः स्थिता यत्र तत्परं ज्योतिरोमिति | यथासम्भवमुन्नेयम् अत्र ज्ञानं गौरीशक्तिरिच्छा ब्राह्मीशक्तिः क्रिया वैष्णवीशक्तिरिति त्रिधा त्रिप्रकारा सा | वक्ष्यमाणायामपि तस्यां सूर्येन्दुपावकान् | प्रणवस्य त्रिभिर्वर्णैरित्यादिप्रणवांशाः | अकारोकारमकारा ब्रह्मविष्णुरुद्रात्मका अकाराद्ब्रह्मणोत्पन्नमित्यादि ब्रह्मविष्ण्वीश्वरास्तत्तन्मण्डलेषु व्यवस्थिता इति | तेन तत्र तत्र सूर्यरूपोऽकारो ब्रह्मा अत्र तु सूर्यरूपो विष्णुरिति पूर्वापरलिखनानुसारेण विरोध इति चेदर्थसृष्ट्यनुसारेण क्रमोऽनुसन्धेयो न तु लिखनानुसारेणेति स्थितम् | योगिनीतन्त्रे पूर्वखण्डे दशमपटले तु | इत्युक्त्वा सा महाकाली ददावस्मासु शाम्भवि ! | इच्छाक्रियाज्ञानशक्तिः सर्वकार्यार्थसाधना | इच्छा तु विष्णवे दत्ता क्रिया शक्तिस्तु ब्रह्मणे | मह्यं दत्ता ज्ञानशक्तिः सर्वशक्तिस्वरूपिणी | इत्यनेन विष्णोरिच्छाशक्तिरिति यदुक्तं तदाम्नायभेदेना-विरुद्धम् | एवं वक्ष्यमाणपञ्चाम्नायषडाम्नायतत्तदाम्न्याय- रूपादिनिरूपकप्रभृतिपरस्परविरुद्धवचनानि सात्त्विकादिभेदेनाम्नायभेदेन वा व्यवस्थेयानीति निबोधिकादिसृष्टिकथनम् | निर्वाणतन्त्रे प्रथमपटले तु | सत्यलोके निराकारा महाज्योतिःस्वरूपिणी | मायावल्कलमुत्सृज्य द्विधा भिन्ना जगन्मयी | शिवशक्तिविभागेन जायते सृष्टिकल्पना | प्रथमे जायते पुत्रो ब्रह्मसंज्ञो हि पार्वति ! | कालिकोवाच | शृणु पुत्र ! माहावीर ! विवाहं कुरु यत्नतः | एतत् श्रुत्वा ततो ब्रह्मा उवाच सादरं वचः | त्वां विना जननी नास्ति शक्तिं मे देहि सुन्दरि ! | तत् श्रुत्वा जगतां माता स्वदेहात् मोहिनीं ददौ | प्. १५) द्वितीया सा महाविद्या सावित्री परमा कला | अस्याः सङ्गं समासाद्य वेदविस्तारणं कुरु | अनायासे सृष्टिकर्ता भव त्वं महिमण्डले | द्वितीये जायते पुत्रो विष्णुः सत्त्वगुणाश्रयः | कालिकोवाच | शृणुपुत्र ! महावीर ! विवाहं कुरु यत्नतः | विष्णुरुवाच | तव दर्शनमात्रेण निष्कामी जायते पुमान् | काथं करोमि हे मात ! मोहिनीं देहि मे शिवे | देहाच्छक्तिं विनिष्कृष्य ददौ | तस्मै च कालिका | वैष्णवीं तां महाविद्यां श्रीविद्यां परमेश्वरि ! | तामाश्रित्य महाविष्णुः पालयत्यखिलं जगत् | तृतीये जायते पुत्रो महायोगी सदाशिवः | तं दृष्ट्वा सा महाकाली ऋतुयुक्ताभवन्मुदा | शृणु पुत्र ! महायोगिन् ! मद्वाक्यं हृदयं कुरु | त्वां विना पुरुषः को वा मां विना कापि मोहिनी | अतस्त्वं परमानन्दो विवाहं कुरु मे शिव ! | सदाशिव उवाच | यदुक्तं कर्म हे मातस्त्वां विना नास्ति मोहिनी | सत्यमेतत् जगन्मात ! र्मां विना पुरुषो न च | अस्मिन् देहे संस्थिते च न करोमि विवाहकम् | कुरु देहान्तरं मातः करुणा यदि वर्त्तते | तत्क्षणे सा महाकाली ददौ भुवनसुन्दरीमिति | कुब्जिकातन्त्रे प्रथमपटले | ब्रह्माणी कुरुते सृष्टिं न तु ब्रह्मा कदाचन | अत एव महेशानि ! ब्रह्मा प्रेतो न संशयः | वैष्णवी कुरुते रक्षां न तु विष्णुः कदाचन | अत एव महेशानि ! विष्णुः प्रेतो न संशयः | रुद्राणी कुरुते ग्रासं न तु रुद्रः कदाचन | अत एव महेशानि ! रुद्रः प्रेतो न संशयः | ब्रह्मविष्णुमहेशाद्या जडाश्चैव प्रकीर्तिताः | प्रकृतिञ्च विना देवि ! सर्वकार्याक्षमा ध्रुवमित्युक्तम् | इति शक्त्या सृष्ट्यादिकथनम् | शब्दब्रह्मण उत्पत्तिमाह | शारदायां प्रथमपटले | भिद्यमानात् पराद्विन्दोरव्यक्तात्मा वरोऽभवत् | शब्दब्रह्मेति तं प्राहुः सर्वागमविशारदा इति | पराद्विन्दोरित्यनेन शक्त्यवस्थारूपोः यः प्रथमो बिन्दुस्तस्माद्भिद्यमानादव्यक्तात्मा वर्णादिविशेषरहितोऽखण्डो नादमात्रमुत्पन्नमित्यर्थः | प्. १६) उक्तञ्चदुर्गेण यत्र ध्वनावकारादयो वर्णा विशेषरूपेण न व्यज्यन्ते स ध्वनिरव्यक्त इति | सृष्ट्युन्मुखपरमशिवप्रथमोल्लासमात्रमखण्डोऽव्यक्तो नादबिन्दुमय एव व्यापको ब्रह्मात्मकः शब्दः | शब्दब्रह्मेति हृदयं तथा च राघवभट्टधृतं वचनम् | क्रियाशक्तिप्रधानायाः शब्दशब्दार्थकारणम् | प्रकृतेर्बिन्दुरूपिण्याः शब्दब्रह्माभवत्परमिति | प्रयोगसारेऽपि | सोऽन्तरात्मा तदा देवि ! नादात्मा नदते स्वयम् | यथा संस्थानभेदेन सम्भूय वर्णतां गतः | वायुना प्रेर्यमाणासौ पिण्डाद्व्यक्तिं प्रयास्यतीति | शारदातिलके | चैतन्यं सर्वभूतानां शब्दब्रह्मेति मे मतम् | तत् प्राप्य कुण्डलीरूपं प्राणिनां देहमध्यगम् | वर्णात्मनाविर्भवति गद्यपद्यादिभेदतः | तद्भिद्यमान बिन्दुरूपं चैतन्यं कुण्डलीस्वरूपं प्रणवाकारं प्राणिनां देहमध्यगं सत् वर्णात्मना आविर्भवति प्रकाशत इत्यन्वयः | किं कृत्वा प्राप्य कण्ठादिकरणानीति शेषः | तथा च मूलाधारात् प्रथममुदितो यस्तु तारः पराख्य इत्यादि प्रपञ्चसारे आश्चर्यो वक्ष्यति | अत एव वक्ष्यमाणा सृष्टिः कुण्डलीत इति ज्ञेयम् | शब्दब्रह्मपरमब्रह्मभेदेन ब्रह्मणो द्वैविध्यमुक्तं कुलार्णवे पञ्चमखण्डे प्रथमोल्लासे | आगमोत्थं विवेकोत्थं द्विधा ज्ञानं प्रचक्षते | शब्दब्रह्मागमनयं परं ब्रह्मविवेकजम् | श्रीभागवते षष्ठस्कन्धे षोडशाध्यायेऽपि | अहं सर्वाणि भूतानि भूतात्मा भूतभावनः | शब्दब्रह्म परं ब्रह्म ममोभे शाश्वती तनुरिति | शब्दब्रह्म परणवरूपं तथा च भगवद्गीता | ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् | यः प्रयाति त्यजन् देहं स याति परमां गतिमिति | ओमिति ध्वनिमात्रोपलक्षणमतो वक्ष्यमाणगुरुवक्त्रे स्थितं ब्रह्म लभ्यते | तत्प्रसादत इत्यादिवचनैः सह न विरोधः | सर्वत्रैव धवनेर्विद्यमानत्वात् | प्. १७) प्रणवार्थो वा वाच्यन्तु परमं ब्रह्मप्रणवो वाचकः स्मृत इत्यादिवचनात् | इति श्रीप्राणतोषिण्यां प्रथमकाण्डे बीजस्वरूपशब्दप्रादुर्भावरूपाकरकथनं नाम प्रथमः परिच्छेदः | * * * * इत्याकरे समुद्भूते शब्दे संशयरूपतः विवादबिलमुत्पन्नं परस्परजिगीषयेति | अथ शब्दा नित्या अनित्याः प्रसिद्धाश्चेति मतत्रयम् | तत्र पूर्वमते शब्दब्रह्मेति मुष्ठूक्तम् | अनित्यवादिनोऽपि बहवस्तेषां मध्ये आन्तरस्फोटवादिनो जातिव्यक्तिस्फोटात्मकवाह्यस्फोटवादिनश्चैवं विवदन्ते यथा अथ कथमर्थः शब्देन प्रतिपाद्यते प्रतिपादयितुमक्षमत्वात् | तथा हि नियतवर्णाः प्रदार्थं गमयन्ति ते किं क्रमेण युगपद्वा | नाद्यः | गौरित्यादौ गादिवर्णैः प्रत्येकमर्थप्रतिपादने कृते अपरवर्णवैयर्थ्यं स्यात् | अथ वर्णैरेकशः कियानर्थावयवः प्रतिपाद्यत इति चेत्तदप्ययुक्तम् | न हि गवाद्यवयवे गादिवर्णानां सङ्केतोऽस्ति | न द्वितीयः | भिन्नकालोपलब्धानां यौगपद्याभावात् | उच्चरितप्रध्वंसिनो हि वर्णास्तावत्कालमवतिष्ठन्ते | न च पूर्वपूर्ववर्णज्ञानं तस्योत्तरोत्तरवर्णज्ञानानुवृत्तौ नित्यत्वे प्रसङ्गात् अत एवेदं निरस्तम् | यावन्तो यादृशा ये च तदर्थप्रतिपादने | वर्णाः प्रज्ञातसामर्थ्याः ते तथैवार्थबोधका इति | तस्मादनुत्पन्नोत्पन्ननष्टयोरसत्त्वे विशेषाभावात् वर्णेभ्योऽर्थप्रत्ययो न सम्भवतीति वर्णाव्यतिरेकेण वर्णाभिव्यङ्गः स्फोटः परिकल्प्यते | स्फुटत्यर्थो यस्मादिति स्फोटोऽपादानेऽल् | वर्णोच्चारणन्तु स्फोटार्थमेव | पादवर्णा हि स्फोटव्यञ्जका इति क्रमयौगपद्याभ्यां व्यञ्जकासम्भव इति चेद्भवति तावदर्थप्रतिपत्तिः तदनुपपत्त्या वर्णेष्वपि स्फोटः कल्प्यते | तस्मात् वर्णस्फोटात् पदस्फोटस्तस्मादर्थप्रतिपत्तिरित्थञ्च क्रमयौगपद्याभ्यां पदेभ्यो वाक्यार्थानुपपत्त्या पदस्फोटव्यञ्जितात् वाक्यस्फोतात् वाक्यार्थप्रतीतिः | प्. १८) ननु गौरित्युच्चारणानन्तरं वर्णव्यतिरिक्तं परं किञ्चिन्नोपलभामहे | केवलं वर्णा एव प्रतिपाद्यन्ते | तस्मादनुपलभ्यमानत्वात् स्फोटरूपं नाम नास्त्येव शशविषाणादिवदिति स्फोटवादिनमाक्षिपन्ति | शपथैरपि नादेयं वचो वः स्फोटवादिनाम् | नभःकुसुममस्तीति कोऽभिदध्यात् सचेतन इति | तत्र स्फोटवादिभिरुच्यते | प्रत्यक्षेण न गृह्यते स्फोटः | तथा हि गौरित्यत्र गकारौकारविसर्गेति वर्णत्रयस्य क्रमेणानुभवानन्तरं पदमिति अभिन्नाकारा बुद्धिरुपजायते | न च तस्यां वर्णत्रयानर्थक्यं प्रयुज्यते अभिन्नत्वात् बुद्धेः | यथा पटबुद्धिरभिन्ना तन्तुभिरेवोपजायमाना तन्तुव्यतिरिक्तं पटमवलम्बते | तथा इहापि वर्णत्रयव्यतिरिक्तं वस्त्वन्तरमवलम्बते स च स्फोट इति | ननु वर्णव्यतिरिक्तमन्यद्वस्तु न दृश्यत एव पटोऽपि तर्हि तन्तुव्यतिरिक्तो न दृश्यते कथमङ्गीकर्त्तव्यः पटबुद्धौ पटः प्रकाशते स्फोटोऽपि तर्हि तथा | अथ स्फोटः किंस्वरूप इदं तदिति शृङ्गग्राहितया प्रतिपाद्यताम् | अथोच्यते | यो हि यद्बुद्धिग्राह्यः स तद्बुद्धिबोध्य एव न बुद्ध्यन्तरेभ्य इति पटोऽपि तर्हि तटबुद्ध्यैव प्रतिपाद्यते | न तु बुद्ध्यन्तरेण तस्मात् | यथा तन्त्वनुभवानन्तरमवयवी प्रत्यक्षसिद्धः पटस्तद्वत् सकलवर्णानुभवानन्तरमनुभूयमानो वर्णाभिव्यङ्ग्यः | प्रत्यक्षसिद्धस्फोट इति गोपीनाथतर्काचार्याः | तन्मतद्वयं दूषयितुमुपक्रमन्ते शारदातिलके प्रथमपटले आचार्याः | शब्दब्रह्मेति शब्दार्थं शब्दमित्यंपरे विदुः | एके आचार्याः | शब्दार्थम् आन्तरस्फोटं शब्दब्रह्मेत्याहुः | यथाह | निरंश एव अभिन्नोनित्यबोधस्वभावः शब्दार्थ आन्तरस्फोट इति | अपरे वैयाकरणाः पूर्वपूर्ववर्णोच्चारणाभिव्यक्ततत्तत्पद- संस्कारसहायचरमपदग्रहणोद्बुद्धं वाक्यस्फोटलक्षण- मखण्डैकार्थप्रकाशकं शब्दं शब्दब्रह्मेति वदन्ति | यथाह | एक एव नित्योऽभिव्यङ्ग्येभ्योऽखण्डो व्यक्तिस्फोटो जातिस्फोटो वा वहीरूप इति | प्. १९) न तु अनित्यःशब्दश्चेत्तदा नानामुनिभिर्महादेवेन देव्यर्चनानानाशास्त्रेषु एकमेव वचनं क्वचित् क्वचित् कथमुक्तं तदग्रे व्यक्तीभविष्यति | नित्यपक्षे तु नैष दोषो वचनस्यापि नित्यत्वात् इति चेत् न | अनित्यपक्षेऽपि नानावक्त्रादेकस्वरूपा भारती वचनरूपेण निर्गतेत्यनेन कस्यापराधस्तस्याः शक्तेः वैचित्र्यात् | यत्तु योगिनीतन्त्रे प्रथमखण्डे दशमपटले | तन्मध्ये तु मया दृष्टं वर्णपुञ्जं महोज्ज्वलम् | सूर्यकोटिसमाभासं चन्द्रकोटिसुशीतलम् | वह्निकोटिमहोज्ज्वालं परं ब्रह्ममयं ध्रुवमिति वचनं तद्ब्रह्माण्डादिवदाद्याशरीरस्थत्वेन अवधातव्यमन्यथा तच्छरीरवर्त्तिनां ब्रह्माण्डादीनामपि नित्यं स्यात् | तच्छरीरे ब्रह्माण्डन्तु | अतीव वृहदाकारब्रह्माण्डकोटिकोटयः | चरन्ति सर्वदा देवि ! कः संख्यातुं क्षमो भवेत् | इति तदनन्तरशिववचनाज्ज्ञेयम् | अथ भवन्मते मन्त्रवेदगायत्र्यादीनामनित्यत्वापत्तिरिष्टापत्तिरिति चेत् | ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् | इति गीतोक्तम् | गुरुवक्त्वे स्थितं ब्रह्म लभ्यते तत्प्रसादत ! | इति गुरुगीतोक्तम् | गुरुणा यस्य यत् प्रोक्तं तत्तस्य ब्रह्मसंज्ञितम् | इति गुप्तसाधनतन्त्रे षष्ठपटलोक्तं | गायत्री ब्रह्मरूपिणीति तत्कवचोक्तमापौरुषेयाणि वेदवाक्यानीति दुर्गसिंहोक्तञ्च | उक्तञ्च दोषाः सन्ति न सन्तीति पौरुषेयेषु विद्यते | वेदे कर्त्तुरभावात्तु दोषाशङ्कैव नास्ति नः | इति तत्र तत्र लक्षणया ब्रह्मप्रतिपादकमिति व्याख्यातव्यमिति चेन्नेयं लक्षणा रूढिप्रयोजनाभ्यां वञ्चितत्वादिति | उक्तञ्च काव्यःप्रकाशे | मुख्यार्थबाधे तदुयोगे रूढितोऽर्थप्रयोजनात् | अन्यार्थो लक्ष्यते यत् सा लक्षणारोपिता क्रिया | इति शब्दश्रवणमात्रावगम्योऽर्थः मुख्यार्थः | यथोक्तं गोपीनाथतर्काचार्येण | श्रुतिमात्रेण यात्रास्य तादर्थ्य मवसीयते | प्. २०) तं मुख्यमर्थं मन्वन्ते गौणं यत्नोपपादितमिति | बाधस्तु अन्वयानुपपत्तिः | ययेत्यर्थे यदित्यव्ययम् | क्रियाव्यापारः | आरोपिता अभिधेयप्रत्ययान्तरितप्रत्ययेति | प्रसिद्धवादिनस्तु नामी वर्णा नित्यास्तल्लक्षणायोगात् | तथा हि सदकारणवन्नित्यमिति नित्यलक्षणम् | सत् सत्त्वाशालि अकारणवत् | कारणरहितं यत् तन्नित्यमित्यर्थः | केवलं सदित्यक्ते घटपटादेर्ध्वंसस्यापि नित्यत्वप्रसङ्गः स्यात् | केवलमकारणवदित्युक्तेऽपि प्रागभावस्यापि नित्यत्वप्रसङ्गः | अतो विशेषणद्वयमिति | वर्णास्तु कण्ठताल्वादिकरणक्रमानुविधायिजन्मानः नित्या भवितुमर्हन्ति | नाप्यनित्याः स एवायं शब्दो यः पूर्वमुपालब्ध इति प्रत्यभिज्ञान्तात् | अथ तत्प्रतिरूपकोऽयमिति चेत्तथापि सङ्केतान्तरप्रसक्तिः स्यात् | सङ्केतस्तु | अस्माच्छब्दादयमर्थो बोद्धव्य इत्युद्देशनरूपः | वर्णादिषु उच्चरितप्रध्वस्तेषु सङ्केतोऽपि ध्वस्त इति | तस्मान्न अमी वर्णा नित्या नाप्यनित्याः | किन्तु अनवच्छिन्नसन्तानाः प्रसिद्धा इति | ननु वर्णा नित्याश्चेत्तदा कथमुक्तं वर्णात्मनाविर्भवतीति | नैवमभिप्रायापरिज्ञानाद्दोषमाशङ्कसे तथा हि | शब्दो द्विविधो ध्वनिर्वर्णश्च | षड्जर्षभगान्धारमध्यपञ्चमधैवतनिषादेषु सप्तसु स्वरेषु वर्णं विना ध्वनिः स्वातन्त्र्येण प्रतिभाति | अमरसिंहेनापि तन्त्रीकण्ठोत्थिताः स्वरा इत्युक्तम् | तथा च षड्जं रौति मयूरस्तु गावो नर्दन्ति चर्षभम् | अजो रौति तु गान्धारं क्रौञ्चं क्वणति मध्यमम् | पुष्पसाधारणे काले काकिलो रौति पञ्चमम् | धैवतं कुञ्जरो रौति निषादं हेषते हय इति रायमुकुटप्रभृतिधृतसङ्गीतवचनमिति | मालवादयो रागा अपि मूर्च्छितस्वरभेदेन ध्वनिरेव भवति | तथा च मालवोऽयं वसन्तश्चायमित्यादि गीतिश्रवणसमये ध्वनिभेदेन सामाजिकानां प्रतीतिः स्यात् | ध्वनिभेदज्ञानन्तु स्वरभेदेन भवति | प्. २१) न तु वस्तुत इति | ध्वनिमन्तरेण वर्णो न प्राशते | अर्थावबोधाय ध्वनिर्वर्णात्मना आविर्भवति प्रकाशत इति तस्य तात्पर्यम् | नन्वर्थावबोधाय परा पश्यन्ती मध्यमा वैखरीत्वरूपावस्थः सन् ध्वनिरपि प्रकाशते | तथा च गवादीनां वत्सप्रभृत्यावाहनाद्यर्थं नादः प्रवर्त्तते || अत एवोक्तं स्वरशास्त्रे || शिशुर्वेत्ति पशुर्वेत्ति वेत्ति गीतिरसं फणी | हरिर्वेति हरो वेत्ति नारदोवेत्ति वा न वा || इति चेत् सत्यम् | गवादीनां स्वरमात्रप्रतीतिसमवायिनां कियद्विषयकज्ञानमस्ति न तु धीमेधाविज्ञानानि तानि तु वर्णज्ञानादृते न सम्भवन्ति | तथा हि ईश्वरविषयकज्ञानमपीश्वरशब्दं विना न भवति | एवमनिर्देश्यं निर्गुणं ब्रह्मापि अन्धकारावस्थितवस्तुप्रकाशकप्रदीपेनेव तत्प्रकाशकमात्रेण निर्गुणशब्देनैव व्यज्यते | अत एव ध्वनिं तृणाय मत्वा शिशुर्वेत्ति पशुर्वेत्ति वेत्ति गीतिरसं फणी | एकन्तु कवितातत्त्वमीश्वरो वेत्ति नापर इत्यनेन काव्यविद्भिरुपहस्तितम् | कवितातु अर्थव्यङ्ग्या अतो वर्णात्मकशब्दे नैव कविता स्यादिति तु न शब्दवाच्यत्वं निर्गुणस्य || सनिर्गुणः गुणश्चेति शिवो ज्ञेयः सनातनः || निर्गुणः प्रकृतेरन्यः सगुणः सकलः स्मृत इति शारदोक्तेर्वणानां प्रकृतिप्रभवत्वेन तत्र वृत्त्याभावात् प्रकृतेरन्यः प्रकृत्या असम्बद्ध इत्यर्थः || कुब्जिकातन्त्रे प्रथमपटले तु शेषार्द्धन्यथोक्तं यथा | निर्गुणः सगुणच्चेति शिवो ज्ञेयः सनातनः | निर्गुणाश्चैव सञ्जाता विन्दवस्त्रय एव च | ब्रह्मबिन्दुर्विष्णुबिन्दूरुद्रबिन्दुर्महेश्वरीति || अन्यथा प्रकृतीश्वरभेदोपलब्ध्यनन्तरं मिलितत्वप्रतीतिविषयेण सगुणेन निर्गुणस्य भेदप्रतीतिर्न स्यादत एव श्रुत्यध्याये ब्रह्मणा ब्रह्मण्यनिर्देश्ये निर्गुणे गुणवृत्तयः | कथं चरन्ति श्रुतयः साक्षात् सदसतः परे || इति परीक्षितः प्रश्नोऽपि सङ्गच्छते | आस्तां विस्तरः प्रस्तुतमभिधास्ये | तन्मतद्वयं दूषयति शारदातिलकं मतद्वयेन शब्दशब्दार्थयोः ब्रह्मत्वमुक्त्वा न हि तेषां तयोः सिद्विर्जडत्वादुभयोरपीति तेषां वादिनां मते तयोः शब्दशब्दार्थयोः शब्दब्रह्मत्वसिद्धिर्न | प्. २२) हेतुमाह उभयोर्जडत्वादिति | अयमाशयः | शब्दं विनार्थो जडः प्रतिपत्तुमशक्यः कस्तं प्रतिपादयिष्यतीत्येवमर्थं विना शब्दोऽपि डः प्रतिपादयितुमशक्तः कं स बोधयिष्यतीति तेन शब्दार्थरूपविशिष्टस्य शब्दब्रह्मत्वमवधारितम् | तदुक्तम् अध्यायात्मविवेके | अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरं | विवर्ततेऽर्थभावेन प्रक्रिया जगतो मतेति | अन्यत्रापि शब्दग्रमेति शब्दावगम्यमर्थं विदुर्बुधाः | स्वतोऽर्थानावरोधत्वात् प्रोक्तोऽप्येतादृशो वर इति | स तु सर्वत्र संस्यूते जाते भूताकारे पुनः | आविर्भवति देहेषु प्राणिनामर्थविस्तृत इति || अत एव कल्पसूत्रटीकायां शङ्कराचार्याः || षट्त्रिंशत्तत्त्वानि विश्वं शरीरं कञ्चुकितः शिवो जीवः | निष्कञ्चुकः परमशिव इति षट्त्रिंशत्तत्त्वानि शुद्धमिश्राशुद्धभेदानि यथा | शिवशक्तिसदाशिवेश्वरशुद्धविद्येति शुद्धानि | मित्राणि शुद्धाशुद्धानि | शुद्धानि यथा मायाकला विद्यावागहङ्कारकालनियतिपुरुषप्रकृतिबुद्धिमनांसि | अशुधानि यथा | श्रोत्रत्वक्चक्षूरसनाघ्राणवाक्पाणिपादपायूपस्थशब्दस्पर्शरूपरसगन्धाकाशव् आयुतेजोजल पृथिव्यात्मकानि | तदुक्तं मृत्युञ्जयसंहितायाम् || कलाविद्यावाक्कालमायानियतिपञ्चकैः कञ्चुकितः शिवो जीवो भवति | एवञ्च शिवजीवयोरुपाधिमात्रभेदेः तत्त्वानां शिवेषस्तु दीक्षापरिच्छेदे वक्ष्यते || कञ्चुकलक्षणं यथा परापरिमलोल्लासे || अस्यैव सर्वकर्त्तुर्यत् किञ्चित्कर्तृविभ्रमः | तस्य हेतुः कलानाम तत्त्वं तत्त्वविदो विदुः | सर्वज्ञस्य त्वविद्या स्यात् किञ्चित् ज्ञातृत्वविभ्रमः | पूर्णस्य रागो विषयेष्वभिष्वङ्ग इतीरितः | कालो हि नाम भावानां भीषणाभीषणात्मकः | क्रमावच्छेदकः सोऽयं लवादिप्रलयावधिः | प्. २३) इदं ममैव कर्त्तव्यमकर्त्तव्यमिदं मम | इत्थं नियमनस्यास्य हेतुर्नियतिरुच्यते | तत्त्वपञ्चकमेतस्य स्वरूपावरकं यतः | तस्मात् कञ्चुकमित्येतदुच्यते तत्त्वपञ्चकमित्याहुः || कुलार्णवे पञ्चमखण्डेऽपि | घृणा लज्जा भयं शोको जुगुप्सा चेति पञ्चमी | कुलं शीलं तथा जातिरष्टौ पाशाः प्रकीर्तिताः | पाशबद्धो भवेज्जीवः पाशमुक्तः सदाशिवः || इति शिवजीवयोरैक्यमुक्तम् | राघवभट्टस्तु यदि शब्दः शब्दार्थो वा ब्रह्मेत्युच्यते तदा ब्रह्मपदवाच्यत्वं नोपपद्यते | यतः सच्चिदानन्दरूपो ब्रह्मपदार्थः | उक्तञ्च श्रुत्या | नित्यं विज्ञानमानन्दं ब्रह्मेत्याह | एतन्न समीचीनम् | तेनैव लिखितकुण्डलीस्वरूपं प्रणवाकारमित्यसङ्गतेः विश्वसाराद्युक्तवचनजाताच्च || तथा च विश्वसारे || शब्दब्रह्मेति तं प्राह साक्षाद्देवः सदाशिवः | अनाहतेषु चक्रेषु स शब्दः परिकीर्त्यते | अनाहतं महाचक्रं हृदये सर्वजन्तुषु | तत्र ओंकार इत्युक्तो गुणत्रयसमन्वितः | शिवो ब्रह्मा तथा विष्णुरोङ्कारे च प्रतिष्ठितः | अकारश्च भवेद्ब्रह्मा उकारः सच्चिदात्मकः | मकारो रुद्र इत्युक्त इति तस्यार्थकल्पना | चकारे च भवेद्विष्णु रुकारे च प्रजापतिः | मकारे च भवेत् रुद्र इति वा वर्णनिर्णयः || फेत्कारिणीतन्त्रे प्रथमपटले च | तेभ्य एव समुत्पन्ना वर्णेभ्यो विष्णुशूलिनोः | मूर्त्तयः शक्तिसंयुक्ता उद्यन्ते ताः क्रमेण तु | इत्युक्ता विष्णुशिवशक्तीनां प्रत्येकं मूर्तयः पञ्चाशदुक्ताः | प्रपञ्चसारे तृतीयपटलेऽपि || शशीनाग्न्युत्थिता यस्मात् स्वरस्पृक्व्यापकाक्षराः | इनः सूर्यः स्पृक् स्पर्शः | तत्त्रिभेदे समुपन्ना अस्टत्रिंशत् कला मताः | स्वराः सौम्याः स्पर्शयुग्मैः सौरा वाद्याश्च वह्निजाः | षोडशद्वादशदशसंख्याः स्युः क्रमशः कलाः || क्रमश इति चन्द्रस्य षोदश द्वादश सूर्यस्य वह्नेर्दशेत्यष्टत्रिंशत् कलाः | वर्णेभ्य एव तारस्य पञ्चभेदैश्च भूतगैः | प्. २४) सर्वगाश्च समुपन्नाः पञ्चाशत्संख्यकाः कलाः || तारस्य प्रणवस्य ताभ्य एव तु तावत्यः शक्तिभिर्विष्णुमूर्त्तयः | तावत्या मातृभिः सार्द्धं तेभ्यः स्यूरुद्रमूर्तयः | तेभ्य एव तु पञ्चाशत् स्युरौषधय ईरिताः | याभिस्तु मन्त्रिणः सिद्धं प्राप्नुयुर्वाच्छितप्रदाम् | अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः | शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गना | पूर्णापूर्णामृता कामदायिन्यः स्वरजाः कलाः | कुलार्णवे पञ्चमखण्डे षष्ठोल्लासे तु चेति कथिता कुलनायिकेति पाठः | तापिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः | सुषुम्ना भोगदा विश्वा बोधिनी धारिणी क्षमा | कभाद्या वसुदाः सौराष्ठडान्ता द्वादशेरिता | धूम्रार्च्चिरुष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी | सुश्रीः सुरूपा कपिला हव्यकव्यवहेत्यपि | हव्यवहा कव्यवहेति | याद्यर्णयुक्ता वह्न्युत्था दश धर्मप्रदाः कलाः | कुलार्णवे तु | आग्नेया यादिवर्णाद्या दश धर्मप्रदाः कलाः | इति पाठः | शारदायाम् | अमृता मानदा इत्याद्युक्ता | अभयेष्टकरा ध्येयाः | श्वेतपीतारुणाः क्रमात् | इति विशेष उक्तः | प्रपञ्चसारे | सृष्टिर्-ऋद्धिः स्मृतिर्मेधा कान्तिर्लक्ष्मीर्धृतिः स्थिरा | स्थितिः सिद्धिरकारोत्थाः कला दश समीरिताः | अकारप्रभवा ब्रह्मजाताः स्युः सृष्टये कलाः | शारदायाम् | अकाराद्ब्रह्मणोत्पन्नास्तप्तचामीकरप्रभाः | द्रवीभूतस्वर्णवर्णा इत्यर्थः | एताः करधृताक्षस्रक्पङ्कजद्वयकुण्डिकाः | प्रपञ्चसारे | जरा च पालिनी शान्तिरीश्वरी रतिकामिका | वरदा ह्लादिनी प्रीतिर्दीर्घाश्चोकारजाः कलाः || शारदायान्तु | दीर्घाः स्युरष्टतवर्गजाः | उकाराद्विष्णुनोत्पन्नास्तमालदलसन्निभाः | अभीतिवरचक्रेष्टबाहव, परिकीर्तिताः | तीक्ष्णा रौद्री भया निद्रा तन्त्री क्षुत् क्रोधनी क्रिया | उत्कारी चैव मृत्युश्च मकाराक्षरजाः कलाः | मकारप्रभवा रुद्रजाताः संहृतये कलाः | शारदायान्तु | प्. २५) उत्कारी मृत्युरेताः स्युः कथिताः पयवर्गजाः | रुद्रेण मार्णादुत्पन्नाः शरच्चन्द्रनिभप्रभाः | उद्वहन्त्योऽभयं शूलं कपालं वाहुभिर्वरम् | इत्यधिकमुक्तम् || विन्दोरपि चतस्रः स्युः पीताः श्वेतारुणासिताः | ईश्वरेणोदिता विन्दोः पीताः श्वेतारुणासिताः | अनन्ताय यवर्गस्था जवाकुसुमसन्निभाः | अभयं हरिणं टङ्कं दधाना वाहुभिर्वरम् | इत्यधिकमुक्तं शारदायाम् || कलाश्चेश्वरसञ्जातास्थिरोधानाय बिन्दुजाः | इति कुलार्णवे || निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च | इन्धिका दीपिका चैव रेचिका मोचिका परा | सूक्ष्मा सूक्ष्मार्त्तता ज्ञानामृता चाप्यायनी तथा | व्यापिनी व्योमरूपा च अनन्ता नादसम्भवा | नादजाः षोडश प्रोक्ता भुक्तिमुक्तिप्रदायिकाः | सदाशिवेन सञ्जाता नादादेताः सितत्विषः | अक्षस्रक्पुस्तकगुणकपालाढ्यकराम्बुजाः | इति पञ्चाशदाख्याताः कलाः सर्वसमृद्धिदाः | इत्यादिकं शारदायाम् | इति पञ्चाशत्कलाः | प्रपञ्चसारे || केशवनारायणमाधवगोविन्दविष्णवः | मधुसूदनसंज्ञश्च सप्तमः स्यात् त्रिविक्रमः | वामनः श्रीधराख्यश्च हृषीकेशस्तदन्तरम् | पद्मनाभस्तथा दामोदराख्यो वासुदेवयुक् | सङ्कर्षणश्च प्रद्युम्नः सानिरुद्धाः स्वरोद्भवाः | ततश्चक्री गदी शार्ङ्गी खड्गी शङ्खी हली तथा | मुषली शूलिसंज्ञश्च भूयः पाशी तथाङ्कुशी | मुकुन्दो नन्दजो नन्दी नरो नरकजिद्धरिः | कृष्णः सत्यः सात्वतश्च शौरिः शूरी जनार्दनः | भूधारी विश्वमूर्तिश्च वैकुण्ठः पुरुषोत्तमः | बली बलानुजो बालो वृषघ्नश्च वृषस्तथा | हंसो वराहो विमलो नृसिंहो मूर्त्तयो हलात् | कादिक्षान्ताद्व्यञ्जनादित्यर्थः | केशवाद्या इमे श्यामाश्चक्रशङ्खलसत्कराः | इति शारदायामधिकम् || फेत्कारिणीतन्त्रेऽपि || शङ्खचक्रधराः सर्वे घनाभाः पीतवाससः | केशवाद्या निजाङ्कस्थशक्त्यालङ्कृतविग्रहाः | प्. २६) इति पञ्चाशद्विष्णवः | कीर्तिः कान्तिस्तुष्टिपुष्टी धृतिः शान्तिः क्रिया दया | मेधा सर्षी श्रद्धा स्याल्लज्जा लक्ष्मीः सरस्वती | प्रीतिरती रमा प्रोक्ताः क्रमेण स्वरशक्तयः | जया दुर्गा प्रभा सत्या चण्डा वाणी विलासिनी | विजया विरजा विश्वा विनदा सुनदा स्मृतिः | ऋद्धिः समृद्धिः शुद्धिश्च भक्तिर्मुक्तिर्मितिः क्षमा | रमोमा क्लेदिनी क्लिन्ना वसुदा वसुधा परा | परा परायणा सूक्ष्मा सन्ध्या प्रज्ञा प्रभा निशा | अमोघा विद्युता चेति शक्तयः सर्वकामदाः | एताः प्रियतमाङ्केषु निषणाः सस्मिताननाः | विद्युद्दामसमानाङ्ग्यः पङ्कजाभयवाहवः | फेत्कारिणीतन्त्रे तु || ताश्च सस्मितवक्त्राब्जा विद्युदाभाः प्रकीर्तिताः | कान्ताङ्कस्थाश्च कीर्त्त्याद्याः कमलाभयपाणयः | इत्युक्तम् | इति पञ्चाशद्विष्णुशक्तयः || श्रीकण्ठोऽनन्तसूक्ष्मौ च त्रिमूर्तिरमरेश्वरः | अर्घीशो भावभूतिश्चातिथिश्च स्थाणुको हरः | झिण्टीशो भेतिकः सद्योजातश्चानुग्रहेश्वरः | अक्रूरश्च महासेनः स्युरेताः स्वरमूर्त्तयः | ततः क्रोधीशचण्डेशपञ्चान्तकशिवोत्तमाः | अथैकरुद्रकूर्मैकनेत्राह्वचतुराननाः | अजेशः सर्वसोमेशस्तथा लाङ्गलिदारकौ | अर्द्धनारीश्वरश्चोमाकान्तश्चाषाढिदण्डिनौ | स्युरप्रिमीनमेषाख्यालोस्थितश्च शिखी तथा | छगलण्डद्विरण्डेयौ समहाकालवालिनौ | भुजङ्गेशपिनाकीशखड्गीशाख्यवकेशकाः | श्वेतस्रग्वीशनकुलिशिवाः संवर्त्तकस्तथा | एते रुद्राः स्मृता रक्ता धृतशूलकपालकाः || इति पञ्चाशद्रुदाः || पूर्णोदरी स्याद्विरजा शाल्मली तदनन्तरम् | लोलाक्षी वर्त्तुलाक्षी च दीर्घघोणा समीरिता | सुदीर्घमुखागोमुख्यौ दीर्घजिह्वा तथैव च | कुण्डोदर्यूर्द्धकेश्यौ च तथा विकृतमुख्यपि | ज्वालामुखी ततो ज्ञेया पश्चादुल्कामुखी ततः | सुश्रीमुखी चैव विद्यामुख्येताः स्वरशक्तयः || प्. २७) महाकालीसरस्वत्यौ सर्वसिद्धिसमन्विते | गौरी त्रैलोक्यविद्या स्यान्मन्त्रसिद्धिस्ततः परम् | आत्मशक्तिर्भूतमाता तथा लम्बोदरी स्मृता | द्राविणी नागरी भूयः खेचरी चापि मञ्जरी | रूपिणी चित्रिणी पश्चात् काकोदर्यपि पूतना | स्याद्भद्रकालीयोगिन्यौ शङ्खिनी गर्जिनी तथा | कालरात्रिश्च कुब्जिन्या कपर्दिन्यपि वज्रषा | जया च सुमुखेश्वर्यया रेवती माधवी ततः | वारुणी वायवी प्रोक्ता पश्चाद्रणे विदारिणी | ततश्च सह आलक्ष्मीर्व्यापिनी माययान्विता | एता रुद्राङ्कपीठस्थाः सिन्दूरारुणविग्रहाः | रक्तोत्पलकपालाभ्यामलङ्कृतकराम्बुजाः | आयुधादिध्यानं वामदक्षयोरेवं सर्वत्र | इति पञ्चाशद्रुद्रशक्तयः | चन्दनकुचन्दनागुरुकर्पूरोशीररोगजलघुसृणाः | कक्कोलजातिमांसीमुराचोरग्रन्थिरोचनापत्राः | पिप्पलविल्वगुहारुणतृणं कलरङ्गाह्वकुम्भीवल्लिन्यः | शोल्वम्बरकाश्मरिकास्थिराब्जदरपुष्पिका | मयूरशिखाप्लक्षाग्निमन्थसिंहीकुशाह्वदर्भाः | कृष्णदरपुष्पीरोहिणचुण्डकवृहतीपाटलचित्रातुलस्यपा-मार्गाः | शतमखलताद्विरेफाविष्णुक्रान्तामूषल्यथाञ्जलिनी | दूर्वाश्रोदेवीसह तयैव लक्ष्मीसदाभद्रे | आदीनामिति कथिता | वर्णानां क्रमवशादथौषधयः | गुलिकाकवायभावितप्रमेदतो निखिलसिद्धिदायिन्यः | चन्दनं प्रसिद्धम् | कुचन्दनं रक्तचन्दनम् | अगुरुः प्रसिद्धः | कर्पूरं रसकर्पूरम् | उशीरं वीरणमूलम् | रोगः कुष्ठम् | जलं बाला | घुसृणः कुङ्कुमम् | कक्कोलं काकोलीति प्रसिद्धम् | जातिः पुष्पविशेषः | स्नतामांसी जटामांसी | मुरा मुरामांसी | चोरश्चोरपुष्पी | ढोलकलम्बीति गौडभाषा | ग्रन्थिः गाठियानीति गौडप्रसिद्धम् | रोचना हरिद्रा | पत्रं तेजपत्रम् पिप्पलोऽश्वथः | विल्वः प्रसिद्धः | गुहा जयन्ती | अरुणतृणं पृश्निपर्णी | फलरङ्गाह्वः कामराङ्गा इति प्रसिद्धः | कुम्भी गाम्भारी | वल्लिनी ताम्बूली | प्. २८) शोल्वम्बरं छोलङ्ग इति प्रसिद्धः | काश्मरिका कशेरुः | स्थिरा बला | अब्ज दुज्जलः हिजल इति यस्य प्रसिद्धिः | दरपुष्पिका तिलपुष्पम् | मयुरशिखा अपमार्गविशेषः सुपाङेति यस्य प्रसिद्धिः | प्लक्षो वटः | अग्निमन्थो गम्भारिः | सिंही कण्टकारी | कुशा कुशाह्वः प्रसिद्धः | दर्भः काशविशेषः | कृष्णः पिप्पली | दरपुष्पी इन्द्रयवः | रोहिणं कुटुकी | चुण्डुकं कुकुबल्या | वृहती प्रसिद्धा | पाटलः पारलीति प्रसिद्धः | तुलसी प्रसिद्धा | अपामार्गः प्रसिद्धः | शतमखता इन्द्रलता | द्विरेफा भृङ्गराजः | विष्णुक्रान्ता अपराजिता | मूषली तालमूली | अञ्जलिनी लाजालु लज्जावतीति यस्याः ख्यातिः | दूर्वा प्रसिद्धा | श्रीदेवी धान्यमिति | लक्ष्मीः शतमूली | सदा रुद्रजटा | भद्रा भद्रपर्पटी इत्योषधयः || ओषधीनां प्रयोजनमप्युक्तं राघवभट्टधृतेन || यो यो मन्त्रस्तस्य तस्य वर्णौषधिविनिर्मिता | तत्तद्वर्णोत्थसंख्याभिर्गुलिका मन्त्रसिद्धिदा | तयाभिषेकस्तद्धवनं तत्स्वादस्तद्विलेपनम् | तत्पूजा च तथा सिद्धिदायकं स्यान्न चान्यथा || इत्योषधीनां फलकथनम् || कामधेनुतन्त्रप्रथमपटलेऽपि || अकारादिक्षकारान्ता मातृका बीजरूपिणी | विसर्गश्चैव बिन्दुश्च द्विसन्धिर्ब्रह्मविग्रहा | विसर्गः प्रकृतिर्बिन्दुः पुरुषः | द्विसन्धिर्द्वयोर्भेदकः || वर्णात्तु जायते ब्रह्मा तथा विष्णुः प्रजापतिः | रुद्रश्च जायते देवि ! जगत्संहारकारकः | इति सर्वेषामुपास्यानां ब्रह्मविष्णुप्रभृतीनां सर्वगकलानामोषधीनाञ्च ब्रह्मस्वरूपप्रणवपञ्चरश्म्यकारोकारमकारबिन्दुनादा-दिभ्य उत्पत्तेः | यदि वा वाच्यवाचकसम्बन्धेन लक्षणया प्रणवशब्देन प्रणववाच्यं ब्रह्मे त्यङ्गीक्रियते तदाप्युक्तदोषस्तदवस्थ एव | शारदाविश्वसार प्रपञ्चसारोक्तप्रमाणजातैः प्रणवावयवा एव सर्वोत्पादका न ब्रह्मावयवविशेषवाचका इति | प्. २९) तेभ्यः कथं सर्वेषामुत्पत्तिश्च स्यात् | ननूत्पत्तिकर्तृमात्रं न ब्रह्म अपि तु उत्पत्तिस्थितिलयहेतुत्वेनावधारितं यत् तदेव | तथा च वेदान्तवृत्तिधृता श्रुतिः | यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्राप्याभिसंविशन्ति तद्ब्रह्मेति व्यजाना इति प्रणवस्योत्पादकमात्रत्वात् कथं तथात्वमिति चेत् सत्यं प्रणवरश्म्युद्भवानां ब्रह्मादीनां सृष्ट्यादिकर्तृत्वदर्शनात् प्रणवस्य हेतुत्वं स्पष्टमवगम्यते | अथ तर्हि प्रणवस्य ब्रह्मत्वमस्तु कथमन्येषां वर्णानामित्यपि कुदेश्यं प्रणवविकृतत्वेनापि ध्वनिमयत्वात्तेषामिति || तथा च प्रपञ्चसारे प्रथमपटले || मूलार्णमर्णविकृतीर्विकृतेर्विकृतीरपि | तत्प्रभिन्नानि मन्त्राणि प्रयोगांश्च पृथग्विधान् | वैदिकांस्तान्त्रिकांश्चैव सर्वानित्थमुवाच हेति | मूलार्णा हंसः | अर्णविकृतिरकारादिक्षकारान्ता | विकृतेर्विकृतिर्वर्णसंयोगादि | तेन प्रभिन्नानि भेदं प्राप्तानि शेषं सुगमम् | इत्थमनेन प्रकारेण ब्रह्माणं सर्वान् काल उवाचेत्यन्वयः | हंसो विकारप्रकारस्तु | चतुर्थपटले प्राणात्मकं हकाराख्यं बीजं तेन तदुद्भवाः | षडूर्मयः स्यूरेफोत्था गुणाश्चत्वार एव च | पवनाद्याः पृथिव्यन्ताः स्पर्शाद्यैश्च गुणैः सह | करणान्यपि चत्वारि सङ्घातश्चेतनेति च | हकारस्य गुणाः प्रोक्ताः षडिति क्रमतो बुधैः | उकारान्तास्त्वकाराद्याः षड्वर्णाः षड्भ्य एव तु | प्रभेदेभ्यः समुत्पन्ना हकारस्य महात्मनः | ऋकाराद्याश्च चत्वारो रेफोत्थाश्च पराः स्मृताः | एकारादिविसर्गान्तं वर्णानां षट्कमुद्धृतम् | हकारस्य षडङ्गेभ्य इतीदं षोडशाङ्गवत् | एभ्यः सञ्जज्ञिरेऽङ्गेभ्यः स्वराः षोडश सर्वगाः | तेभ्यो वर्णान्तराः सर्वे ततो मूलमिदं विदुः | स तारो वीजतामेव प्राणिष्वेव व्यवस्थितः | ब्रह्माण्डं ग्रन्थमेतेन व्याप्तं स्थावरसङ्गमम् | नादः प्राणाश्च जीवश्च घोषश्चेत्यादि कथ्यते | एष पुंस्त्रोनियमितैर्लिङ्गैश्च सनपुंसकैः | प्. ३०) रेफो माया बीजमिति त्रिधा मायाभिधीयते | शम्तिः श्रीः सन्नतिः कान्तिर्लक्ष्मीर्मेधा सरस्वती | क्षान्तिः पुष्टिः स्थितिः शान्तिर्विद्याद्यैः स्वार्थवाचकैः | नानाविकारतां प्राप्तैः स्वैः स्वैर्भावैर्विकल्पितैः | तामेतां कुण्डलीत्येके सन्तो हृद्ययनां विदुः | सा रौति सततं देवी भृङ्गीसङ्गीतकध्वनिम् | आकृतिं स्वेन भावेन पण्डिता बहुधा विदुः | कुण्डली सर्वथा ज्ञेया सुषुम्नानुगतैव सा | चराचरस्य जगतो वीजत्वाद्विजमेव तत् | मूलस्य बिन्दुयोगेन शतानन्दत्वदुद्भवः | रेफान्वितोकाराकारयोगादुत्पत्तिरेतयोः | हकाराख्योद्भवस्तेन हरिरित्येष शब्द्यते | हरत्वमस्य तेनैव सर्वात्मत्वं ममापि च | अस्य विन्दोः समुत्पत्त्या तदन्ते सोऽहमुच्यते | सहङ्कारः पुमान् प्रोक्तः स इति प्रकृतिः स्मृता | अजपेयं मता शक्तिस्तथा दक्षिणवाम्तः | बिन्दुर्दक्षिणभागस्तु वामभागो विसर्गकः | तेन दक्षिणवामाख्यौ भागौ | पुंस्त्रीविशितौ | बिन्दुः पुरुष इत्युक्तो विसर्गः प्रकृतिर्मता | पुम्प्रकृत्यात्मको हंसस्तदात्मकमिदं जगत् | पुंरूपा सा विदित्वास्रं सोऽहंभावमुपागता | स एव परमाख्योऽयं मनुरस्य महात्मनः | सकारञ्च हकारञ्च लोपयित्वा प्रयोजयेत् | सन्धिर्वै पूर्वरूपाख्यं ततोऽसौ प्रणवो भवेत् | ताराद्विभक्ताच्चरमांशतः स्युर्भूतानि खादीन्यथ मध्यमांशात् | इनादितेजांसि च पूर्वभावात् शब्दाः समन्त्राः प्रभवन्ति लोके | समस्ता इत्यपि क्वचित् पाठः | विश्वसारे द्वितीयपटलेऽपि || हंसौ तत्र समुद्भूतौ पुंस्त्रियौ तत्र सन्मतौ | हं तत्र पुरुषः प्रोक्तः सकारः प्रकृतिः स्मृतः | ताविमौ सकलं विश्वं व्याप्तौ च कृतकोऽनलम् | कृतको भस्म | यथानलमग्निं व्याप्तस्तथा इमौ विश्वं व्याप्तावित्यर्थः | अग्निर्माणवक इत्यादिवदुपमासूचकशब्दमन्तरेणापि उपमाप्रतीतिः | यदा तद्भावमाप्नोति तदा सोऽहमिति स्मृतः | प्. ३१) स एव परमं ब्रह्मकूटस्थो जगदङ्कुरः | सर्वे देवास्तथा वेदा दिग्वातार्कादयस्तथा | त्रुट्या दिक्कालकल्पाश्च तत्तदेव तथात्मकम् | यस्मिंश्च प्रलयं यान्ति वाङ्नाशे जगदीश्वरि ! | यस्मिन् सृष्टिः सदैवैति यस्मिन्नद्यापि तिष्ठति | स एव परमं ब्रह्म सोऽहंभावेन जायते | सहवर्णौ विलुप्याथ सन्धिवर्णं दिशेद्यद | प्रणवः सर्ववर्णेषु कथितः पद्मयोनिना | परानन्दमयं ब्रह्म शब्दब्रह्मविभूडितम् | आत्मनो देहमध्ये तु सर्वमन्त्रात्मकं प्रिये ! || इति रुद्रजामले उत्तरखण्डे द्वाविंशतिपटले च || एकमूर्तिस्त्रयो देवा ब्रह्मविष्णिमहेश्वराः | मम विग्रहसंकॢप्ता सृजत्यवति हन्ति च | प्रणवादुद्भवा एते योगविघ्नकराः सदा | अकारं ब्रह्मणो वर्णं शब्दरूपं महाप्रभम् | प्रणवान्तर्गतं नित्यं योगपूरकमाश्रयेत् | उकारं वैष्णवं वर्णं शब्दभेदिनमीश्वरम् | प्रणवान्तर्गतं सत्त्वं योगकुम्भकमाश्रयेत् | मकारं शाम्भवं रूपं जीवभूतं विधूद्गतम् | प्रणवान्तःस्थितं कालं लयस्थानं समाश्रयेत् | वर्ण एष विभागेन प्रणवं प्रैकल्पितम् | प्रणवाज्जायते हंसो हंसः सोऽहं परो भवेत् | सोऽहं ज्ञानं महाज्ञानं योगिनामपि दुर्लभम् | निरन्तरं भावयेद्यः स एव परमो भवेत् | हं पुमान् स स्वरूपेण चन्द्रेण प्रकृतिस्तु सः | एतद्धंसं विजानीयात् सूर्यमण्डलभेदकम् | विपरीतक्रमेणैव सोऽहंज्ञां यदा भवेत् | तदैव सूर्यगः सिद्धो वासुदेवप्रपूजितः | हकारार्णं सकाराणार्णं लोपयित्वा ततः परम् | सन्धिं कुर्यात्ततः पश्चात् प्रणवोऽसौ महामनुः | इति प्रणवतः सर्वेषामक्षरादीनामाविर्भावदर्शनाच्च | अत एव सर्वजीवोत्पादक इति वर्णाभिधाने प्रवणवस्य नाम वक्ष्यति || अथ प्रणवस्य ब्रह्मवाचकत्वं न तु ब्रह्मत्वमुक्तम् सृष्टिप्रपञ्चस्तु अकारोकारमकारनादबिन्दुरूपप्रणवावयवपञ्चकवाच्यब्रह्मविष्णुरुद्रशक्तीश्वरेभ्य अः एवेति || प्. ३२) अत एव समस्तं व्यस्तं त्वां शरणद ! गृणात्योमिति पदमिति पुष्पदन्तेनाप्युक्तम् | अन्यत्रापि पाच्यन्तु परमं ब्रह्म प्रणवो वाचकः स्मृतः इति | वाच्यस्य ब्रह्मत्वमुक्तम् | न तु वाचकस्य प्रणवस्य इत्यतो वर्णस्यानित्यत्वमिति चेन्न कल्पसूत्रविरोधात् तत्तत्सूत्रञ्च वर्णात्मका नित्याः शब्दाः इति | अयमाशयः | शब्दोहि द्विविधो ध्वन्यात्मको वर्णात्मकश्च | तत्र ध्वन्यात्मकोऽनुपलभ्यमानत्वादनित्य इति केचिति | ते तु मृदङ्गाद्याघातोद्भवमेव ध्वनिं मन्यमाना वर्णात्मकस्य न ध्वनित्वमिति वदन्ति तदतीव मन्दं तथा हि | ध्वनिर्द्विविधस्तरङ्गनिभः कदम्बकोरकनिभश्च | आद्यः समीपवर्त्तिनमात्मस्वरूपं तरङ्गन्यायेन क्रमशः प्रतिवर्णं परिबोध्याभिधेयं प्रतिपादयति | द्वितीयस्तु कदम्बकोरकवदव्यक्तरूपेण दूरवर्तीनमात्मानमेव प्रतिबोधयति नाभिधेयं यथा हट्टादिरव इति | वर्णात्मकस्तु नित्य एव तदुक्तं मातृकोदये || वेदानामीश्वरः कर्त्ता पुराणानां महर्षयः | यन्नास्याः श्रूयते कर्ता स्वयम्भूर्मातृका ततः || जामलेऽपि || ब्रह्मत्वं ब्रह्मणा प्राप्तं विष्णुत्वं विष्णुना स्वयम् || पराक्रमेऽपि | धन्यैर्माहेश्वरैः स्वार्थप्रत्यभिज्ञानशालिभिः | स्वपरिज्ञानमात्रेण जीवन्मुक्ता भवन्ति हि | इत्यनेन मन्त्राणां नित्यता दर्शिता | इति कुलमूलावतारकल्पसूत्रटीकायां शङ्कराचार्यपादैर्व्याख्यातम् | वस्तुतस्तु वाच्यस्य परमब्रह्मत्वं न तु ब्रह्मत्वमिति पुरैवोक्तम् | नन्वपौरुषेयाणि वेदवाक्यानीति वेदे कर्त्तुरभावादिति चोक्तवाक्याभ्यां वेदस्य नित्यता दर्शिता | तर्हि कथं वेदानामीश्वरः कर्तेति | वेदस्य जन्यता वक्ष्यमाणवेदादिवीजमित्यादिवचनैस्तावन्मन्त्राणां जन्यत्वान्मन्त्राणां नित्यतेति च सङ्गच्छत इति चेत् सत्यम् | ईश्वरस्य प्रकाशकत्वेन वेदानां कर्त्तृत्वमङ्गीक्रियते न तूत्पादकत्वेन | प्. ३३) तथा च | बृहन्नीलतन्त्रे चतुर्थपटले || वेदं ब्रह्मेति साक्षाद्वै जानीहि नगनन्दिनि ! | स्वयं प्रवर्तते वेदस्तत्कर्त्ता नास्ति सुन्दरि ! | स्ववम्भुवे भगवता वेदो गीतस्तथा पुरा | शिवाद्या ऋषिपर्यन्ताः स्मर्त्तारोऽस्य न कारकाः | प्रकाशका भवन्त्येव कृष्णाद्यास्त्रिदिवौकस इति || यत्तु नारदपञ्चरात्रे प्रथमरात्रे त्रयोदशाध्याये सावित्रीस्तुतौ || सावित्री वेदमाताऽहं वेदानां जनको विधिः | तमेव धातुर्धातारं नमामि त्रिगुणात् परम् | इति वचनेन न तस्य सावित्रीमातृकत्वं विधिजनकत्वञ्चोक्तम् | तदपि अस्याः सङ्गं समासाद्य वेदविस्तारणं कुर्विति प्रागुक्तवचनेनैकवाक्यतया विस्तारकारकत्वेन अवधारणीयम् | अन्यथा तेने ब्रह्महृदेति भागवतप्रथमश्लोकस्य वेदान युगान्ते तमसा तिरस्कृतान् रसातलाद्यो नृतुरङ्गविग्रहः | प्रत्याददे वै कवयेऽभियाचते तस्मै नमस्ते वितथेहितायेति पञ्चमस्कन्धाष्टादशाध्यायोक्तश्लोकस्य वैयर्थ्यं स्यात् | स्वयं वेदजनकस्य ब्रह्मणोऽन्यस्माच्छिक्षणमन्यस्यायाच्ञाप्राप्तिर्न सम्भवतीति | अभियाच्यमानब्रह्मार्थं तमसा दैत्यरूपेण तिरस्कृतानपहृतान् वेदान् नृतुरङ्गविग्रहो हयग्रीवमूर्तिः सन् रसातलात् प्रत्याददे प्रत्युज्जहार्त्यन्वयः | तर्हि कथं षष्ठस्कन्धे प्रथमाध्यायै | वेदो नारायणः साक्षात् स्वयम्भूरिति शुश्रूम | इत्यत्र श्रीधरस्वामिना व्याख्यातम् | वेदो नारायणादुद्भूतः स एव साक्षादुपचार इति स्वयम्भूरिति निश्वासमात्रेण स्वयमेव भवति तथा च श्रुतिः | अस्य महतोभूतस्य निश्वसितमेतद्यदृग्वेद इति || कामधेनुतन्त्रेऽपि || अकारादिक्षकारान्ता स्वयं परमकुण्डली | सर्वं चराचरं विश्वं वर्णात्मा सूयते ध्रुवम् | नानाशास्त्रं पुराणञ्च इतिहासञ्च सुन्दरि ! | वेदञ्च स्मृतिशास्त्रञ्च अन्यानि यानि कानि च | अक्षराज्जायते सर्वं परं ब्रह्ममयं प्रिये ! | इति वचने कुण्डली वेदं सूयत इति वक्ष्यमाण धामत्रयं सा वेदानामित्यादिश्रुत्यष्टादशविद्या इत्यादि च सङ्गच्छते | प्. ३४) सत्यं वेदान्तमतमाश्रित्य तत् सर्वं समाधेयम् | तन्मतन्तु केवलमीश्वरं विना सर्वेषामनित्यत्वम् | अपौरुषेयाणीत्यादि भीमांसकमतानुसारेणोक्तमिति | सर्वमनवद्यम् | वस्तुतस्तु सर्ववेदमयी देवी सर्वमन्त्रमयी तथेत्यादि वक्ष्यमाणशारदोक्तकुण्डलिन्याश्चैतन्यरूपायाः शब्दब्रह्मत्वेन निरूपितायाः शब्दार्थोभयरूपिण्या वेदादिमयत्वेन वेदानां मन्त्राणाञ्च नित्यत्वमेव प्रमाणम् | तर्हि उक्तश्रुतेः का गतिरिति चेत् न | महतो भूतस्य विराड्मूर्तेरीश्वरस्य निश्वसितं वेद इत्यर्थे वेदस्य जन्यत्वं नायातम् | यदि च श्रीधरस्वामिव्याख्यावलम्बिभिर्जन्यत्वमङ्गीक्रियते तदा परमेष्ठिनो निश्वासद्वारेणाविर्भूतस्य भगवतो वराहमूर्तेः परमेष्ठिजन्यत्वं स्यात् | तत्प्रमाणन्तु तृतीयस्कन्धे त्रयोदशाध्याये परमेष्ठी त्वपां मध्ये तथा मग्नामवेक्ष्य गामित्युपक्रम्य यस्यास्मि हृदयादासं स ईशो विदधातु मे | इत्यभिध्यायतो नासाविवरात् सहसानघ ! | वराहतो को निरगादङ्गुष्ठपरिमाणकः | तस्याभिपश्यतः स्वस्थः क्षणेन किल भारत ! | गजमात्रः प्रववृधे तदद्भतमभून्महत् | इति मैत्रेयवचनम् | इति नानाशास्त्रोत्पत्तिकथनम् | ग्रहादीनामपि वर्णादुत्पत्तिरुक्ता || प्रपञ्चसारे चतुर्थपटले || तदा स्वरेशः सूर्योऽयं कवर्गेशस्तु लोहितः | चवर्गप्रभः काव्यष्टवर्गादुबुधसम्भः | तवर्गोत्थः सुरगुरुः पवर्गोत्थः शनैश्चरः | यवर्गजोऽयं शीतांशुरिति सप्तगुणा त्वियम् || विश्वसारतन्त्रे अन्तमातृकासम्भववर्गाधिष्ठातृदेवतात्वं ग्रहाणामुक्तम् || यथा | सप्तवर्गस्य देवेशि ! देवताः कथयामि ते | रक्तवर्णो भूमिपुत्रः कवर्गदेवता मता | काव्यष्टवर्गस्य विभुश्चवर्गस्य बुधः स्मृतः | तवर्गस्य सुराचार्यः पवर्गस्य शनैश्चरः | यवर्गस्य तथा चन्द्रः स्वराणां देवता रविरिति || प्. ३५) प्रपञ्चसारे || अस्या विकारवर्णेभ्यो जाता द्वादश राशयः | लवादिकालोपचितैस्तैः स्याच्चक्रगतिक्रिया | ऋक्षराश्यादिषु तथा चक्रगत्या जगत्स्थितिः | वक्ष्यामि चक्ररूपञ्च प्रबद्धं राशिभिर्यथा | अन्तर्वहिर्विभागेन रचयेन्द्राशिमण्डलम् | भूचक्र एव मेषादिः प्रविज्ञेयोऽथ मानुषः | आद्यैर्मेषाह्वयो राशिरीकारान्तैः प्रतीयते | ऋकारान्तैरॢकारान्तर्वृषो युग्मं ततस्त्रिभिः | ततो मेषराश्युद्भवात् परं ऋकारान्तैस्त्रिभ्रिवृषो जात एवं ऌकारान्तैस्त्रिभिर्मिथुनमित्यन्वयः || एदौतोः कर्कटो राशिरोदौतोः सिंहसम्भवः | अमः शवर्णकेभ्यश्च सञ्जाता कन्यका मता | षड्भ्यः कचटतेभ्यश्च पयाभ्याञ्च प्रजज्ञिरे | वणिगाद्यास्तु मीनान्ता राशयः शक्तिजृम्भणात् | चतुर्भिर्यादिभिः सार्द्धं स्यात् क्षकारस्तु मीनगः || इति वर्णतो राशिसृष्टिकथनम् || क्षेत्राधिपोऽपि तत्रिअव || अङ्गाराब्जकवृश्चिकौ चतुले शुक्रस्य युक्कन्यके बौधे कर्कटकाह्वयो हिमरुचः सिंहास्तथा गोपतेः | चापाब्जावपि धैषणौ मकरकुम्भाख्यौ च मन्दग्रहाः प्रोक्ता राश्यधिपा वलौ च कलसे सोऽयं क्रमो दर्शितः | इति राश्यधिपकथनम् || ततस्तदूर्द्धभास्थो भुवश्चक्रसमस्तथा | स तु सिंहादिको यस्मिन् पैतृकी नियता गतिः | तदूर्द्धभागसंस्थश्च स्वश्चक्रश्चापि तादृशः | स तु चापादिको देवचक्रस्त्रैनाभिकस्त्वयम् | इति त्रिभुवनराशिचक्रकथनम् || तथा एभ्य एव तु राशिभ्यो नक्षत्राणाञ्च सम्भवः | स चाप्यक्षरभेदेन सप्तविंशतिधा भवेत् | आभ्यामश्वयुजा जाता भरणी कृत्तिका पुनः | लिपित्रयाद्रोहिणी च तत्परत्वाच्चतुष्टयात् | एदैतोर्मृगशीर्षार्द्रे तदन्ताभ्यां पुनर्वसुः | अमसोः केवलो योगो रेवत्यर्थं पृथग् गतः | कतस्तिष्यस्तथाश्लेषः खगयोर्घङयोर्मघा | ततः पूर्वात्तछजयोरुत्तराज्झञयोस्तथा | हस्ताचित्रा च टठयोः स्वाती डाद्यक्षरादभूत् | प्. ३६) विशाखातु ढणोद्भूता तथदेभ्योऽनुराधिका | ज्येष्ठाधकारान्मूलाख्या नपफेभ्योऽभवत्तथा | पूर्वाषाढा ततोऽन्या च सञ्जाता श्रवणा मता | श्रविष्ठाख्या च यवयोस्तथा शतभिषा ततः | वशयोः प्रोष्ठपत्संज्ञा वसहेभ्यः पराः स्मृताः | इति वर्णतो नक्षत्रसृष्टिकथनम् | ताभ्याममाभ्यां क्षार्णोऽयं यदा वै सह वत्स्यते | तदेन्दुसूर्यसंयोगोऽमावस्या हि प्रतीयते | कषतो भवमस्मत्तः कषयोः सङ्गमोभवः | ततः क्षकारः सञ्जातो नृसिंहस्तस्य देवता | स पुनः षसहैः सार्द्धं परा प्रौष्ठपदं गतः | इत्यमावास्योत्पत्तिकथनम् | अनुनक्षत्रवारेषु स्वस्वमन्त्रजपोऽपरः | तस्मादेषां दिनानाञ्च कथ्यते देवतादयः | इति नक्षत्रवारे जपकथनम् || कारस्कराख्यामलकोडुम्बरो जम्बुसंज्ञकः | खदिरः कृष्णवशौ च पिप्पलो नागरीहिणौ | पलाशप्लक्षकाम्बोष्ठधियार्जुनविकङ्ककाः | वकुलः सरजां सर्जो वञ्जुलः पनसाककौ | शमीकदम्बनिम्बाम्रमधुकान्तादिनाङ्घ्रिपाः | आयुष्कामः स्वर्क्षवृक्षं छेदयेन्न कदाचन | इत्यत्र स्वार्थहेतूभयवाचकः | न छिन्द्यान्न छेदयेदित्यपि || इति स्वीयनक्षत्रवृक्षच्छेदननिषेधः || अश्वियमानलधातृशशिरुद्रादिति सुरेज्यासर्पाश्च | पित्रर्यमभगदिनकृत्त्वष्टारो मरुतस्तथेन्द्राग्नी | मित्रेन्द्रौ तथा निर्-ऋतिजले विश्वदेवा हरिस्तथा वसवः | वरुणोऽजपादोऽहिव्रध्नः पूषा च देवता भानाम् || इति नक्षत्रदेवताकथनम् || अश्वेभाजभुजङ्गसर्पसवमामार्जारकाजः कुली मूषा मूषिकरुद्रयानमहिषीव्याघ्रायमारोहणः | व्याघ्रेणीहरिणीश्वरानरपशुः शाखामृगास्त्रीहयः | मर्त्यो गोकरिणी च साधुकथिता नक्षत्रयोन्यः क्रमात् || इति नक्षत्रयोनिकथनफलम् | गोव्याघ्रं गजसिंहमश्वमहिषं श्वैनञ्च वभ्रूरगम् | वैरं वानरमेषकञ्च सुमहत्तद्वद्विडालोन्दुरु | प्. ३७) लोकानां व्यवहारतोऽन्यदपि च ज्ञात्वा प्रयत्नादिदम् | दम्पत्योर्नृपभृत्ययोरपि सदा वर्ज्यं शुभस्यार्थिभिः | शाश्वतिकवैरितया द्वन्द्वे एकत्वं नपुंसकत्वञ्च || एतेभ्योऽभावास्यान्ताः प्रतिपदादिकास्तिथयः || राशिभ्योऽत्र तिथीनाममध्यर्द्धद्वयन्तु राशिरेकः स्यात् | तेन त्रिंशत्तिथयोद्वादश भेदतो भिन्नाः | ता एव स्युर्द्वेधा पुनरपि पूर्वान्त्यपक्षभेदेन || पक्षः पञ्चदशाहः स्यात् पूर्वः प्रतिपदादिकः शुक्लः | तद्वज्ज्ञेयोऽप्यपरः पक्षः कृष्णप्रतिपदादिकः प्रोक्तः | इति पक्षोत्पत्तिकथनम् | संज्ञासाम्ये सत्यपि सौम्यात्तु ह्नासवृद्धितस्तिथयः | न समाः पक्षद्वितये त्रिंशद्भेदं तथापि प्राप्ताः | अग्न्यश्व्युमाः सविघ्ना नागा गुहसवितृमातरो दुर्गा | ककुभो धनपतिविष्णुयमहरपतिचन्द्राः क्रमेण तिथ्यधिपाः | इति श्रीप्राणतोषिण्यां प्रथमे सर्गकाण्डे शब्दार्थस्वरूपब्रह्मकथनगर्भाक्षरजातजगत्कथनं नाम द्वितीयः परिच्छेदः || एवं प्राधान्यद्योतनाय प्रथमोद्दिष्टापरान्ता शब्दसृष्टिरुक्ता शरीरसृष्टिमन्तरेण पश्यन्त्याद्या वक्तुमशक्या इति तां वक्तुमथ सृष्टिमारभते | शारदातिलकप्रथमपटले आचार्यः || अथ विन्द्वात्मनः शम्भोः कालबन्धोः कलात्मनः | अजायत जगत्साक्षी सर्वव्यापी सदाशिवः | सदाशिवाद्भषेदीशस्ततो रुद्रः समुद्भवः | ततो विष्णुस्ततो ब्रह्मा तेषामेवं समुद्भवः | अत्रार्थ सृष्टौ पुनरुद्रादीनामुत्पत्तिस्त्वर्थरूपेण पूर्वं तेषामुत्पात्तः शब्दरूपेणातो न पौनरुक्त्यमिति | कला माया तदात्मनस्तदुत्पन्नत्वात् | कालबन्धोरित्यनाद्यन्तकाले सृष्टिरूपकालसहायान्नादात्मन इत्यर्थः | अनेन विशेषणद्वयेन प्रकृतेः कालस्य च महाप्रलयेऽप्यवस्थानमुक्तम् | अत एवानयोरापेक्षिकनित्यता पुरुषस्य स्वतो नित्यत्वं सर्वविनाशस्य पुरुषावधित्वादिति | अत एव विश्वसारे | निमेषाद्यास्तथा माया दिवसाश्च तथा निशाः | प्. ३८) पक्षा मासाश्च ऋतवश्चायनं वत्सरस्तथा | युगञ्च युगमानञ्च तथा मन्वन्तराणि च | महाप्रलयपर्यन्तं सर्वं विन्द्वात्मकं स्मृतम् | इत्यनेन सृष्टिरूपकालस्य लय उक्तः | किन्तु महाप्रलये कालबन्धोरिति बन्धुशब्देन कालस्य निमित्तत्वं सूचितम् | तथा च राघवभट्टधृतम् || लवादिप्रलवान्तो यस्तमःशक्तिविजृम्भितः | निमित्तभूतः कालोऽयं भावानां जनुराशयोरिति लवादिमानमपि || प्रपञ्चसारे प्रथमपटले || नलिनीपत्रसंहत्यां सूक्ष्मसूचिविभेदने | दले दले तु यः कालः स कालोलवसंज्ञकः | लवैस्त्रूटिः स्यात्त्रिंशद्भिः कलां तावत् त्रुटिं विदुः | काष्ठा तावत् क्रमाज्ज्ञेया तावत् काष्ठा निमेषकः | सोऽङ्गुलिस्फोटतुल्यश्च मात्राष्टाभिश्च तैः स्मृता | कालेन यावतास्वीयो हस्तः स्वं जानुमण्डलम् | पर्येति मात्रा सा तुल्या स्वयैकश्वासतुल्यया | षष्ट्युत्तरैस्तु त्रिञ्चतेनिश्वासैर्घटिका स्मृता | द्विनाडिका मुहूर्त्तः स्यात् त्रिंशद्भिस्तैरहर्निशम् | त्रिंशद्भिस्तैरहोरात्रैर्मासो द्वादशभिस्तु तैः || सम्बत्सरो मानुषोऽयमहोरात्रं दिवौकसाम् | तथा दिव्यैरहोरात्रैश्त्रिशतैः षष्टिसंयुतैः | दिव्यः सम्वत्सरो ज्ञेयो दिव्यैः संवत्सरैस्तु तैः | भवेत् द्वादशसाहस्र्यैर्भिन्नैरेकं चतुर्युगम् | तैः सहस्रैः शतानन्द ! तवैकं दिनमिष्यते | तावती तव रात्रिश्च कथिता कालवेदिभिः | तथाविधैरहोरात्रैस्त्रिंशद्भिर्मासमृच्छसि | तथाविधैर्द्वादशभिर्मासैरब्दस्तव स्मृतः | तथाविधानामब्दानां शतं त्वमपि जीवसि | त्वदायुर्मम निश्वासः कालेनैवं प्रचोद्यते | इति | तिथितत्त्वे संक्रान्तिप्रकरणघृस्मृतौ तु | लघ्वक्षरचतुर्भागस्त्रुटिरित्यभिधीयते | त्रुटिद्वयं लवः प्रोक्तो निमेषस्तु लवद्वयम् | अष्टादशनिमेषास्तु काष्ठेत्यादि सम्बर्त्तः प्रलयः कल्प इत्यन्तो यः कालोऽभिहितोऽमरसिंहेन तस्य निमित्तत्वं पूर्ववचनेन दर्शितम् | प्. ३९) मेरुतन्त्रे प्रथमोद्देशेऽपि | इन्द्रायुः- परिमाणं प्रकारान्तरेणोक्त्वा एवमिन्द्रैरिन्द्रसंख्यैर्ब्रह्मणो दिनमुच्यते | या ध्यायते महामाया मया तच्छासनिर्गमः | इन्द्रसंख्यैञ्चतुर्दशसंख्यैरित्यर्थः | प्रपञ्चो ब्रह्मदिवसः कुम्भको रात्रिरस्य तु | एवं तस्या घटिकया वर्षमेकं विधेः स्मृतम् | घटीशतमितं तस्या ब्रह्मा जीवति कीटवत् | पक्षमेकं सतीरूपा शुक्लं कृष्णन्तु पार्वती | ऋतुमात्रं हरिर्जीवेद्वर्षमेकं सदाशिवः | एवं सा शतवर्षा वै महाकाल्स्य गेहिनी | सर्पकञ्चुकवद्देहं त्यक्त्वा त्यक्त्वा पुनर्नवा इति कालनिरूपणम् | एवं प्रकृतायामर्थसृष्टौ तत्त्वसृष्टिं वक्तुमुपक्रमते | शारदायां प्रथमपटले तु | मूलभूतादतो व्यक्ताद्विकृतात्परवस्तुनः | असीत् किल महत्तत्त्वं गुणान्तःकरणात्मकम् || शब्दब्रह्मणो विकृतात् सृष्ट्युन्मुखान्महत्तत्त्वमासीदुत्पन्नमित्यन्वयः | सर्वसृष्टिर्मूलरूपादत एव परवस्तुनोऽव्यक्ताद्बिन्दुरूपादिति वा | किम्भूतं सत्त्वरजस्तमोगुणात्मकम् | मनो बुद्ध्यहङ्कारचित्तरूपान्तःकरणचतुष्टयमेकञ्च तत्कारणमित्यभिप्रायः | कारणे कार्योपचारात्तदात्मकत्वमिति | श्रुतिरपि प्रकृतेर्महान् महतोऽहङ्कार इति | राघवभट्टधृतवामकेश्वरतन्त्रेऽपि || अव्यक्तविग्रहात् शब्दब्रह्मणः सर्वकारणम् | व्यक्तसत्त्वगुण वक्तुं बुद्धितत्त्वमजायत | सांख्यमते महत्तत्त्वस्य बुद्धितत्त्वमिति संज्ञा | शारदायां प्रथमपटले || अभूत्तस्मादहङ्कारस्त्रिविधः सृष्टिभेदः | वैकारिकादहङ्काराद्देवा वैकारिका दश | दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमित्रकाः | तैजसादिन्द्रियाण्यासंस्तन्मात्राक्रमयोगतः | भूतादिकादहङ्कारात् पञ्च भूतानि जज्ञिरे || राघवभट्टधृतमपि || सोऽहङ्कारस्त्रिभेदः स्यात् सत्त्वादिगुणभेदतः | वैकारः सात्त्विको नाम तैजसो राजसः स्मृतः | भूतादिस्तामसस्ते च पृथक्तत्त्वाद्यवासृजन् | प्. ४०) अधिकेन व्यपदेशा भवन्तीति न्यायात् | सात्त्विकादिविशेष उक्तः | वस्तुतस्त्रिष्वेव न्यूनाधिकरूपेण त्रयो गुणा वर्त्तन्ते शिवशक्त्यात्मकादावपि तथानुसन्धेयम् | वैकारिकादिन्द्रियाधिष्ठातारश्चन्द्रश्च | तैजसात् पञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि मनश्च | भूतादेस्तन्मात्राणि जज्ञिरे || तथा च राघवभट्टधृतम् || वैकारिकाद्दिगाद्याश्च चन्द्रेणैकादश स्मृताः | इन्द्रियाणामधिष्ठातृदेवास्ते परिकीर्त्तिताः | यच्चापरं मनस्तत्त्वं ससङ्कल्पविकल्पकम् | तैजसादेव तज्जातिमिन्द्रियाणि तथा दश | भूतादेः पञ्च तन्मात्राणि आसन् भूतमतः परम् || तन्मात्राणि च शब्दस्पर्शरूपरसगन्धाः || शब्दतन्मात्रादाकाशम् | शब्दस्पर्शतन्मात्राभ्यां वायुः | शब्दस्पर्शरूपतन्मात्रेभ्योऽग्निः | शब्दस्पर्शरूपरसतन्मात्रेभ्यो जलम् | शब्दस्पर्शरूपरसगन्धतन्मात्रेभ्यो भूमिरुत्पद्यते || तदुक्तं प्रथमपटले || शब्दाद्व्योमस्पर्शतस्तेन वायुस्ताभ्यां रूपाद्वह्निरेतै रसाच्च अम्भांसि एतैर्गन्धतो भूर्धराद्या भूताः पञ्च स्युर्गुणिनाः क्रमेण || ब्रह्मज्ञानतन्त्रनिर्वाणतन्त्रयोस्तु || आकाशाजायते वायुः वायोरुत्पद्यतेः रवि रवेरुत्पद्यते तोयं तोयादुत्पद्यते मही | मही संलीयते तोये तोयं संलीयते रवौ | रविः संलीयते वायौ वायुर्नभसि लीयते | पञ्चतत्त्वाद्भवेत् सृष्टिस्तत्त्वे तत्त्वं विलीयते || श्रुतौ च || तस्मात् ब्रह्मण आकाशः सम्भूत आकाशाद्वायुर्वायोस्तेजस्तेजस आपोऽह्न्यः पृथिवी पृथिव्या ओषधय ओषधिभ्योऽन्नान्निति भूतमात्राद्भूतसृष्टिरुक्ता || इति पञ्चभूतोत्पत्तिलयप्रकारः | तार्किकास्तु आकाशादीनां शब्दादयो गुणा इत्याचक्षते | सांख्या अपि शब्दो गुणो वियतः शब्दस्पशौ वायोस्तौ च रूपञ्चाग्ने रसेन सह तानि जलस्य गन्धेन सह तानि पृथिव्या इति || राघवभट्टधृतेशान-संहितायामपि | शब्देकगुणमाकाशं शब्दस्पर्शगुणो मरुत् | प्. ४१) शब्दस्पर्शरूपगुणं तेजस्त्रिगुणमिष्यते | शब्दस्पर्शरूपरसगुणा आपश्चतुर्गुणाः | शब्दस्पर्शरूपरसगन्धेः पञ्चगुणा महीति | वस्तुतस्तु पञ्चीकरणरूपेण पञ्चसु प्रत्येकेषु पञ्चगुणाः सत्त्वादित्रिगुणवत् सन्ति अतो नासिकादिषु पृथिव्यादीन्द्रियेषु कट्वस्त्रादि प्रतीयते | इति पञ्चभूतगुणकथनम् || भूतमण्डलानि शारदातिलके प्रथमपटले || वृत्तं दिवस्तत् षड्बिन्दुलच्छितं मातरिश्वनः | त्रिकोणं स्वस्तिकोपेतं वह्नेरर्द्वेन्दुसंयुतम् | अम्भोजमम्भसो भूमेश्चतुरस्रं विदुर्बुधाः || प्रपञ्चसारेऽपि | वृत्तं व्योम्नो बिन्दुषट्कान्वितं तद्दुवायोरग्नेः स्वस्तिकोद्यत्रिकोणम् | अब्जोपेतार्द्धेन्दुमद्विम्बमाप्यं स्याद्वज्रोद्यद्वृत्तिरस्रं धरायाः | यद्वा विश्वसारे || आकाशमण्डलं प्रोक्तं वर्त्तुलं सर्वसम्मतम् | षट्कोणमण्डलं वायोस्त्रिकोणन्तु विभावसोः | अष्टास्रं वरुणस्यापि चतुरस्रं धरामुतम् | इति वेति कृत्वा मतत्रयं तत्र लिखितम् | एतत् प्रयोजनन्तु प्रश्ने आकृतिज्ञानम् | प्राणायामभूतोदययोः प्रत्यक्षदर्शनम् | षट्कर्मसाधनञ्च सर्वमग्रे वक्ष्यते || इति भूतमण्डलानि || भूतरूपाण्यपि शारदायाम् || स्वच्छं वियन्मरुत् कृष्णो रक्तोऽग्निर्विषदं पयः | पीता भूमिः पञ्चभूतान्येकैकाधारतो विदुः || स्वच्छं स्वेतमिति राघवभट्टः | विषदं श्वेतम् || तथा च प्रपञ्चसारे || खमपि शुषिरचिह्नं समीरणः स्याच्चलनपरः परिपाकवान् कृ:शानुः | जलमपि रसवद्घना धरा ते सितसितिपाटलशुक्लपीतभासः | शुषिरं छिद्रम् | सितिः कृष्णः | वस्तुतस्तु स्वच्छं निर्मलं नीलमिति यावत् | प्रश्नप्रकरणे स्पष्टीभविष्यति || तन्मते सित इत्यत्राकारप्रश्नेषेणासित इति | छिद्रादिभिः खादयो ज्ञायन्त इति तात्पर्यम् | एकैकाधारत इति स्वस्वकारणाधाराणीत्यर्थः || सूर्याचन्द्रोक्तभूतपञ्चकात्मक चतुर्विधदेहसृष्टिस्तु || प्. ४२) विश्वसारतन्त्रे प्रथमपटले || पृथिव्या श्रीषधिर्जाता ओषधेरन्नमेव च | तस्माद्भवेत्तदा देवि ! रेतः सर्वसुखावहम् | रेतसस्तु भवेद्देवि ! ब्रह्माण्डं शशिसूर्ययोः | शशिसूर्यात्मकं सर्वं चराचरमिदं जगत् | चरं जङ्गममचरं स्थावरं || शारदातिलके प्रथमपटले || पञ्चभूतात्मकं विश्वं चराचरमिदं जगत् | अचरा बहुधा भिन्ना गिरिवृक्षादिभेदतः | चरास्तु त्रिविधा भिन्नाः स्वेदाण्डजजरायुजाः | पञ्चभूतात्मकमित्यनेन त्रिवृत्करणपक्षः पञ्चीकरणपक्षोऽपि सूचित इति | तत्र ये तैजसा देवास्तेषामपि शरीरे अर्द्धो भागस्तेजसः | चतुर्थांशः पृथिव्याश्चतुर्थांशो जलस्येति त्रिवृत्करणपक्षः || पञ्चीकरणपक्षे तु तेजसश्चत्वारींऽशा अन्येषामष्टमोऽष्टमोऽंशा एवमन्यत्रापि | तदुक्तं पञ्चदश्यां पञ्चमप्रकरणे तत्त्वविवेके | स्थूलशरीराद्युत्पत्तिसिद्धये पञ्चीकरणं निरूपयितुमाह | तद्भोगाय पुनर्भोग्यभोगाय तनुजन्मने | पञ्चीकरोति भगवान् प्रत्येकं वियदादिकम् | भगवानैश्वर्यादि गुणषट्कसम्पन्नः | ऐश्वर्यादिगुणषट्कञ्च समग्रैश्वर्यवीर्ययशःश्रीज्ञानवैराग्यरूपमुक्तञ्च | ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः | ज्ञानवैराग्ययोश्चैव षणां भग इति स्मृतिः | समरस्येत्यनेनानाणिमाद्यैश्वर्याष्टकं सूचितमतस्तमोगुणात्मकेश्वरादधिकगुणतया भगवतः समसत्त्वादित्रिगुणात्मकत्वेनाधिक्यमायातम् | न तु सत्त्वमात्रप्रधानगुणात्मकस्य भगवदिति नामधेयम् | तथात्वे त्रिगुणात्मिकाया भवत्यास्तदभिधानं नोपपद्यत इति सुधीभिर्भाव्यम् | परमेश्वरः पुनः पुनरपि तद्भोगाय तेषां जीवानां भोगायैव भोग्यभोगाय तनुजन्मने भोग्यस्यान्नपानादेर्भोगायतनस्य जरायुजादिचतुर्विधशरीरजातस्य च जन्मने उत्पत्तये वियदादिकमाकाशादिभूत पञ्चकं प्रत्येकमेकैकं पञ्चीकरोति | प्. ४३) अपञ्चात्मकं पञ्चात्मकं सम्पद्यमानं करोति | द्विधा विधाय चैकैकं चतुर्द्धा प्रथमं पुनः | स्वस्वेतरद्वितीयांशैर्योजनात् | पञ्चपञ्चतेति | अथ वा षडंशास्तेजसः पृथिवीजलवायवाकाशानां दशमो दशमोऽंशः | एवं पार्थिवे अस्मदादिशरीरेऽपि पृथिव्याः षड्भागाः | जलादीनां दशमोदशमोऽंशस्तदुक्तं राघवभट्टधृतेन | पृथिव्यादीनि भूतानि प्रत्येकं विभजेद्द्विधा | एकैकं भागमादाय पञ्चधा विभजएत् पुनः | एकैकं भागमेकैकभूतैः संवेशयेत् क्रमात् | ततश्चाकाशभूतस्य स्वा भागाः षड्भवन्ति हि | वायवादि भागाश्चत्वारो वायवादिष्वेव माविशेत् | एवञ्च खेचराणामाकाशवायुभागाधिक्याद्वियति गतिर्गृहगोधिकादीनामाकाशभागाधिक्याद्भित्त्यादिगतिर्भूतादीनां वायुभागाधिक्यात् सर्वत्र गतिरस्थैर्यञ्चेति || इति पञ्चीकरणम् || प्रपञ्चसारप्रथमपटले || प्रकृतौ कालनुन्नायां गुणान्तःकरणात्मनि | देहश्चतुर्विधोभिन्नो जन्तोरुत्पत्तिभेदतः | उद्भिदः स्वेदजोऽण्डाज्जश्चतुर्थस्तु जरायुजः | गुणान्तःकरणात्मनि | देहश्चतुर्विधोभिन्नो जन्तोरुत्पत्तिभेदतः | उद्भिदः स्वेदजोऽण्डाज्जश्चतुर्थस्तु जरायुजः | गुणान्तःकरणकारणे कालप्रेरितायां प्रकृतौ सत्यामुद्भिदादिचतुर्विध उत्पत्तिभेदतो जन्तोः शरीरिणो देहो भवतीत्यर्थः | उद्भिदलक्षणमुक्तम् | विश्वसारप्रपञ्चसारप्रथमपटले || उद्भिद्य भूमिं निर्गच्छेदुद्भिदः स्थावरस्तु सः | निर्दिष्टः स्कन्धविटपपत्रपुष्पफलादिभिः | एषामुत्पत्तिक्रकारस्तु राघवभट्टधृतेन | उद्भिदाः स्थावरा ज्ञेयास्तृणगुल्मादिरूपिणः | तत्र सिक्ता जलैर्भूमिरन्तरुष्मा विपाचिता | वायुनाव्युह्यमाना तु वीजत्वं प्रतिपद्यते | तथा चोक्तानि वीजानि संसिक्तान्यम्भसा पुनः | उच्छूनत्वं मृदुत्वञ्च मूलभावं प्रयान्ति च | तन्मूलादङ्कुरोत्पत्तिरङ्कुरात् पर्णसम्भवः | पर्णात्मकं ततः काण्डं काण्डाच्च प्रसवं पुनः || इत्युद्भिदोत्पत्तिः || पापकर्माचरणे प्रेत्य स्थावरयोनिप्राप्तिर्मत्स्यसूक्ते सप्तविंशतिपटले || प्. ४४) पापात्मा पितृदौहित्रमातृद्वेषी तु यूथिका | पुत्रद्वेषी तु वरुणः कम्पदूषकनाशकः | भूहर्त्ता कोद्रवो देवि ! तीर्थद्वेषी तु चैपकः | भार्यायाः केशनिर्वापे दूर्वा भवति शङ्करि ! | गोलोमदाही तु कृशो ब्रह्मद्वेषी वको भवेत् | भार्याद्वेषी कुरुवको मिष्टभुक् तिन्तिडीभवेत् | परान् वञ्चयित्वा स्वयमेव यो मिष्टं भुङ्क्ते स एव तिन्तिडी च तात्पर्यम् || ताम्रहर्ता तु पनसो महीहर्ता तथार्जनः | परस्त्रीहरणे देवि ! बहुजो भवति ध्रुवम् | गुरुद्वेषो सोमतरुः श्वश्रूद्वेषी जयन्तिका | मातुः कलहसंयुक्तश्चोरवृक्षः प्रजायते | स्वामिना कलहे देवि ! ब्रह्माख्यो जायते तरुः | द्विभार्यश्चैकद्वेषी स्यात् चण्डालो जायते हि सः | भार्याया वञ्चकश्चैव जायते करमर्दकः | विभक्तधनहर्ता तु नीपो भवति निश्चितम् | शस्यापहारी एरण्डो यज्ञद्वेषी धवी भवेत् | परास्वी विफली देवि ! स्नुही सञ्जायते धुरुवम् | सूचकोवासको देवि ! राजगामिनि पैशुने | रामाख्यवासकोजातः कुद्दालश्चौरवृत्तिकः | तैलहर्ता तिलतरुः सर्षप फलदूषकः | परपुरुषगामिनी नारी दोद्रवोभवति ध्रुवम् | मत्स्यद्वेषी पिचुवृक्षः पर्वगामी शिवामदः | शिवामैथुनिनो विप्रो घटगृक्षो विजायते | श्वशुरघ्नो नारिकेलः श्वश्रूहर्त्ता लता भवेत् | परं पञ्चशिवावृक्षः श्यालद्वेषी जलं भवेत् | सपत्नीपुत्रद्वेषी स्याद्धस्तूरो जायते प्रिये ! | स्तनभेदी च पुरुषः अन्तर्भेदी च भेरुकः | करमर्दः करच्छेदी जीवन्ती पादहा नरः | भूतद्वेषी देवदारुर्नमेरुः शिशुनिन्दकः आम्लानशीलो बन्धूकः सन्ध्याहीनो जडो भवेत् | अतिथिवञ्चकश्चैव शरो नाम प्रजायते | पश्वण्डलोपकः पूगः पर्णो गोमूत्रनिन्दकः | देवद्वेषी जातितरुः शङ्खद्वेषी तु मल्लिका | व्रतद्वेषी पूततरुः सङ्कल्पभञ्जकश्च यः | प्. ४५) भवेत् सोमतरुर्देवि ! आश्रमस्य तु दूषकः | कामवृक्षो भवेद्देवि ! गव्यत्यागी शतावरी | भल्लातको ज्ञानहर्ता अयाज्ययाजको वरिः | असत्प्रतिग्रहीता च अटसारो भवेत् ध्रुवम् | राजस्वहरणाद्देवि ! भवेच्चाण्डालको ध्रुवम् | देवदास्यास्तु हरणे कर्णिकारो विजायते | जले निस्तारजादेव अशोको जायते प्रिये ! | देवायतनभागादिभेदको धातकी भवेत् | गृहद्वेषी तु जीवन्ती ब्रह्महानल एव हि | अन्तहा सूतहा देवि ! तथा सर्वप्रदूषकः | गिरिकर्णिकारो भवति भार्यात्यागी च भूरुहः | योनिभेदी तु कदली बीजभेदी तु बीजकम् | बीजहर्ता बीजमूलं कामहर्त्ता मयूरकः | शिवद्वेषी भूवदरो मन्त्रद्वेषी जवा भवेत् | पट्टहर्त्ता योगतरुर्वस्त्रहर्त्ता तु कासिका | लौहहर्त्ता वटो देवि ! ताम्रहर्त्ता तु वीनशः | कांसहर्त्ता रणतरुः रौप्यहर्त्ता तु शाद्वलः | इत्यङ्गपापभेदे तु शतशोऽथ सहस्रशः | स्थावरत्वं गमिष्यन्ति सर्वावस्थासु सर्वदा | इति पापाद्वृक्षयोनिप्राप्तिः || पापेन जलत्वप्राप्तिरत एव || जलत्वं याति पापेन शैलत्वं याति शङ्करि ! | तस्य पापस्य भेदेन जायते वर्णसङ्करः | उदक्यागमने देवि ! नसीत्वं याति शङ्करि ! | मिथ्यावभाषणादेव स्थावरत्वं जलं विदुः | मातापित्रोर्गुरोरग्रे तडागस्य जलं भवेत् | स्वाम्यग्रे च परोक्षे च या नारी मन्दचारिणी | सा भवेद्गर्त्ततोयञ्च या शययां नारुहेत् पतेः | सा मृतान्यद्भवेत्तोयं सत्यमेव मम प्रिये ! | एकाशीत्या तथा षष्ट्या पञ्चविंशतिभिर्यदा | तत्र तत्र विष्णुरूपं तोयं जानासि भाविनि ! | अशीतिमात्रं सामुद्रे हस्तानाञ्च प्रमाणतः | कलाहस्तो भवेद्यत्र द्वादशे पापवर्जितः | अतोऽन्यत् पापसम्भूतिः स्वकालेनैव प्राप्स्यति || इति जलत्वप्राप्तिः | तत्पापादनुसारेण प्रायश्चित्तं समाचरेत् | शिवलिङ्गं समभ्यर्च्य स्थापयित्वा यथाविधि || प्. ४६) चतुर्दश्यां निराहारो वृषस्थे भास्करे सिते | पापक्षयं समुच्चार्य गाञ्च दद्याद्द्विजन्मने | तेषां पापस्य शुद्ध्यर्थं प्रायश्चित्तमुदाहृतम् || इति तत्पापप्रायश्चित्तम || प्रपञ्चसारविश्वसारयोः || कृमिकीटपतङ्गाद्याः स्वेदजा नाम देहिनः | तदुत्पत्तिप्रकारोऽपि तत्रैव || स्वेदजः स्विद्यमानेभ्यो भूवह्न्यद्भ्यः प्रजायते | यूकमत्कुणकीटाद्या ये चान्ये क्षणभङ्गुरा इति | यूक उकनीति यस्य नाम मत्कुणश्छारपोकं इति यस्य प्रसिद्धिः || भूमेरन्तरुष्मविपाकेन वीजत्वं शास्त्रसिद्धम् || स्विद्यमानभूवह्निजलवक्वध्यस्तु स्वेदजोत्पत्तिः | प्रत्यक्षसिद्धा यथा गोमयपुञ्जादेः कीटाद्युत्पत्तिरित्यनयोर्भेदः | अण्डजजरायुजयोः शुक्रशोणितसंयोगेनोत्पत्तिस्तु || प्रपञ्चसारे || पण्डजो वर्त्तुलीभूतात् शुक्रशोणितसंयुतात् | कालेन भिन्नात् पूर्णात्मा निर्गच्छन् प्रक्रमिष्यति | अहिगोधावयो भेकशिशुमारादिकश्च सः | राघवभट्टधृतम् | अण्डजाः पक्षिणः सर्पा नक्रमत्स्याश्च कच्छपाः | कुलीरगोधा भेकाद्याः शिशुमाराब्जसूक्तय इति | अब्जः शङ्खः || इति तत्रापि किंवदन्ती | अण्डं सूते गिलाहारश्चर्वाहारो जरायुजमिति || प्रायिकमेतल्लक्षणम् | तथा रोमन्थायकजन्तोः स्याच्छृङ्गं नान्यस्य जन्मिन इत्यपि || शारदायाम् || जरायुजा मनुष्याद्या जनुर्नृणां निगद्यते || विश्वसारतन्त्रे द्वितीयपटले || मनुष्यसदृशं जन्म कुत्रापि नैव विद्यते | देवता पितरः सर्वे वाञ्छन्ति जन्म मानुषम् | दुर्लभो मानुषो देहः सर्वदेहेषु सर्वदा | तस्माच्च मानुषं जन्म एतदुक्तं सुदुर्लभम् | तत्रापि संशयच्चेता विशेषेण तु पार्वति ! | मन्त्रतन्त्ररतः पुंसां सोऽपि चेदतिदुर्लभः | तत्रागमविदः श्रेष्ठाः सर्वदेहेषु पूजिताः | तत्रापि साधकः श्रेष्ठः सर्वतन्त्रेषु गोपितः || रुद्रजामले उत्तरखण्डे द्वितीयपटले || प्. ४७) मानुष्यं सफलं जन्म सर्वशास्त्रेषु गोचरम् | चतुरशीतिलक्षेषु शरीरेषु शरीरिणाम् | न मानुष्यं विनान्यत्र तत्त्वज्ञानन्तु लभ्यते | कदाचिल्लभते जन्म मानुष्यं पुण्यसञ्चयात् | सोपानभूतं मोक्षस्य मानुष्यं जन्म दुर्ल्लभम् || निर्वाणतन्त्रे द्वितीयपटलेऽपि || अथावरादिसु कीटेषु पशुपक्षिषु शैलजे ! | चतुरशीतिलक्षं वै जन्म चाप्नोति सोऽव्ययः || ततो लभेत् परेशानि ! मानुषीं दुर्लभां तनुमिति | चतुरशीतिलक्षयोनिभ्रमणानन्तरं ब्राह्मणयोनिप्राप्तिः | कर्मविपाकेऽप्युक्ता यथा | स्थावरास्त्रिंशल्लक्षश्च जलजो नवलक्षकः | कृमिजा दशलक्षश्च रुद्रलक्षश्च पक्षिणः | पशवो विंशलक्षश्च चतुर्लक्षश्च मानवाः | एतेषु भ्रमणं कृत्वा द्विजत्वमुपजायते | निर्वाणतन्त्रे || मानुषीं तनुमित्यत्र ब्राह्मणत्वावच्छिन्नमानुषीं तनुमित्यवगन्तव्यम् | दुर्लभेति विशेषणवलेनेति || निर्वाणतन्त्रे || ततो मानुषदेहश्च धर्माधर्माधिपश्च सः | ततोऽपि लभते जन्म पुनर्मृत्युमवाप्नुयात् | जायन्ते च म्रियन्ते च कर्मपाशनियन्त्रिताः | चतुरशीतिलक्षेषु नानायोनिषु शैलजे ! || इति मनुष्यत्वप्राप्तिप्रशंसा || चण्डिकोवाच || कथं वा लभते जन्म कथं मृत्युर्भवेत् प्रभो ! | तत्प्रकारं महादेव ! श्रोतुमिच्छामि तद्वद || शङ्कर उवाच || इह यत् क्रियते कर्म तत् परत्रोपभुज्यते | जीवस्तृणजलौकेव देहाद्देहान्तरं व्रजेत् | सम्प्राप्य चतुरं देहं देहं त्यजति पूर्वकम् | इति श्रुत्वा च सा चण्डी पप्रच्छ शङ्करं प्रति || प्राप्तं चतुरदेहन्तु पिण्डदानादिकं कथम् || शिव उवाच || शृणु देवि ! प्रवक्ष्यामि मायादेहं तदेव हि | माहादेहः परेशानि ! वायुरूपौ न चान्यथा | वायुरूपो यतो देह आकाशस्थो निराश्रयः | ततश्च पिण्डदानेन वायुः स्थिरतरो भवेत् | प्रथमे मस्तकं देवि ! जायते च क्रमावधि | ततो मम पुरं गत्वा धर्मकर्मादिकञ्चरेत् | प्. ४८) तद्भुक्तञ्चापरं किञ्चिद्यदा कर्म न विद्यते | ममाज्ञया यदा जीवः प्रययौ ब्रह्मशासनम् | तस्मात् कर्मानुसारेण यदि स्याद्दुर्लभा तनुः | महाविद्यां भाग्यवशाद् यदि प्राप्नोति सद्गुरोः | तत्त्वज्ञानं महेशानि यदि भाग्यवशाल्लभेत् | तदैव परमो मोक्षो यावद्ब्रह्माण्डमण्डलम् | महाविद्याप्रसादेन पुनरागमनं न हि || तृतीयपटले || तोयात्तुवुद्वुदं जातं यथा तोये विलीयते | प्रकृत्या जायते सर्वं पुनस्तस्यां प्रलीयते | ब्रह्मविष्णुशिवा देवि ! जायन्ते प्राकृताद्ध्रुवम् | तथा प्रलयकाले तु प्रकृत्यां लुप्यते पुनः || इति श्रीप्राणतोषिण्यां प्रथमे सर्गकाण्डे चतुर्विधदेहसृष्टिकथनं नाम तृतीयपरिच्छेदः || गुरुं प्रणम्य यं तेनाज्ञानध्वान्तसुधाकरम् | वक्तिमर्त्त्यदेहसृष्टिं द्विजः श्रीरामतोषणः || शाक्तानन्दतरङ्गिणी प्रथमपरिच्छेदधृतज्ञानभाष्यम् || देव्युवाच || शरीरं कीदृशं नाथ ! मुक्तिर्वा केन कर्मणा | इदानीं श्रोतुमिच्छामि ब्रूहि मे शशिशेखर ! || ईश्वर उवाच || शृणु देवि ! प्रवक्ष्यामि शरीरं कर्मसम्भवम् | रजस्वला च या नारी विशुद्धा पञ्चमे दिने | पीडिता कामवाणेन ततः पुरुषमीहते | भगलिङ्गसमायोगान्मैथुनं स्यात्तदा तयोः | अन्योस्न्यस्पर्शनादेव जायते च महासुखम् | क्षरते च यदा रेतः प्राणापानविसं श्रितम् | क्षितिरापस्तथा तेजो वायुराकाशमेव च | सर्वेषां तत्र तत्त्वं स्याद्देहस्थरक्तवीजयोः | गर्भाशयनिरूपणानन्तरं गर्भोत्पत्तिप्रकार उक्तो मातृकाकाभेदतन्त्रे द्वितीयपटले || देव्युवाच || वद ईशान ! सर्वज्ञ ! सर्वतत्त्वविदांवर ! | यत् त्वया कथितं देव ! मम सङ्गे विहारतः | कथं वा जायते पुत्रः कथं वा शुक्रसंस्थितिः | पुत्र इति गर्भमात्रोपलक्षणम् | केन प्रकारेण गर्भो जायत इति प्रश्नस्य तात्पर्यम् | वर्द्धमानस्य लिङ्गस्य प्रवेशो वा कथं भवेत् | प्. ४९) भीतियुक्ता ह्यहं नाथ ! त्राहि मां दुःखसङ्कटात् || महादेव उवाच || मणिपूरं महापद्मं सुसुम्नामध्यसंस्थितम् | तस्मान्नालेन देवेशि ! नाभिपद्मं मनोहरम् | नालत्रयसमायुक्तं सदा शुक्रविभूषितम् | ऊर्द्धनालं सहस्रारे अतः शुक्रविभूषितम् | तस्मादेव स्तनद्वन्द्वं वर्द्धमानं दिने दिने | मध्यनालं सुसुम्नान्तं वृन्ताकारं शुशीतलम् | आयोन्यग्रमधोनालं सदानन्दमयं शिवे ! | शृणु चार्वङ्गि ! सुभगे ! तन्मध्ये लिङ्गताडनात् | यद्रूपं परमानन्दं तन्नास्ति भुवनत्रये | नाभिपद्मन्तु यद्रूपं तत् शृणुष्व समाहिता | वस्थानं मध्यदेशेऽस्य सदा पद्मविराजितम् | वायदेशे चाष्टपत्रं चतुरस्रञ्च तद्वहिः | चतुर्द्वारसमायुक्तं सुवर्णाभं सवृन्तकम् | तत्पद्मेन भवेत् पुष्पं वृन्तयुक्तं त्रिपत्रकम् | प्रफुल्ले तु त्रिपत्रे वै वाह्ये शोणितदर्शनम् | एतन्मध्ये महेशानि ! यदि स्याल्लिङ्गताडनम् | पद्ममध्ये गते शुक्रे सन्ततिस्तेन जायते || पद्ममध्ये शुक्रगमनप्रकारस्तु प्रपञ्चसारे || स्वस्थानतश्च्युतात् शुक्राद्बिन्दुमादाय मारुतः | गर्भाशयं प्रविशति यदा तुल्यं तदापरः | आर्त्तवात् परमं बीजमादायास्याश्च मूलतः | यदा गर्भाशयं नेष्यत्यथ सम्मिश्रयेन्मरुत् | सङ्क्षोभ्य संवर्द्धयति तन्मलं शोणिताधिकम् | स्त्री स्यात् शुक्राधिकं ना स्यात् समेन च नपुंसकम् | वायुवह्न्यम्भसां योगे गर्भवृद्धिः प्रजायते || एतेन त्रिवृत्करणपक्षः स्पष्टीकृतः || ज्ञानभाष्ये || नाभिपद्मे महादेवि ! भ्राम्यते च समीरणैः | कुम्भकारो यथा चक्रे घटते च घटादिकम् | तथा समीरणो गर्भे घटते प्राणिनां तनुम् || शारदातिलके || रक्ताधिका भवेन्नारी भवेद्रेतोऽधिकः पुमान् | उभयोः समतायान्तु नपुंसकमिति स्थितिः || मातृकाभेदतन्त्रे || पुरुषस्य तु यत् शुक्रं शक्तेस्तस्याधिकं यदि | तदा कन्यां विजानीयाद्वीपरीते पुमान् भवेत् | प्. ५०) उभयोस्तुल्यशुक्रेण क्लीवं भवति निश्चितम् || तत्राधिक्यतुल्यतादिकम् राघवभट्टधृतवचनोक्तप्रमाणस्यैव यथा || द्वाविंशतीरजोभागाः शुक्रमात्राश्चतुर्दश | गर्भसञ्जनने काले पुंस्त्रियोः सम्भवन्ति हि || मात्राभाग इत्यर्थः || नारी रजोऽधिकांशे स्यान्नरः शुक्राधिकांशके | उभयोरुक्तसंख्यायां स्यान्नपुंसकसम्भवः | राघवभट्टधृतवाग्भटे बह्वपत्यकारणामुक्तं यथा || वायुना बहुधा भिन्ने तद्विन्दौ वह्वपत्यता | वियोनिविकृताकारा जायन्ते विकृते तथा | शृणु चार्वङ्गि ! सुभगे ! पुष्पमाहात्म्यमुत्तमम् | मेध्यं तत् शुक्रसंयोगे वर्द्धते च दिने दिने | एवं दिङ्माससम्प्राप्तौ तत्पुष्पे बिन्दुसंयुते | गलिते परमेशानि ! व्यक्ता भवति सन्ततिः || श्रीदेव्युवाच || किञ्चिद्रोगादिसम्भूते कृमिकीटादिसम्भवे | तस्माज्जीवाः प्रणश्यन्ति सा नारी जीवति कथम् || श्रीशङ्कर उवाच | तस्य पुष्पस्य माहात्म्यं किं वक्तुं शक्यते मया | बिन्दुस्थानसहस्रन्तु पुष्पमध्ये प्रियंवदे ! | वुद्वुदा योऽत्र तिष्ठन्ति तत्रैव सन्ततिर्भवेत् | एवं क्रमेण देवेशि ! सहस्रं सन्ततिर्यदि | वर्द्धमानं तदा पुष्पं पीडा किञ्चिन्न जायते || वीर्यवद् गर्भकारणमाह || राघवभट्टधृतम् || पूर्णषोडशवर्षा स्त्री पूर्णविंशेन सङ्गता | शुद्धगर्भाशये मार्गे रक्ते शुक्रेऽनिले हृदि | वीर्यवन्तं सुतं सूते ततो न्यूनाब्दयोः पुनः | रोगाल्पायुरधन्यो वा गर्भो भवति नैव वा | इति तत्र शुक्रशोणितसम्बद्धविन्दौ पूर्वपूर्वानेकजन्मसञ्चितकर्मणां मध्ये फलदानोन्मुखं पापपुण्यात्मकं प्रबलमेकं सुखदुःखोभयफलकं मनुष्यशरीरोपभोग्यं यत् कर्म तदनुरूपेणाविद्यारूपपाशबद्धः सन्नेकोऽपि बहुधा भिन्नो नित्योऽप्यात्मा गृहमिव देहं प्रविष्टस्तदुक्तं राघवभट्टधृताध्यात्मविवेके || अस्ति ब्रह्म चिदानन्दमयं ज्योतिर्निरञ्जनम् | सर्वशक्ति च सर्वज्ञं तदंशा जीवसंज्ञकाः | अनाद्यविद्योपहिता यथाग्नेर्विष्फुलिङ्गकाः | प्. ५१) दीर्घाद्युपाधिसम्भिन्नास्ते कर्मभिरनादिभिः | सुखदुःखप्रदैः स्वीयैः पुण्यपापैर्नियन्त्रिताः | तत्तज्जातियुतं देहमायुर्भोग्यञ्च कर्मजम् | प्रतिजन्म प्रपद्यन्ते मायापाशनियन्त्रिता इति || निर्वाणतन्त्रेऽपि || सत्यलोके महाकाली महारुद्रेण सम्पुटा | चणकाकारविस्तारा चन्द्रसूर्याग्निरूपिणी | अनादिपुरुषोद्युक्ता तदंशा जीवसंज्ञकाः | ज्वलदग्नेर्यथा देवि ! स्फुरन्ति विस्फुलिङ्गकाः | तस्याश्च्युतः परं बिन्दुर्यदा भूमौ पतत्यपि | तदैव सहसा देवि ! शक्तियुक्तो भवत्यपि || इति गर्भोत्पत्तिप्रकारकथनम् | इति शुक्रशोणितादुत्पत्तिप्रकारस्तु योगार्णवे || आयुष्यं भुक्तमाहारं स वायुः कुरुते द्विधा | सम्प्रविश्याथ मध्यन्तु पृथगन्नं पृथग् जलम् | स वायुः प्राणवायुः || योगियाज्ञवल्के उत्तरखण्डे चतुर्थाध्यायेऽपि | आयुष्यं भुक्तमाहारं सहसा तैः समीकृतम् | तुन्दमध्यगतः प्राणस्तानि कुर्यात् पृथक् पृथक् | पृथक्करणप्रकारस्तु योगियाज्ञवल्क्ये || पुनरग्नौर्जलं प्राप्य अन्नादीनि जलोपरि | स्वयं ह्यपानः सम्प्राप्य तेनैव सह मारुतः | प्रयाति ज्वलनं तत्र देहमध्यगतं पुनः | अग्नौ जलं प्रापयय अन्नादीनि जलोपरि सम्प्रापयय तेनैव प्राणवायुनैवापानो वायुर्देहमध्यगतं ज्वलनं प्रयाति प्राप्नोतीत्यन्वयः | एवञ्च प्राणेन प्रेरितमिति प्राणस्थित्येति च प्राधान्येन वक्ष्यते | वस्तुतस्तु प्राणापानाभ्यामेव प्रेरितमित्यर्थः || वायुना वर्द्धते वह्निरपानेन शनैः शनैः | ततो ज्वलति विप्रेन्द्रि ! स्वकुले देहमध्यके | ज्वालाभिर्ज्वलनं तत्र प्राणेन प्रेरितं ततः | ज्वलत्युदकमाश्रित्य कोष्ठमध्यगतं तदा | अन्नं व्यञ्जनसंयुक्तं जलोपरि समर्पितम् || ततः सुषुप्तमकरोद्वह्निसन्तप्तवारिणा || योगार्णवे च || अग्नेरूर्द्धं जलं स्थाप्य तदन्नञ्च जलोपरि | जलस्याधः स्वयं प्राणः स्थित्वा स्वेदयते शनैः | प्. ५२) वायुना व्युह्यमानोऽग्निरत्युष्णं कुरुते जलम् | अन्नं तदुष्णतोयेन समन्तात् पच्यते पुनः | द्विधा भवति तत्पक्वं पृथक् कीट्टं पृथग्रसम् || कीट्टं मलम् || तत्र रसोत्पत्तिप्रकारस्तु प्रपञ्चसारे द्वितीयपटले || अथाहृतं षड्रसं वाप्याहारं कण्ठमार्गगम् | श्लेष्मणानुगतं तस्य प्रभावान्मधुरीभवेत् | तत्र स्वाद्वम्ललवणतिक्तोषणकषायकाः | षड्रसाः कथिता भूतविकृत्या द्रव्यमाश्रिताः || स्वादुमिष्टमुषणं कटु || तथैवमाशयगतं पश्चात् पित्ताशयं व्रजेत् || आशयं छिद्रम् || तदा तस्यानुगमनात् कटुकत्वं प्रपद्यते | तथात्रान्तरसंश्लिष्टं पच्यते पित्तवारिणा || जलादीनां पाकेनावस्थान्तरमुक्तम् योगियाज्ञवल्क्ये || स्वेदमूत्रे जलं स्यातां वीर्यरूपं रसो भवेत् | पुरीषमन्नं स्याद्गार्गि ! प्राणः कुर्ययात् पृथक् पृथक् || प्रपञ्चसारे || ग्रहणी नाम सा पात्री प्रसृताञ्जलिसन्निभा || पात्री नाडी || अधस्तस्याः प्रधानाग्निः समानेनापि नुद्यते स्थानमेतद्धि मूलाधारं विदुर्बुधाः | प्रधानाग्निर्दोषदूष्यस्थाग्निभ्यो भिन्नो वडवानलरूपेजठराग्निरिति प्रसिद्धः | तथा च | पच्यमानाद्रसं भिन्नं वायूरक्तादिकं नयेत् | तत्र कीट्टः पृथक् भिन्नं ग्रहण्यां चिनुतेऽनिलः | तच्चीयमानं विणाम ग्रहणीं पूरयेन्मुहुः | सा तया शकृता पूर्णाबलितां प्रतिमुञ्चति | शकृता मलेन || पूरीषं पायुमार्गेण तत्पाके चाम्भसस्ततः | अङ्गस्वेदवदभ्यन्तर्व्याप्तैः सूक्ष्मैः शिवामुखैः | वस्तिमापूरयेद्वायुः पूर्णो मुञ्चति धारया | मूत्राशयो धनुर्वक्रो वस्तिरित्यभिधीयते | मूत्रमित्याहुरुदकं वस्तेश्चानिलनिर्गतम् | अपथ्यभाजामनयोर्मार्गयोर्दोषदुष्टयोः | प्रमेहमूत्रककृच्छादेर्ग्रहिण्यादेश्च सम्भवः || राघवभट्टध्टसुश्रुते | त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्राण् धाताः | प्. ५३) भवन्त्यन्योन्यतः सर्वे पाचिताः पित्ततेजसा इति | एतेन पूर्वपूर्वस्योत्तरोत्तरं प्रति कारणत्वमुक्तम् | तथा च तत्रैव || रसः सनाडीमध्यस्थः शारीरेणोष्मणा भृशम् | पच्यते पच्यमानाच्च भवेत् पाकद्वयं पुनः | चर्मावेष्ट्य समन्ताच्च रुधिरन्तु प्रजायते | स्वस्वकोषाग्निना पक्वैर्जायन्ते धातवः क्रमात् || योगार्णवे || रसेन तेन ता नाडीः प्राणः पूरयते शनैः | प्रतर्पयन्ति सम्पूर्णास्ताश्च देहं समन्ततः || योगियाज्ञवल्क्ये || समानवायुना सार्द्धं रसं सर्वासु नाडिषु | व्यापयन् श्वासरूपेण देहे चरति मारुतः | व्योमरन्ध्रैश्च नवभिर्विण्मूत्राणां विसर्जनम् | कुर्वन्ति वायवः सर्वे शरीरेषु निरन्तरम् | निश्वासोच्छासकासाश्च प्राणकर्मसमीरिताः | अपानवायोः कर्मैतद्विण्मूत्रादिविसर्जनं | प्राणापाने च चेष्टादि व्यानकर्मेति चेष्यते | उदानकर्म तच्चोक्तं देहस्योन्नयनादि यत् | पोषणादि समानस्य शरीरे कर्म कीर्तितम् | उद्गारादिगुणो यस्तु नागकर्म समीरितम् | निमीलनादि कूर्मस्य क्षुतृष्णा कृकरस्य च | देवदत्तस्य विप्रेन्द्रि ! जृम्भा कर्मेति कीर्तितम् | धनञ्जयस्य पोषादि सर्वं कर्म प्रकीर्तितम् | वायूनां स्नाथादीन्यग्रे वक्ष्यन्ते || इति शुक्रशोणिताद्युत्पत्तिकथनम् || योगार्णवे | मातुरम्बुवहा नाडी ननु विद्धा पराभिधा | नाभिस्थनाडीगर्भस्य मात्राकृतरसावहा इति | शाक्तानन्दतरङ्गिण्याम् | कलनञ्चैकरात्रेण वुद्वुदं पञ्चमे दिने | शोणितं दशरात्रेण मांसपिण्डं चतुर्दशे || प्रपञ्चसारे || मारीयं नाम योगोत्थं पौरुषं कार्मणं मलम् | आणवं नाम सम्प्रोक्तं मिलितं तन्मलद्वयम् | सूक्ष्मरूपाणि तत्त्वानि चतुर्विंशमलद्वये | तत्र योगं प्रकृत्याशु ततस्तु गर्भमारुतः | सङ्क्षोभ्य संवर्द्धयतीत्यादि पूर्वोक्तेनान्वयः | स्वगतैर्मरुदग्न्यद्भिः क्लिद्यते क्वाथ्यते च तत् | मिश्रीभूतं तदह्नैव मातुरङ्गुष्ठसम्मितम् || सम्मितमिति मातुरङ्गुष्ठनखपरिमितमित्यर्थः || प्. ५४) राघवभट्टधृतयोगार्णवे || घनमांसञ्च विंशाहे पिण्डभावोलपक्षितम् | पञ्चविंशतिपूर्णाहे पलं तदङ्कुरायते || शाक्तानन्दे तु | मासैकेन तु पूर्णेन मांसपिण्डोऽङ्कुरायते || इत्युक्तम् तत्रैव | आदौ सञ्जायते बीजं ब्रह्माण्डं सहसाङ्कुरः | तस्य मध्ये सुमेरुश्च कङ्कालदण्डरूपधृक् | चराचराणां सर्वेषां देवादीनां विशेषतः | आलयः सवभूतानां मेरोरभ्यन्तरेऽपि च | प्रदीपकलिकाकारो जीवो हृदि सदा स्थितः | रज्जुवद्धो यथा श्येनो गतोऽप्याकृष्यते पुनः | गुणवद्धस्तथा जीवः प्राणापानेन कृष्यते || योगियज्ञवल्क्ये द्वितीयाध्याये तु | तन्मध्ये नाभिरित्युक्तं नाभौ चक्रसमुद्भवः | द्वादशारयुतं तच्च तेन देहः प्रतिष्ठितः | चक्रेऽस्मिन् भ्रमते जीवः पुण्यपापप्रणोदितः | तन्तुपञ्जरमध्यस्थो यथा भ्रमति लूतिकः | लूतिक उर्णनाभः माकरसा यस्य प्रसिद्धिः | नाभौ जीवस्य भ्रमणमात्रं स्थितिस्थानन्तु हृदयमेव | तेन पूर्ववचने न विवादः || योगार्णवे || मासद्वये तु सम्पूर्णे शिरोमेदः प्रजायते | मज्जास्थि च त्रिभिर्मासैः केशस्त्वक् च चतुर्थके | एषु मासेष्वध्यात्मविवेके तु विशेष उक्तो यथा | द्रवत्वं प्रथमे मासे कललाख्यं प्रजायते | द्वितीये तु घनः पिण्डः पेशीष्टघनसर्वुदम् | पुंस्त्रीनपुंसकानान्तु प्रागवस्थाः क्रमादिमाः | तृतीये त्वङ्कुराः पञ्च करादिशिरसो मताः || अत्र ग्रन्थत्रये यद्भेदत्रयमङ्कुरोत्पत्तेरुक्तं तच्छरीरमेर्ववयवाङ्कुरभेदेनाविरुद्धमाम्नायभेदेन वा | अङ्गप्रत्यङ्गभागाः स्युः सूक्ष्माश्च युगपत्तदा | चतुर्थे व्यक्तता तेषां भागानामभिजायते | मातृजञ्चास्य हृदयं विषयानभिकाङ्क्षति | अतो मातुर्मनोऽभीष्टं कुर्याद्गर्भसमृद्धये | ताञ्च द्विहृदयां नारीमाहुर्दोहादिनीं बुधाः | अदानाद्दोहदानान्तु गर्भस्य व्यङ्गतादयः | मातुश्चेद्विषयालाभस्तदार्त्तो जायते सुतः | गर्भः स्यादर्थवान् भोगी देहे दोहददर्शने | प्. ५५) अलङ्कारे सुललितो धर्मिष्ठस्तापसाश्रमे | देवतादर्शने भक्तो हिंस्रो भुजगदर्शने | गोधाशने तु निद्रालुर्बली गोमांसभक्षणे | माहिषेण तु रक्ताक्षं लोमशं सूयते सुतम् | प्रवृद्धं पञ्चमे पिण्डं मांसशोणितपुष्टिभाक् | षष्ठेऽस्थिस्नायुनाड्यादिनखकेशविविक्तता | बलवद्धौ चोपचितौ सप्तमे त्वगपूर्णता | अष्टमे त्वक्श्रुती स्यातां ओजश्चैतच्च हृद्भवम् || ज्ञानभाष्ये तु || कर्णाक्षिनासिकारन्ध्रं कण्ठोदरञ्च पञ्चमे | षष्ठे मुखं तथा पादौ सर्वाङ्गानि तु सप्तमे | सन्धिः सम्पूर्णतां याति अष्टमे मासि वै ततः | एतदपि पूर्ववत् || अण्डाधारञ्च कङ्कालं पारभ्य गुदमूलतः | द्वात्रिंशज्ज्ञानविज्ञानग्रन्थिनो वर्द्धते सदा || शारदायां प्रथमपटले || अथ मात्राहृतैरन्नपानाद्यैः पोषितः क्रमात् | दिनात् पक्षात्तथा मासात् वर्द्धते तत्त्वदेहवान् || तत्त्वदेहवानिति चतुर्विंशतितत्त्वात्मकशररीर इत्यर्थः | दोषैर्दूष्यैः सुखं प्राप्तो व्यक्तिं याति निजेन्द्रियैः | वातपित्तकफा दोषा दूष्याः स्युः सप्त धातवः || इति धातुकथनम् || शारदायाम् || ज्ञानेन्द्रियाणि श्रोत्रं त्वक्दृग्जिह्वानासिकादयः | ज्ञानेन्द्रियार्थाः शब्दाद्याः स्मृताः कर्मेन्द्रियाण्यपि | शब्दाद्या इति शब्दस्पर्शरूपरसगन्धाः | वाक्पाणिपादपायवन्धुसंज्ञान्याहुंर्मनीषिणः | मुखहस्तपादगुदलिङ्गानि | वचनादानगतयो विसर्गानन्दसंयुताः | कथनग्रहणगमनत्यागानन्दाः | कर्मेन्द्रियार्थाः संप्रोक्ता अन्तःकरणमात्मनः || विश्वसारे प्रथमपटले || इन्द्रियाणां गुणान् वक्ष्ये शृणुष्व कमलानने ! | चक्षुषो रूपमाख्यातं कर्णयोः शब्दमेव च ! गन्धस्तु नसि विज्ञेयस्त्वचि स्पर्श उदाहृतः | आदानं भुजयुग्मेषु जिह्वायां रस उच्यते | गुह्ये विसर्गो विज्ञेय आनन्दः स्यादुपस्थके | गमनं पादयुग्मे च कथनं मुखपङ्कजे | प्. ५६) इतीन्द्रियेन्द्रियार्थकथनम् | अन्तःकरणं स्पष्टयति शारदाकृत् || मनोबुद्धिरहङ्कारश्चित्तन्तु परिकीर्तितम् | अत्र सङ्कल्पविकल्पात्मकं मनः | सर्वभावनिश्चयकारिणी बुधीः | ज्ञात्रभिमानयुक्तोऽहङ्कारः | निर्विकल्पकं चित्तम् | यदाह एषा शक्तिः परा वीजरूपिणी प्रोक्तलक्षणा || सङ्कल्पञ्च विकल्पञ्च कुर्वाणा तु मनो भवेत् | बुद्धिरूपा तथा सर्वभावनिश्चयकारिणी | ज्ञातास्मीत्यभिमानाट्या सैवाहङ्कारसंज्ञिता | निर्विकल्पात्मिका सैव खलु चित्तस्वरूपिणी | एवमेकैव बहुधानर्त्तकीव प्रतीयत इति | श्रुतिरपि | मनः सङ्कल्पयति बुद्धिर्निश्चिनोति अहमभिमानयति चेतश्चेतयते इति | प्रपञ्चसारेऽपि || परेण धाम्ना समनुप्रवृद्ध्या मनस्तदा सा तु महाप्रभावा | यदा तु सङ्कल्पविकल्पकृत्या यदा पुनर्निश्चिनुते तदा सा | स्याद्बुद्धिसंज्ञा च यदा प्रवृत्तिर्ज्ञातारमात्मानमहङ्कृतिः स्यात् | तदा यदा सा त्वभिमीयतेऽन्तश्चित्तञ्च निर्द्धारितमर्थमेषामिति || शारदायाम् || दर्शेन्द्रियाणि भूतानि मनसा सह षोडश | विकाराः स्युः प्रकृतयः पञ्च भूतान्यहङ्कृतिः | अव्यक्तं महदित्यष्टौ तन्मात्राश्च महानपि | साहङ्कारा विकृतयः सप्त तत्त्वविदो विदुः | विकाराः षोडश अष्टौ प्रकृतयः सप्त विकृतय इति वचनस्य पर्ययवसितार्थः | यदुक्तं मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त | सोडशकस्तु विकारो न प्रकृतिर्न विकृतिरिति तत्त्वविद इति | एतानि प्रकृत्यन्तानि चतुर्विंशतितत्त्वानि पुरुषान्तानि पञ्चविंशतिः || तदुक्तं वायवीसंहितायाम् || त्रयोविंशतितत्त्वेभ्यः परा प्रकृतिरूच्यते | प्रकृतेस्तु परं प्राहुः पुरुषं पञ्चविंशकम् | यद्वा तत्त्वविद एवं विदुः | एषां तत्त्वान्तर्भावात् तत्त्वविद्भिरेवं संज्ञा कृता इत्यर्थः || शारदायाम् || अग्निषोमात्मको देदो बिन्दुर्यदुभयात्मकः | शुक्रमग्निरूपं रक्तं सोमरूपम् | प्. ५७) स तदात्मकत्वाद्बिन्दुरूभयात्मक इत्यर्थः || तदुक्तं राघवभट्टधृतेन || कलाषोडशकश्चन्द्रः स्याद्द्वादशकलो रविः | कलादशयुतो वह्निः कलाष्टत्रिंशदंशभुक् | साम्प्रतं सम्भवन्तीह गर्भाधानस्य हेतवे | अग्निषोमात्मकं तेन गीयते सचराचरम् | कलांशकेन योगेन भूयाद् गर्भस्य सम्भवः || ब्रह्मज्ञानतन्त्रे प्रथमपटले || शिव उवाच || अस्थिमांसनखाश्चैव नाडीत्वक् चेति पञ्चमः | पृथ्वीपञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम् | मलं मूत्रं तथा शुक्रं श्लेष्मा शोणितमेव च | तोयं पञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम् | हासो निद्रा क्षुधा चैव भ्रान्तिरालस्यमेव च | तेजःपञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम् | धारणं चालनं क्षेपः सङ्कोचः प्रसवस्तथा | वायुपञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम् | कामक्रोधस्तथा लोभस्त्रपा मोहश्च पञ्चमः नमःपञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम् || राघवभट्टधृतम् | अस्थि मांसं त्वचं स्नायुरोम एवं तु पञ्चमं | इति पञ्चविधा प्रोक्ता पृथिवी कठिनात्मिका | लाला मूत्रं तथा शुक्रं शोणितं मज्ज पञ्चमम् | अपां पञ्चगुणाएते रुद्ररूपाः प्रकीर्तिताः | क्षुधा तृष्णा भयं निद्रा आलस्यं क्षान्तिरेव च | तृष्णात्मका गुणा एते तेजसः परिकीर्तिताः | धारणं वलानं भुक्तिराकुञ्चनप्रसारणम् | एते पञ्च गुणा वायोः क्रियारूपा व्यवस्थिताः | रागद्वेषौ तथा लज्जा भयं मोहस्तथैव च | व्योम्नः पञ्च गुणाः प्रोक्ताः शून्याख्ये शुषिरात्मनीति | इति पञ्चभूतोद्भवास्थ्यादिकथनम् || शाक्तानन्दतरङ्गिण्याम् || प्राणापानसमानश्चोदानव्यानौ च वायवः | नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः | एते दशगुणाः प्रोक्ताः सर्वप्राणवशात्मनः || शारदातिलके || दक्षिणांशः स्मृतः सूर्यो वामभागो निशाकरः | नाडीर्दश विदुस्तासु मुख्यास्तिस्रः प्रकीर्तिताः | प्. ५८) इडा वामतनोर्मध्ये सुषुम्ना पिङ्गला परे | मध्या तास्वपि नाडी स्यादग्नीषोमस्वरूपिणी | अत्रेडा वाममुष्काधःस्था धनुर्वक्रा वामनासापर्यन्तं गता | एवं पिङ्गला दक्षिणाण्डाधःस्था धनुर्वक्रा दक्षिणनासान्तं गता | पृष्ठवंशान्तर्गता सुषुम्ना इत्यर्थः | एतदग्रे स्फुटीभविष्यति || तथा प्रपञ्चसारे | ऊर्द्धन्तु मरुतानुन्ना त्तस्मादपि मलद्वयी | उभयात्मिक्यधोवृत्ता नाडी दीर्घा भवेदृजुः | अवाङ्मुखी सा तस्याश्च भवेत् पक्षद्वये द्वयम् | पक्षद्वये पार्श्वद्वये | नाड्यस्ताः सन्निरुद्धा स्युः सप्तान्या नाडिका मताः | तत्र या प्रथमा नाडी सा सुषुम्नेति कथ्यते | या वामेडेति सा ज्ञेया दक्षिणा पिङ्गला मता || तथा काचिन्नाडी वहिर्वक्त्रा या मातुर्हृदि वध्यते | यया स पुष्टिमायाति केदार इव कुल्यया | मातुराहाररसजैर्धातुभिः पुष्यते क्रमात् | क्रमवृद्धौ परं ज्योतिः कलाक्षेत्रज्ञतामियात् | सक्षेत्रज्ञं मलं तत्तु सभूतं सगुणं पुनः | सदोषं दूष्यसम्पन्नं जन्तुरित्यभिधीयते | सभूतपञ्चकं सक्षेत्रज्ञमात्रसहितं तत् पूर्वोक्तमानवादिमलं जन्तुरित्युच्यते | इत्यन्वयः | किम्भूतं सगुणं सत्त्वादिगुणं सत्त्वादिगुणयुक्तं सदोषं वायुपित्तकफयुक्तं दूष्यसम्पन्नं सप्तधातूद्भवम् | इति जन्तुलक्षणम् || फलकोषद्वयं तत्तु व्यक्तं पुंसो न तु स्त्रियाः | नपुंसकस्य किञ्चित्तु व्यक्तिरत्रोपलक्ष्यते | फलकोषद्वयमण्डकोषद्वयम् || निरुत्तरतन्त्रे प्रथमपटले || नाडीनां संवहो देवि ! कञ्जयोनिः खगाण्डवत् | तत्र नाड्यः समुत्पन्नाः सहस्राणां द्विसप्ततिः | कञ्जस्य पद्मस्य योनिरूत्पत्तिस्थानं शालूकमिति यावत् | प्रधानाः प्राणवाहिन्यो नाड्यत्रदश स्मृताः | इडा च पिङ्गला चैव सुषुम्ना च तृतीयिका | गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी | अलम्बुषा कुहुश्चैव शङ्खिनी च दश स्मृताः | एवं नाडीमयं चक्रं विज्ञेयं शक्तिचक्रके | प्. ५९) इडायाः पिङ्गलायाश्च मध्ये या सा सुषुम्निका | इयञ्च त्रिगुणा ज्ञेया ब्रह्मविष्णुशिवात्मिका | रजोगुणा च वज्राख्या चित्रिणी सत्त्वसंयुता | तमोगुणा ब्रह्मनाडी कार्यभेदक्रमेण च | तथा | वायुर्भानुमयो ज्ञेयो मनश्चन्द्रात्मकं तथा | प्राणोऽपानः समानश्चोदानव्यानौ च वायवः | या वाममुष्कसम्बन्धा संश्लिष्यन्ती सुषुम्नया | दक्षिणञ्चक्रमाश्रित्य धनुर्वक्रा हृदि स्थिता | वामांशयन्त्रान्तरगा दक्षिणां नासिकामियात् | तथा दक्षिणमुष्कस्था नासाया वामरन्ध्रगा | तन्त्रान्तरे || षुषुम्नाकलिता याता मुष्कं दक्षिणमाश्रिता | सङ्गता वामभागस्य यन्त्रमध्यं समाश्रिता | दक्षिणं नासिकाद्वारं प्राप्तेति गिरिजात्मजे ! | वाममण्डमनुस्यूतामनन्या सव्यनासिकामिति | अनयोः स्वरूपमुक्तं योगार्णवे | इडा च शङ्खचन्द्राभा तस्या वामे व्यवस्थिता | पिङ्गला सितरक्ताभा दक्षिणं पार्श्वमाश्रिता इति | तन्त्रान्तरे इडायां संश्रितश्चन्द्रः पिङ्गलायां दिवाकर इति | तास्वपि सुषुम्ना मुख्येत्यर्थः | उक्तञ्च श्रीतत्त्वचिन्तामणौ || मेरोर्वाह्यप्रदेशे शशिमिहिरशिवे सव्यदक्षे निषणे मध्ये नाडी सुषुम्ना त्रितयगुणमयी चन्द्रसूर्याग्निरूपा | अन्यत्रापि तयोः पृष्ठवंशं समाश्रित्य मध्ये सुषुम्ना स्थिता ब्रह्मरन्ध्रन्तु यावत् | अन्यासां नामान्यपि शारदायाम् | गाधारी हस्तिजिह्वाख्या सपूषालम्बुषा मता | यशस्विनी शङ्खिनी च कुहुः स्युः सप्त नाडयः | आसां स्थितिस्वरूपं योगार्णवे || इडापृष्ठे तु गान्धारी मयूरगलसन्निभा | सव्यपादादिनेत्रान्ता गान्धारी परिकीर्तिता | हस्तिजिह्वोत्पलप्रेक्षा नाडी तस्याः पुरः स्थिता | सव्यभागस्य मूर्द्धादिपादाङ्गुष्ठान्तमाश्रिता | पूषा तु पिङ्गलापृस्ठे नीलजीमूतसन्निभा | याम्यभागस्य नेत्रान्ता यावत् पादतलं गता | यशस्विनी शङ्खवर्णा पिङ्गला पूर्वदेशगा | गान्धार्याश्च सरस्वत्या मध्यस्था शङ्खिनी मता | प्. ६०) सुवर्णवर्णा पादादिवर्णान्ता सव्यभागके | पादाङ्गुष्ठादिमूर्द्धान्तयाम्यभागे कुहुर्मता | रावणा सरस्वती विश्वोदरी शङ्खिनी एता अपि प्रधानत्वेनोक्ताः | उकञ्च | ताश्च भूरितरास्तासु मुख्याः प्रोक्ताश्चतुर्दश | सुषुम्नेडा पिङ्गला च कुहूरथ सरस्वती | गान्धारी हस्तिजिह्वा च रावणा च यशस्विनी | विश्वोदरी शङ्खिनी च ततः पूषा यशस्विनी | अलम्बुषेति || शाक्तानन्दतरङ्गिणीधृतज्ञानभाष्ये || इडा च वामनासायां दक्षिणे पिङ्गला मता | सुषुम्ना ब्रह्मरन्ध्रे च गान्धारी वामचक्षुषि | दक्षिणे हस्तिजिह्वा च पूषा कर्णेऽथ दक्षिणे | वामे यशस्विनी ज्ञेया मुखे चालम्बुषा मता | कुहुश्च लिङ्गमूले स्यात् शङ्खिनी शिरसोपरि | एवं द्वारं समाश्रित्य तिष्ठन्ति दश नाडिकाः | क्षितिश्च वारि तेजश्च वायुराकाशमेव च | स्थैर्यं गता इमे पञ्च वाह्याभ्यन्तर एव च || एवं प्रधाननाडीनिरूपणानन्तरं शाखारूपनाडी निरूपिता || शारदायां || नाड्योऽनन्ताः समुत्पन्नाः सुषुम्ना पञ्चपर्वसु | सर्वाणि स्वाधिष्ठानमणिपूरकानाहतविशुद्धाज्ञान्तानि | तत्राधोऽधोग्रन्थिमारभ्योर्धोर्द्धसर्वग्रन्थिपर्यन्तं समाप्तिः | गणयितुमशक्यत्वादनन्ताः | यदाहुः | पूर्वोक्तायाः सुषुम्नाया मध्यस्थायाः सुलोचने ! | नाभिहृत्कण्ठतालुभ्रूमध्यपर्वसमुद्भवाः | अधोमुखाः शिराः काश्चित् काश्चिदूर्द्धमुखास्तथा | परास्थिर्यग्गताः काश्चित्तत्र लक्षत्रयाधिकाः | नाड्योऽर्द्धलक्षसंख्याताः प्रधानाः समुदीरिताः || तासु सर्वासु बलवान् प्राणो वायुः समन्ततः || विश्वसारे तु || नाभेः सकाशाज्जायन्ते नाड्यः क्षेत्रप्रपोषिक्ताः | इडा तु वामभागे स्याद्दक्षिणे पिङ्गला मता | मध्ये सुषुम्ना विज्ञेया चन्द्रसूर्यानलात्मिका | नाड्योऽनन्ताः समुत्पन्नास्तस्याः पञ्चसु पर्वसु | इति नाभेः सकाशादिति यदुक्तं तत्क्षेत्रपोषिका इत्यनेन रसादिचालनेन शरीरपुष्ट्यर्थं न तु ज्ञानध्यानाद्यर्थं वायुसाधनप्रकरणे एतत् स्पष्टीकरिष्ये | प्. ६१) नरपतिजयचर्यास्वरोदयधृतब्रह्मब्रह्मजामलमपि शरीरपुष्ट्यर्थमेअ नाभौ कुण्डलिनी माह यथा महाशक्तिः कुण्डलिनी नाडीस्थाहिस्वरूपिणी | ततो दशोर्द्धगा नाड्यो दश चाधोगतास्तथा द्वे द्वे तिर्ययग्गते नाड्यौ चतुर्विंशतिसंख्यया | सूक्ष्ममुख्यास्त्वतो नाड्यः सहस्राणां द्विसप्ततिः | कुण्डलिन्यां महाशक्तौ मूलमार्गा भवन्त्यमी | ताभ्यः सूक्ष्ममुखा नाड्यः शरीरं प्रतिपोषिकाः | सप्त शतानि जायन्ते सप्तोत्तराणि संख्यया | प्रधाना दश नाड्यस्तु दश वायुप्रवाहिकाः || योगियाज्ञवक्ल्ये प्रथमध्यायेऽपि नाभिचक्रमुपक्रम्य | कन्दमध्ये स्थिता नाडी सुषुम्नेति प्रकीर्तिता | तिष्ठन्ति परितः सर्वाश्चक्रेऽस्मिन् नाडिकास्ततः | नाडीनामपि सर्वासां मुख्या गार्गि ! चतुर्दश || गार्गि इति याज्ञवक्यस्य स्थियाः सम्बोधनम् || इडा च पिङ्गला चैव सुषुम्ना च सरस्वती | वारूणी चैव पूषा च हस्तिजिह्वा यशस्विनी | विश्वोदरी कुहुश्चैव शङ्खिनी च पयस्विनी | अलम्बुषा च गान्धारी मुख्याश्चैताश्चतुर्दश | तासां मुख्यतमास्तिस्रस्तिसृष्वेकोत्तमोत्तमा | मुक्तिमार्गे तु सा प्रोक्ता सुषुम्ना विश्वधारिणी | कन्दस्य मध्यमे गार्गि ! सुषुम्ना च प्रतिष्ठिता | पृष्ठमध्ये तु तेनास्थ्ना सह मूर्ध्नि व्यवस्थिता | मुक्तिमार्गे सुषुम्ना वैष्णवी स्थिता | इडा च पिङ्गला चैव तस्याः सव्ये च दक्षिणे | इडायां पिङ्गलायाञ्च चरतश्चन्द्रभास्करौ | इडायां चन्द्रमा ज्ञेयः पिङ्गलायां दिवाकरः | चन्द्रस्तामस इत्युक्तः सूर्यो राजस उच्यते | विषभागो रवेर्भागश्चन्द्रभागोऽमृतं तथा | तावेव तदधः सर्वं कालं रात्रिन्दिवात्मकम् || भोक्ती सुषुम्ना कालस्य गुह्यमेतदुदाहृतम् | प्. ६२) सरस्वती कुहुश्चैव सुषुम्ना पार्श्वयोः स्थिते | गान्धारी हस्तिजिह्वा च इडायाः पृष्ठपूर्वयोः | यशस्विनी च पूषा च पिङ्गला पृष्ठपूर्वयोः | कुहुश्च हस्तिहिह्वा च मध्ये विश्वोदरी स्थिता | यशस्विन्याः कुहोर्मध्ये वारुणी सा प्रतिष्ठिता | पूषायाश्च सरस्वत्याः स्थिता मध्ये यशस्विनी | गान्धार्याश्च सरस्वत्याः स्थिता मध्ये च शङ्खिनी | अलम्बुषा च विप्रेन्द्रि ! कन्दमध्यादधः स्थिता | पूर्वभागे सुषुम्नायास्त्वामेढ्रान्तं कुहुः स्थिता | अधश्चोर्द्धञ्च विज्ञेया वारुणी सर्वगामिनी | यशस्विनी च याम्यस्य पादाङ्गुष्ठान्तमिष्यते | पिङ्गला चोर्द्ध्वगा याम्ये नासान्तं विद्धि मे प्रिये ! | याम्ये पूषा च नेत्रान्ता पिङ्गलायाः सुपृष्ठतः | पयस्विनी तथा गार्गि ! याम्ये नेत्रान्तमिष्यते | सरस्वती तथाचोर्द्धं हस्तिजिह्वा प्रकीर्तिता | आसव्यकर्णाद्विप्रेन्द्रि ! शङ्खिनी चोर्द्धमागता | गाधारी सव्यन्तेत्रान्तमिडायाः सव्यतः स्थिता | इडा च सव्यनासान्तं मध्यभागे व्यवस्थिता | हस्तिजिह्वा तथा सव्यपादाङ्गुष्ठान्तमिष्यते | विश्वोदरी तु सा नाडी तुन्दमध्ये व्यवस्थिता | अलम्बुषा महाभागे ! वायुमूला तथोर्द्ध्वगा | एतास्त्वन्याः समुत्पन्नाः शिवास्त्वन्याश्च ता अपि | यदश्वत्थदले तद्वत् पद्मपत्रेषु चापि वा | नाडीष्वतासु सर्वासु विज्ञातव्या तपोधने ! || इति नाड्युत्पत्तिकथनम् | आध्यात्मविवेके | अस्यां शरीरं संख्या स्यात् षष्टियुक्तं शतत्रयम् | त्रीण्येवास्थिशतान्यत्र धन्वन्तरिरभाषत | द्वे शते त्वस्थिसन्धीनां स्यातामत्र दशोत्तरे | पेशीस्नायुशिरासन्धिसहस्रद्वितयं मतम् | नव स्नायुशतानि स्युः पञ्च पेशीशतान्यपि | अधिका विंशतिः स्त्रीणां स्तनयोर्दिग्दिगीरिता | शिराधमनिकानान्तु लक्षाणि नव विंशतिः | सार्द्धानि स्युर्नवशती षट्पञ्चाशद्युता तथेति || इत्यस्थ्याद्युत्पत्तिकथनम् || रुद्रजामले सप्तदशपटले || प्. ६३) तिस्रः कोट्योऽर्द्धकोटी च यानि लोमानि मानुषे | नाडीमुखानि सर्वाणि धर्मबिन्दुं क्षरन्ति च | इति नाडीमुखस्थानकथनम् || इति श्रीप्राणतोषिण्यां प्रथमे सर्गकाण्डेऽन्नमयकोषात्मकमनुष्यदेहकथनं नाम चतुर्थः परिच्छेदः || एवं नाडीप्रभृतीनां निरूपणानन्तरं वायुप्रकरणस्यौचित्यात्तन्निरूप्यते || शारदातिलके || मूलाधारोद्गतः प्राणस्ताभिर्व्याप्नोति तत्तनुम् | वायवोऽत्र दश प्रोक्ता वह्न्यश्च दश स्मृताः || ताभिर्नाडीभिः || तत्तनुमनुभूततनुम् || वायुनामानि तत्रैव | प्राणाद्या मरुतः पञ्च नागः कूर्मो धनञ्जयः | कृकरः स्याद्देवदत्त इति नामभिरीरिताः || प्राणाद्या इति प्राणापानव्यानोदानसमानाः | यगियाज्ञवल्क्ये चतुर्थाध्यायेऽपि | प्राणोऽपानः समानश्च उदानो व्यान एव च | नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः | एते नाडीषु सर्वासु चरन्ति दश वायवः | एतेषु वायवः पञ्च मुख्याः प्राणादयः स्मृताः | तेषु मुख्यतमावेतौ प्राणापानौ नरोत्तमे ! | प्राण एवैतयोर्मुख्यः सर्वप्राणभृतां सदा || एषां रूपाणि स्थानानि च योगार्णवे | इन्द्रनीलप्रतीकाशं प्राणरूपं प्रकीर्तितम् | आस्यनासिकयोर्मध्ये हृन्मध्यनाभिमध्यके | प्राणालयमिति प्राहुः पादाङ्गुष्ठेऽपि केचन || अपानयत्यपानोऽयमाहारञ्च प्रलापितम् | शुक्रं मूत्रं तथोत्सर्गमपानस्तेन मारुतः | इन्द्रगोपप्रतीकाशः सन्ध्याजलदसन्निभः | स च मेढ्रे च पायौ च उरुवङ्क्षणजानुषु || मेढ्रे लिङ्गे पायौ गुदे ऊरौ प्रसिद्धरूपे वङ्क्षणे उरुसन्धौ जानुनि प्रसिद्धरूपे | इन्द्रगोपो रक्तवर्णकीटविशेषः | कापासियापोका इति ख्यातः | जङ्घोदरकृकाट्याञ्च नाभिमूले च तिष्ठति || व्यानो व्यानशतोत्पन्नः सर्वव्याधिप्रकोपणः | प्. ६४) महारजतसम्प्रेक्षो हारोपादानकारकः | महारजतं काञ्चनम् | हारोपादानकारक आहारग्राहक इत्यर्थः || स्वीयाक्षिकर्णयोर्मध्ये कट्यां वै गुल्फयोरपि | कटिः प्रसिद्धाः | गुल्फः पादग्रन्थिः | घ्राणे गले स्फिगुद्देशे तिष्ठत्यत्र निरन्तरम् | स्पन्दयत्यधरं वक्त्रं गात्रनेत्रप्रकोपणः | उद्वेजयति चार्थानि तूदानो नाम मारुतः | विद्युत्पावकवर्णः स्यादुत्थानासनकारकः | पादयोर्हस्तयोश्चापि स तु सन्धिषु वर्तते || पीतं भक्षितमाघ्रातं रक्तापित्तकफानिलान् || समं नयति गात्रेषु समानी नाम मारुतः | गोक्षीरसदृशाकारः सर्वदेहे व्यवस्थितः || योगियाज्ञवल्क्ये च || आस्यनासिकयोर्मध्ये हृन्मध्ये नाभिमध्यके | प्राणालयमिति प्राहुः पादाङ्गुष्ठे च केचन | अधश्चोर्द्धं कुण्डलिन्याः परितः प्राणस.ंश्रयः | अपाननिलयं केचिद् गुदमध्योरुजानुषु | उदरे वृषणे कट्यां जङ्घे नाभौ वदन्ति हि | गुदाधारद्वयोस्तिष्ठेन्मध्येऽपानप्रभञ्जनः | स्थानेष्वेतेषु सततं प्रकाशयति दीपवत् | उदानः सर्वसन्धिस्थः पादयोर्हस्तयोरपि | समानः सर्वगात्रेषु सर्वं व्याप्य व्यवस्थितः || रायमुकुटस्तु || हृदि प्राणो गुदेऽपानः समानो नाभिदेशके | उदानः कण्ठदेशस्थो व्यानः सर्वशरीरग इत्याह || उद्गारे ना इत्युक्तो नीलजीमूतसन्निभः || उन्मीलने स्थितः कूर्मो भिन्नाञ्जनसमप्रभः || कृकरः क्षुत्परश्चैव जवाकुसुमसन्निभः || विजृम्भणे देवदत्तः शुद्धस्फटिकसन्निभः || धनञ्जयस्तथा घोषे महारजतवर्णकः || ललाटे चोरसि स्कन्धे हृदि नाभौ त्वगस्थिषु | नागाद्या वायवः पञ्च सहैव परिनिष्ठिताः || विश्वसारप्रथमपटले तु || प्राण आदौ हृदि स्थाने पद्मरागसमद्युतिः | अपानो गुह्यदेशे च इन्द्रगोपसमः स्मृतः | गोक्षीरधवलाकारः समानो नाभिदेशके | उदानः कण्ठदेशे च धूम्रवर्णः प्रकीर्तितः | प्. ६५) व्यानः सर्वेषु चाङ्गेषु ज्योतीरूपेण वर्तते || एतद्वचनानुसारेण पूर्वकथितरायमुकुटधृतं वचननमिति पूर्ववचनोक्तैतद्वचनोक्तरूपभेदस्त्वाम्नायादिभेदेन समाधेय इति || प्रपञ्चसारकारस्तु || धनञ्जयाख्यो देहेऽस्मिन् कुर्याद्बहुविधान् श्वसान् | स तु लौकिकवायुत्वान्मृतञ्च न विमुञ्चतीति || अतएव विश्वसारे | मैथुनञ्चेच्छति यदा मैथुनञ्च तदा चरेत् | काले धनञ्जयो वायु र्बीजं गर्भे च सञ्चयेत् | निधायानिलमार्गे च पुनरेव प्रवेशयेदिति धनञ्जयवायुतो गर्भसञ्चार इत्युक्तम् | अन्यैस्तु चत्वारो वायवोऽधिका उक्ता यथा | वैरम्भणः स्थानमुख्यः प्रद्योतः प्रकृतस्तथा | वैरम्भणादयस्तत्र सर्ववायुवशं गता इति | नरपतिजयचर्यास्वरोदयधृतब्रह्मजामले || पिङ्गलेडासुषुम्नाभिर्नाडीभिस्तिसृभिर्बुधैः | प्रकटो वयुसञ्चारो लक्ष्यते देहमध्यतः | इडानाड्यां स्थितश्चन्द्रः पिङ्गला भानुवाहिनी | सुषुम्ना शम्भुरूपा च शम्भुर्हंसस्वरूपकः | हकारो निर्गमः प्रोक्तः सकारस्तु प्रवेशने | हकारः शम्भुरूपः स्यात् सकारः शक्तिरुच्यते | अत्र विशेषोऽग्रे वक्ष्यते | शारदायां द्वितीयपटले || पिङ्गलायां स्थिता ह्रस्वा इडायां सङ्गताः परे | सुषुम्नामध्यगा ज्ञेयाश्चत्वारो ये नपुंसकाः | अत्र प्रकारः वामनासातो दक्षिणनासाप्रवेशप्रारम्भसमये देहवायुः कञ्चित् काल मुभयत्र वहति स दक्षिणायणप्रारम्भसमयस्तदानीं ऋऌकारात्मकं ह्रस्वद्वन्द्वमुदेति | एवं दक्षिणनासातो वामनासागमनकालेऽपि स उत्तरायणप्रारम्भकालस्तदानीं ॠॡरूपं दीर्घद्वन्द्वमुदेति | तदुक्तं प्रयोगसारे || स्वरं सप्त समारभ्य चत्वारो ये नपुंसकाः | ते सुषुम्नाश्रिते प्राणे प्रोद्यन्त्वयनसंक्रमे इति || जामले || शक्तिरूपः स्थितश्चन्द्रो वाम्नाडीप्रवाहकः | दक्षनाडीप्रवाहे तु शम्भु रूपी दिवाकरः | इति शरीरस्थवायुकथनम् || प्. ६६) शारदायाम् || अग्नयो दोषदूष्येषु संलीना दश देहेषु | तेषां नामानि राघवभट्टधृतानि यथा || जृम्भको दीपकश्चैव विभ्रमो भ्रमशोभनः | आवसथ्याहवनीयौ दक्षिणाग्निस्तथैव च | अन्वाहार्यो गार्हपत्य इत्येते दश वह्नयः || भ्रमेण सह शोभन इति मध्यपदलोपिससासाश्रयणेन भ्रमशोभनश्चेति दशाग्निकथनम् || शारदायाम् || बुभुक्षा च पिपासा च प्राणस्य मनसः स्मृतौ | शोकमोहौ शरीरस्य जरा मृत्युः षडूर्मयः || प्रपञ्चसारेऽपि || बुभुक्षा च पिपासा च शोकमोहौ जरामृती | षडूर्मयः प्राणबुद्धिदेहधर्मेषु संस्थिता इति || ऊर्मीनामार्त्युत्पादकोऽवस्थाविशेषः || शारदायाम् || शुक्रात् स्नायुस्थिमज्जानस्त्वङ्मांसाश्रूणि शोणितात् | पितुः शुक्रात् स्नायवादि | शोणितान्मातुः शोणितात् त्वगादि | षाट्कौषिकमिति प्रोक्तं सर्वदेहेषु देहिनाम् | प्रपञ्चसारे द्वितीयपटलेऽपि || मज्जास्थिस्नायवः शुक्राद्रक्तात्त्वङ्मांसशोणितम् | इति षाट्कौषिको नाम देहो भवति देहिनाम् | वेदान्तविद्भिस्त्वपरप्रकारेण पञ्च कोषा उक्ता यथा पौर्णमास्यां पञ्चकोषविवेकेऽष्टमप्रकरेणे विद्यानन्दस्वामिना | पितृभुक्तान्नजाद्वीर्याज्जातोऽन्नेनैव वर्द्धते | देहः सोऽन्नमयो नात्मा प्राक् चोर्द्धं तदभावतः || पितृभुक्तेत्यत्रैकशेषेण मातृपितृभुक्तान्नजातादिति लभ्यते | अन्नेन दुग्धाद्याहारेण प्राक् जन्मन इति शेषः | मरणादूर्द्धं तदभावतः देहाभावतः | पूर्णो देहे बलं स्याद् यल्लक्षाणां यः प्रवर्तकः | वायुः प्राणमयो नासावात्मा चैतन्यवर्जनात् | लीना सूप्तौ वपुर्बोधे वाप्नुयादानखाग्रगा | चिच्छायोपेतधीर्नात्मा विज्ञानमयशब्दभाक् | भवतीति शेषः | कर्तृत्वकरणत्वाभ्यां विक्रियेतान्तरिन्द्रियम् || विज्ञानमनसी अन्तर्वहिश्चैते परस्परमिति | अत्र रामकृष्णपण्डितस्य व्याख्यानम् | ननु मनोबुद्ध्योरन्तःकरणत्वाविशेषान्मनो-मयविज्ञानमयरूपेण नोमयविज्ञानमयरूपेण कोषद्वयकल्पना अनुपपन्नेत्याशङ्क्य कर्तृकरणत्वाभ्यां भेदसद्भावाद् घटत एव मनोमयत्वादिभेद इत्याह | प्. ६७) कर्तृत्वेत्यादि अन्तरिन्द्रियमन्तःकरणं कर्तृत्वकरणत्वाभ्यां कर्तृरूपेण कर्णरूपेण च विक्रियेत विपरिणमेत इत्यर्थः | एते कर्तृकरणे विज्ञानमनसी विज्ञानमनःशब्दवाच्ये भवतः | एते च परस्परमन्तर्वहिर्भावेन वर्तेते | अतः कोषद्वयत्वमुपपद्यते इत्यर्थः || कादिदन्तर्मुखा वृत्तिरानन्दप्रतिबिम्बभाक् | पुण्यभोगे भोगशान्तौ निद्रारूपेण लीयते | इदानीमानन्दमयस्यानात्मत्वं दर्शयितुं तत्स्वरूपमाह काचिदित्यादि | पुण्यभोगे पुण्यकर्मफलानुभवकाले काचिद्धीवृत्तिरन्तर्मुखा सती आनन्दप्रतिबिम्बभाक् आत्मस्वरूपस्यानन्दस्य प्रतिविम्बं भजते | सैव भोगशान्तौ पुण्यकर्मफलभोगोपरमे सति निद्रारूपेण लीयते विलीना भवति | सा वृत्तिरानन्दमय इत्यभिप्रायः | एतेन मज्जामयोऽस्थिमयः स्नायुमयश्चर्ममयो मांसमयो रक्तमयश्चेति ये षट्कोषास्तन्त्रविद्भिरुक्तास्ते तु वेदान्तविद्भिरन्नमयकोषान्तर्गतत्वेनैव पर्यवसिताः | अधिकास्तु प्राणमयविज्ञानमयमनोमयानन्दमयेति चत्वार उक्ताः | अतो दशकोषकोऽयं देह इत्यायातम् | इति शरीरकोषविवरणम् || प्रपञ्चसारे || रसादितः क्रमात् पाकशुक्रान्तेषु तु धातुषु | धातुषु रसादितः क्रमात् पाको भवतीत्यन्वयः | शुक्रपाकात् स्वयं भिद्याज्जराणामष्टमी दशा | क्षेत्रज्ञस्य तदा जन्तु केवलाश्रयमिष्यते | यथा स्नेहः प्रदीपस्य यथाभ्रमशनित्विषः | बहुद्वारेण कुम्भेन संवृतस्य हविर्भुजः | यथा तेजः प्रसरति समीपालोकशक्तिमत् | तथा देहावृतस्यापि क्षेत्रज्ञस्य महात्विषः | इन्द्रियैः संविवर्द्धन्ते स्वं स्वमर्थग्रहं प्रति | प्रदीपस्य प्रज्वलनसमये स्नेहस्तैलादिर्यथा प्रज्वलनार्थं शिखां प्रति प्रसरति स्वयमायाति यथा वा अशनित्विषो विद्युतो द्युतिसमयेऽभ्रं मेघो यथा व बहुच्छिद्रकुम्भावृतस्य वह्नेर्घृतभक्षणसमये समीपालोकशक्तिमन्निकटप्रकाशकशक्तियुक्तं तेजस्तथा देहावृतस्य कोषदशकाभ्यन्तरवर्तिन आत्मनः स्वं स्वं विषयग्रहणं प्रति इन्द्रियैः करणैस्तेजांसि संविवर्द्धन्ते प्रसरन्ति इत्यर्थः | प्. ६८) यथा स्नेहमिति पाठे तु व्यक्त एवार्थस्तथापि व्याख्यायते | प्रदीपस्य तेजो यथा स्नेहं विद्युतस्तेजो यथा मेघं बहुच्छिद्रपात्रावृतवह्नेर्यथा घृतं प्रति तेजः प्रसरति तथात्मनस्तेजांसि स्वं स्वं विषयग्रहणं प्रति प्रसरन्तीत्यर्थः | संविवर्द्धन्ते इति बहुवचननिर्देशादेकदापि बह्विन्द्रियैर्बह्वर्थग्रहणमिति सूचितम् | अतएव अन्तर्दृष्टिर्वहिरुपगतप्रेक्षणाच्छिन्नपाशः प्रौढोल्लासाधिगतपरमब्रह्मनिर्विघ्नचेताः | तत्तद्भावोदितमधुरगीः सुप्रसन्नान्तरात्मा स्मेरास्या मे भवतु सततं शाम्भवो काप्यवस्था || इत्यादि कुलयोगिनः प्रौढोल्लासप्रार्थना || अन्तर्दृष्टिर्वहिश्चक्षुरित्यादिवक्ष्यमाणकुलार्णववचनञ्च साधु सङ्गच्छते | वैष्णवैरप्युच्यते | पुङ्खानुपुङ्खविषये क्षणतत्परोऽपि धीरो न मुह्यति मुकुन्दपदारविन्दे | सङ्गीतनृत्यगतितालवशं गतापि मौलिस्थकुम्भपरिरक्षणधीर्नटीव | इत्यादि प्रत्यक्षसिद्धमपि कश्चिद् युगपद् गात्रं कण्डूयते एवं प्रेषयत्यपरं पश्यति च | एतेन युगपदुभयविषयकज्ञानं न मन्यामह इति केषाञ्चिम्मतं प्रशस्यमप्रशस्यं वा सुधीभिर्निपुणं विभाव्य विचारणीयमित्यास्तां विस्तरः | प्रकृतमनुसरामः | इन्द्रियेषु पञ्चभूतस्थितिप्रकारमाहुः प्रपञ्चसारे आचार्याः || नभःश्रोत्रेऽनिलश्चर्मण्यग्निश्चक्षुष्यथोदकम् | जिह्वायामवनी घ्राणे इत्थमर्थप्रवर्तनम् | नभ आकाशं अनिलो वायुरुदकं जलमवनी पृथ्वी | इदन्तु प्रधानतया उक्तम् | वस्तुतस्तु प्रागुक्तपञ्चीकरणरूपेण पञ्चस्वपि पञ्च भूतानि सन्तीति पुरैवोक्तम् | यदा पित्तं मरुन्नून्नं विलीनं प्रविलापयेत् | प्. ६९) धातुस्तदा क्रमाद्रक्तं लसौकां द्रावयेत् क्षणात् | द्रुता सा तुलसीकाह्वा रोमकूपैः प्रवर्द्धते | वहिः सर्वत्र कणशस्तथा स्वेदः प्रवर्तते | यदा कफो मरुत्पित्तनुन्नो लीनः प्रवर्तते | ऊर्ध्वद्रुतो द्रुतं वाष्पं प्रत्येकञ्च प्रवर्तते | कफात्मिका तु विकृतिः कर्णशष्कुलिपूरिका | गण्डमालादिकान् वापि कुर्याज्जन्तोस्तु कर्मजान् || शारदायाम् || इत्थं भूतस्तदा गर्भे पूर्वजन्मशुभाशुभम् | स्मरंस्तिष्ठति दुःखात्मा छन्नदेहो जरायुणा || शाक्तानन्दतरङ्गिण्याम् | नवमे मासि गर्भस्थः सर्वान् संस्मरते हृदा | नवद्वारपुरे देही समयान् गमयेच्छनैः | स्थितिप्रकारस्तु राघवभट्टधृते | कृताञ्जलिर्ललाटेऽसौ मातृपृष्ठमभिश्रितः | अध्यास्ते सङ्कुचद्गात्रो गर्भे दक्षिणपार्श्वगः | वामपार्श्वाश्रिता नाडीं क्लीवं मध्याश्रितं मतम् || विश्वसारे | योनिदेशोद्भवं रन्ध्रं नाभिमूलमतः परम् | गर्भाशयन्तु तं प्राहुः सर्वतन्त्रविदो जनाः | कललं तत्र तिष्ठेद्वै तत्र गर्भः प्रजायते | कर्मयोगात्मरूपेण निर्माणं विधिरादिशेत् || पूर्वार्जितकर्मफलं पूर्वपूर्वतरार्जितम् | जीवः प्रवेशनं कुर्यात् पूर्वकर्मबुभुक्षया | प्राक्तनकर्मफलं भोक्तुमिच्छया जीवोऽविद्योपाधिकः प्रवेशनं कुर्याद् गर्भ इति शेषः | पूर्वकर्मफलं किम्भूतं पूर्व पूर्वार्जितमित्यादि | अयमाशयः | कर्म त्रिविधं सञ्चितं प्रारब्धमागामि च | तत्र सञ्चितस्य प्रायश्चित्तौषधादिना नाशः | आगामिनश्च तपसा | अत एव दोषप्रागभावासमकालीनदोषध्वंसवन्तः शिष्टा इति गोपीनाथतर्काचार्येण शिष्टलक्षणं कृतम् | प्रारब्धस्य भोगं विना न गत्यन्तरमस्ति | अतस्तत्फलभोगाय गर्मे जीवप्रवेशमाह | उक्तञ्च प्रारब्धकर्मणां भोगादेव क्षय इति || शाक्तानन्दतरङ्गिण्याम् || सुकृतं दुष्कृतञ्चैव यत् कृतं पूर्वजन्मनि | तत् सर्वं सकलं ज्ञात्वा ऊर्ध्वपादस्त्वधोमुखः | गर्भे तु सम्प्रविष्टोऽसौ स्तिमिते घोरदर्शने || प्. ७०) स्तिमितेऽन्धकारे घोरदर्शने भयङ्करे | अभ्यस्यामि शिवं ज्ञानं संसारार्णवतारणम् | चिरयोगी ततो भूत्वा मुक्तो यास्यामि तत्पदम् | एवं गर्भस्थितो जीवो गर्भयातनयार्दितः | नित्यं भावयते चित्ते लब्धचैतन्यलक्षणः || विश्वसारे || इत्थम्भूतस्तदा गर्भः पूर्वजन्मशुभाशुभम् | क्षणं तिष्ठेत् स्मरंस्तत्र निश्चेष्टो भवति ध्रुवम् | शरीरे पञ्चाशदक्षरस्थितिं विना शब्दादिर्नं निर्गन्तुमाननतः शक्तोऽतः शब्दब्रह्मप्रादुर्भावः गर्भं तेषां स्थानमुक्तम् तत्रैव | पुरा कृतयुगे देवि | कैलासे पर्वतोत्तमे | त्वदीयपादयुगलं ध्यायेऽहं ध्यानयोगतः | मम सिद्धिर्भवेत्तत्र युगान्ते कमलानने ! | परानन्दमयस्तत्र हस्तवाद्यो ममाभवत् | तस्मिन्नेव क्षणे देवि ! शब्दब्रह्मविभूषितः | पटहश्चाभवत्तत्र ममानन्दविवृद्धये | शब्दार्थकात्मनादेन द्रव्ययोगेन शब्द्यते | पञ्चाशद्वर्णसंयुक्तं नादबिन्दुविभूषितम् | पञ्चाशद्वर्णसंयुक्ता मातृका चक्रसंस्थिता | षट्चक्राङ्धितमन्त्रा च मातृकान्तः शरीरिणाम् | आधारे लिङ्गनाभौ हृदयसरजिजे तालुमूले ललाटे द्वे पत्रे षोडशारे द्विदशदशदले द्वादशार्द्धे चतुष्के | वासान्ते बालमध्ये डफकठसहिते कण्ठदेशे स्वरांश्च हक्षौ कोदण्डमध्ये न्यसतु विमलधीर्न्याससम्पत्तिसिद्ध्यै | देहे चतुर्दशभुवनस्थानमुक्तम् शाक्तानन्दतरङ्गिण्याम् | पातालं भूधरा लोका आदित्यादिनवग्रहाः | भूधरादिसप्तस्वर्गाश्च नागाश्च सर्वदेहिनाम् | पिण्डमध्ये स्थिताः सर्वे स्थानं तेषां वदामि ते | पादाधस्तात्तलं विद्यात्तदूर्द्धं वितलन्तथा | जानुनोः सुतलञ्चैव अतलं सन्धिरन्ध्रके | तलातलं गुदमध्ये लिङ्गमूले रसातलम् | पातालं कटिसन्धौ च पादादौ लक्षयेद्बुधः | भूर्लोको नाभिदेशेच भुवोलोकस्तथा हृदि | स्वर्लोकः कण्ठदेशे च महर्लोकश्च चक्षुषि | जनलोकस्तदूर्द्धञ्च तपोलोको ललाटके | प्. ७१) सत्यलोको महायोनौ भुवनानि चतुर्दश | त्रिकोणे च स्थितो मेरुरूर्द्धकोणे च मन्दरः | कैलासो दक्षिणे कोणे वामकोणे हिमालयः | विन्ध्यो विष्णुस्तदूर्द्धे च सन्त्येते कुलपर्वताः | अस्थिस्थाने महेशानि ! जम्बुद्वीपो व्यवस्थितः | मांसेषु च कुशद्वीपः क्रौञ्चद्वीपः शिरासु च | शाकद्वीपः स्मृतो रक्ते प्राणिनां सर्वसन्धिषु | तदूर्द्धं शाल्मलिद्वीपः प्लक्षश्च लोमसञ्चये | नाभौ च पुष्करद्वीपः सागरस्तदनन्तरम् | लवणोदस्तथा मूत्रे शुक्रे क्षीरोदसागरः | मज्जा दधिसमुद्रश्च तदूर्द्धं घृतसागरः | वशापः सागरः प्रोक्त इक्षुः स्यात् कटिशोणितम् | शोणिते च सुरासिन्धुः कथिताः सप्त सागराः | ग्रहाणां मण्डलञ्चैव शृणु वक्ष्यामि पार्वति ! | नादचक्रे स्थितः सूर्यो बिन्दुचक्रे च चन्द्रमाः | लोचने मङ्गलः प्रोक्तो हृदि सोमसुतस्तथा | उदरे च गुरुश्चैव शुक्रे शुक्रस्तथैव च | नाभिस्थितोऽथ मन्दो वै मुखे राहुस्तथा स्थितः | पादौ पाणौ च केतुश्च शरीरे तीर्थमण्डलम् | विश्वसारे || शीर्षे मुखे तथा वाहौ हृदये चोदरे क्रमात् | कटौ वस्तौ च गुह्योरुजानुजङ्घाङ्घिषु स्थिताः | मेषाद्या राशयो देहे तेषां रूपाण्यतः शृणु | अरुणसितहरितपाटलपाण्डुविचित्राः सितेतरपिशङ्गौ | पिङ्गलकर्वुरकमलिनारुचयो यथासंख्यम् | हरितः श्यामलः | सितेतरः कृष्णः | पिशङ्गो नीलपीतमिश्रः | कर्वुरः प्रसिद्धः | वभ्रुः कपिलः || मेषं वृषं समिथुनं कर्कटं सिंहमेव च | कन्यां तुलां वृश्चिकञ्च धनुषं मकरं तथा | कुम्भं मीनं न्यसेद् गात्रे ओंकाराद्यं नमोऽन्वितम् || अश्विनी भरणी चैव कृत्तिका रोहिणी तथा | मृगशिरस्तथार्द्रा च पुनर्वसुरतः परम् | पुष्याश्लेषा मघा चैव पूर्वफल्गुन्यतः परम् | उत्तराफल्गुनी चैव हस्ता चित्रा ततः परा | स्वाती विशाखानुराधा ज्येष्ठा मूला ततः परा | प्. ७२) पूर्वाषाढा चोत्तरा च श्रवणाभिजितस्तथा | धनिष्ठा शतभिषा चैव पूर्वभाद्रपदा तथा | उत्तरभाद्रपदा चैव रेवत्यन्ताः समीरिताः | मूर्ध्नि भ्रुयुगले चाक्ष्णोः कर्णयोर्नसि गण्डयोः | ओष्ठयोर्दन्तपंक्तौ च जिह्वायां ग्रीवमूलके | स्तनद्वन्द्वे तथा वक्षःपार्श्वयोर्नाभिदेशके | नितम्बे च तथा पृष्ठे गुह्ये च पादयोः पुनः | पादमेकं द्विनक्षत्रं राशीनां परिणामकृत् | शरीरे राशिनक्षत्रकथनप्रयोजनन्तु प्रश्नकाले प्रष्टा यदङ्गे हस्तं दत्त्वा पृच्छति तदङ्गे यो राशिः पतितः तेन वर्णादिकं ज्ञातव्यम् इत्याभिप्रायः || श्रीविद्याया राशिन्यासो नक्षत्रन्यासश्चानेनैवोक्त इति || शाक्तानन्दतरङ्गिणीघृतज्ञानभाष्ये | शुक्रादुत्पद्यते रक्तं रक्ताद्बिन्दुसमुद्भवः | प्राणतो वायुरुत्पन्नः कालाग्निः स्यादपानतः | शुक्रतो नाभिरुत्पन्ना शुक्रादग्निसमुद्भवः | अपानात् कालाग्निर्जातो नाभिस्थानस्थो वडवाग्निरूपो य आहारं पचति शुक्रसम्भूता वायुपित्तकफधातुस्था दशाग्नय इति भेदेन वह्न्युत्पत्तिर्द्विरुक्ता | मांसतश्च मलोत्पत्तिर्मज्जा चापि ततो भवेत् | शुक्रेणोत्पादिता जिह्वा नासिका सप्त देहिनाम् | रक्तादुत्पद्यते नेत्रं वामञ्चैव तु दक्षिणम् | प्राणादुत्पद्यते शून्यं घ्राणरन्ध्रद्वयं तथा || तत्त्वसारे षष्ठपटले || ईश्वर उवाच | चन्द्रः सूर्यस्तथा वह्निः शरीरे दश नाडिकाः | देहस्था वायवः पञ्च मनो बिन्दुस्तथैव च | षट्चक्रं मेरुदण्डञ्च उड्डीयानं तथैव च | जालन्धरः कामरूपः पूर्णग्रीवः श्रीहट्टकः || निर्वाणतन्त्रे प्रथमपटले || जान्तोराकारं ब्रह्माण्डं नानावर्ष्म च पार्वति ! | ब्रह्माण्डं विग्रहं प्रोक्तं स्थूलसूक्ष्मादिकं हि तत् | मेरुपर्वतो मध्ये च देवि ! सप्त कुलाचलाः | मूलादिमस्तकान्तं हि सुमेरुर्नाम पर्वतः | स्थितो मेरोरधोभागे द्व्यङ्गुलञ्चोर्द्धदेशतः | भूर्लोकादि महेशानि ! सप्तसर्गं क्रमेण हि | द्व्यङ्गुलं सप्त पातालास्थिष्ठन्ति परमेश्वरीति | प्. ७३) तत्त्वसारे || प्रकृतिः पुरुषो देहे ब्रह्मा विष्णुः शिवस्तथा | नदाश्चैव समुद्राश्च भुवनानि चतुर्दश | ब्रह्माण्डे ये गुणाः सन्ति ते तिष्ठन्ति कलेवरे | तेषां सङ्क्षेपतः सर्वं प्रवक्ष्यामि शुचिस्मिते ! | मेरुपृष्ठे स्थितश्चन्द्रो द्विरष्टकलयान्वितः | अहर्निशं तुषाराभां धारां वर्षत्यधोमुखः | सुधांशुर्विविधस्रावी पीयूषबिन्दुरेव च | बिन्दुरत्नस्य मध्येन देहसिद्धिः प्रजायते | जवाकुसुमसङ्काशो वस्तिदेशे सुशोभने ! | शङ्खिनीमूलं संव्याप्य सूर्यस्तिष्ठति देहिनाम् | द्वादशकलया सूर्यो वह्निर्दशकलात्मकः | सर्वेषां देहिनां देहे सदा अन्नादिपाचकः | तुषारं वर्षते चन्द्रो रविः शुष्यति सर्वदा | संयोगेन स्थितः प्राणो वियोगे मरणं भवेत् | ऊर्द्ध्वं त्ववयवे रश्मिरधश्चन्द्रामृतं सदा | अभ्यासं कामरूपस्य योगं योगविदो विदुः | संयोगी च भवेद्योगी प्राणापानैकयोगतः | प्राणश्चन्द्रमयः प्रोक्तोऽपानः सूर्यमयस्तथा | अनयोः सङ्गमो मध्ये रजो रोगस्य साधनम् | उड्डीयानं दृढं बद्धा कुर्याद्रेचकपूरकौ | समानोदानयोर्योगः प्राणापानैकयोगतः | कामरूपे त्रिभिर्योगं प्राणापानसमानकैः || नाभिशक्तिद्वयोर्मध्ये उड्डीयानः स उच्यते | वस्तौ जालन्धरो ज्ञेयः कामरूपस्य गर्भके | पूर्णग्रीवो भ्रुवोर्मध्ये श्रीहट्टस्तालुकोपरि || तथा | नाभिमध्ये स्थितो ब्रह्मा हृदि मध्ये च केशवः | शङ्करः शिरसि ज्ञेयस्त्रिस्थानं मुक्तिदायकम् || इति शरीरे तीर्थादिकथनम् || शाक्तानन्दतरङ्गिण्याम् || एतस्मिन्नन्तरे देवि ! विश्वेषां गर्भसङ्कटे | नवमे दशमे मासि प्रबलैः सूतिमारुतैः | निःसार्यते वाण इव जन्तुश्छिद्रेण सज्वरः | पीडार्दितः इत्यर्थः | पातितोऽपि न जानाति मूर्च्छितोऽपि ततश्चपतिम् | सूतिवातस्य वेगेन योनिरन्धस्य पीडनात् | विस्मृतं सकलं ज्ञानं गर्भे यच्चिन्तितं हृदि || तत्र पापिनां जन्मसमये पीडाधिक्यं तदुक्तम् प्रपञ्चसारे द्वितीयपटले || प्. ७४) अथ पापकृतां शरीरभाजामुदरान्निष्क्रमितुं महान् प्रयासः | नलिनोद्भवधीर्विचित्रवृत्ता नितरां कर्मगतिस्तु मानुषाणाम् | नलिनोद्भवस्य ब्रह्मणः | जायतेऽधिकसद्विग्नो जृम्भतेऽङ्गैः प्रकम्पितैः | यात्युल्वणं निश्वसिति भीत्या रोदितुमिच्छति | मूलाधारात् प्रथममुदितो यस्तु तारः पराख्यः पश्चात् पश्यत्यथ हृदयगो बुद्धियुङ्मध्यमाख्यम् | वक्त्रे वैखर्यथ रुरुदिषोर्यस्य जन्तोः सुषुम्नाबद्धस्तस्माद्भवति पवनप्रेरितो वर्णसङ्गः | जन्मानन्तरबालकरोदनस्याप्यव्यक्तवर्णात्मकत्वात् वर्णोत्पत्तिप्रकारं वदन् कुण्डलिनीतः सामान्यतः सववर्णानामुत्पत्तिं दर्शितवान् | श्रोतोमार्गस्याविभक्तत्वहेतोस्तत्रार्णानां जायते न प्रकाशः | तावद् यावत्कण्ठमूर्द्धादिभेदो वर्णव्यक्तिस्थानसंस्था यतोऽतः | जातोऽस्मीति यदा भावो मनोऽहङ्कारबुद्धिमान् | जातश्चित्पूर्वको जन्तोः स्वभावः क्रमवर्द्धितः | बध्नाति मातापित्रोस्तु ततो बन्धुषु च क्रमात् | स पीत्वा बहुशं स्तन्यं मातरं स्तनपायिनीम् | न रोदिति च तांवीक्ष्य तत्र स्यादितरेतरम् || शाक्तानन्दतरङ्गिण्यां || पञ्चैतान्यपि सृज्यन्ते गर्भस्थस्यैव देहिनः | आयुः कर्म च वित्तञ्च विद्या निधनमेव च | बालकश्च शिशुश्चैव गण्डः कैशोरकस्तथा | अतः परन्तु युवकः प्रौढश्चैव ततः परम् | अतिप्रौढस्तथा वृद्धस्त्वतिवृद्धस्ततः परम् | पलितं मरणञ्चैव अवस्थाः परिकीर्त्तिताः || इत्येकादशावस्थाकथनम् || मरणानन्तरमपि तत्रैव || ततः स नरके याति स्वर्गे वा स्वेन कर्मणा | देवत्वमथ मानुष्यं पशुत्वं पक्षितां तथा | कृमित्वं स्थावरत्वञ्च जायते जन्म्कर्मभिः || तथा | कर्मणा जायते जन्तुः कर्मणैव प्रलीयते | देहे विनष्टे तत्कर्म पुनर्देहं प्रपद्यते | यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् | तथा शुभाशुभं कर्म कर्तारमनुगच्छति | नन्वाशु विनाशिनः कथं कर्मणोऽमुत्र भोग इति सन्देहस्य निरसनाय सदृष्टान्तमुक्तम् कुलार्णवे पञ्चमखण्डे प्रथमोल्लासे || प्. ७५) इह यत् क्रियते कर्म तत्परत्रोपभुज्यते | सिक्तमूलस्य वृक्षस्य फलं शाखासु दृश्यते इति || इति श्रीप्राणतोषिण्यां प्रथमकाण्डे मनुष्यजन्मकथनं नाम पञ्चमः परिच्छेदः | प्रस्तुतं वर्णोत्पत्तिप्रकारं क्रमेण दर्शयति प्रपञ्चसारे || अवैशद्यान्मुखश्रोतोमार्गस्याविशदाक्षरम् | अप्यव्यक्तं प्रलपति यदा सा कुण्डली तदा | मूलाधारे विष्वनति सुषुम्नां वेष्टते मुहुः | मुखश्रोत्रमार्गस्यावैषम्यादनैर्मूल्याद्धेतोर्यदा सा कुण्डली अविशदाक्षरमविस्पष्टमक्षरं यत्राव्यक्ते ध्वनाविति शेषस्तं प्रलपति अर्थात् कलभाषणादिकं करोति तदा मूलाधारे विष्वनति शब्दायते सुषुम्नाञ्च मुहुर्वेष्टते इत्यन्वयः | कुण्डलीस्वरूपमुक्तम् शारदातिलके || ततश्चैतन्यरूपा सा सर्वगा विश्वरूपिणी | शिवसन्निधिमागत्य नित्यानन्दगुणोदया || तिष्ठतीति परेणान्वयः | शिवसन्निधीत्यनेन शक्तिशब्दवाच्येयमित्यायातम् अतः स्त्रीलिङ्गेन विशेषणानि | यद्यपि शिवशक्त्योरेकात्मकत्वेनाभेदस्तथापि काल्पनिकं भेदमुरीकृत्य शिवसन्निधीत्युक्तम् || तदुक्तमभिनवगुप्तपादाचार्यैः || शक्तिश्च शक्तिमद्रूपाद्व्यक्तिरूपेण वाञ्छति | तादात्म्यमनयोर्नित्यं वह्निदाहिकयोरिव | गुणा नामुदयो यस्यां नित्यानन्दा चासौ गुणोदया चेति सा | दिक्कालाद्यनवच्छिन्ना सर्वा सर्वार्थगा शुभा | परापरविभागेन परा शक्तिरियं मता | काचन परशक्तिः काचनापरशक्तिस्तद्विभागेनापीयं परशक्तिरेव || तदुक्तं भगवद्गीतायाम् | भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च | अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा | अपरेयमिति त्वन्यां प्रकृतिं विद्धि मे पराम् | जीवभूतां महावाहो ! ययेदं धार्यते जगत् || शारदायम् || प्. ७६) योगिनां हृदयाम्भोजे नृत्यन्ती नृत्यमञ्जसा || अञ्जसा तत्त्वेनेत्यर्थः || आधारे सर्वभूतानां स्फुरन्ती विद्युदाकृतिः | आधारे मूलाधारे भूतानां जन्तूनाम् || शङ्खावर्तक्रमाद्देवी सर्वमावृत्य तिष्ठति | शङ्खमध्ये य आवर्त्तः स यथा शङ्खमावृत्य तिष्ठति तद्वदियमपि सर्वं शिवमावृत्य तिष्ठतीत्यर्थः | कुण्डलीभूतसर्पाणामङ्गश्रियमुपेयुषी | सर्ववेदमयी देवी सर्वमन्त्रमयी शिवा | सर्वतत्त्वमयी साक्षात् सूक्ष्मात् सूक्ष्मतरा विभुः | विभुः इयत्तया ज्ञातुमशक्या | त्रिधामजननी देवी शब्दब्रह्मस्वरूपिणी | त्रिधामेति चन्द्रसूर्याग्निरूपा | द्विचत्वारिंशद्वर्णात्मा पञ्चाशद्वर्णरूपिणी || द्विचत्वारिंशदिति भूतलिपिमन्त्रमयी | पञ्चाशदिति मातृकामयीत्यर्थः | गुणिता सर्वगात्रेण कुण्डली परदेवता ! विश्वात्मना प्रबुद्धा सा सूते मन्त्रमयं जगत् | सर्वगात्रेण सर्ववर्णेन गुणिता परस्परमिलिता सती मन्त्रमयं जगत् सूते प्रकाशयतीत्यन्वयः || मूलाधारे सर्पवत् कुण्डलीभूता नाडी वर्तते तन्मध्यस्थायित्वादियं कुण्डली | एकधा गुणिता शक्तिः सर्वविश्वप्रवर्तिनी | सर्वविश्वेत्युभयोपादानात् शब्दार्थरूपोभयोत्पादिकेति सूचितम् || वेदादिबीजं श्रीबीजं शक्तिबीजं मनोभवम् || प्रासादं तुम्बुरुं पिण्डं चिन्तारत्नं गणेश्वरम् | मार्तण्डभैरवं दौर्गं नारसिंहं वराहजम् | वासुदेवं हयग्रीवं बीजं श्रीपुरुषोत्तमम् | अन्यान्यपि च वीजानि तदोत्पादयति ध्रुवम् | यदा भवति सा संविद्द्विगुणीकृतविग्रहा | संहवर्णौ परात्मानौ शब्दार्थौ वासरक्षपे | सृजत्येषा परा देवी तदा प्रकृतिपुरुषौ | यद्यदन्यज्जगत्यस्मिन् युगं तत्तदजायत | त्रिगुणीकृतसर्वाङ्गी चिद्रूपा शिवगेहिनी | प्रसूते त्रैपुरं मन्त्रं मन्त्रं शक्तिविनायकम् | पाशाद्यं त्र्यक्षरं मन्त्रं त्रैपुटं चण्डनायकम् | सौरं मृत्युञ्जयं शक्तिं शाम्भवं विनतासुतम् | प्. ७७) वागीशी त्र्यक्षरं मन्त्रं नीलकण्ठं विषापहम् | मन्त्रं त्रिगुणितं देव्या लोकत्रयगुणत्रयम् | धामत्रयं सा वेदानां त्रयं वणत्रयं शुभा | त्रिपुष्करं स्वरान् देवी ब्रह्मादीनां त्रयं त्रयम् || त्रिपुष्करमिति ज्येष्ठमध्यमकनिष्ठत्वेन तीर्थत्रयम् | स्वरानिति उदात्तानुदात्तसमाहारान् || वह्नेः कालत्रयं शक्तेस्त्रयं वृत्तित्रयं महत् | नाडीत्रयं त्रिवर्गं सा यद्यदन्यत्त्रिधा मतम् || प्रपञ्चसारे द्वितीयपटलेऽपि || द्विचतुःपञ्चषट्सप्त चाष्टौ च दश एव च | तथा द्वादशपञ्चाशद्भेदेन गुणयेत् क्रमात् | यदा यदा त्रिगुणयेत्तदा त्रिगुणता विभुः | शक्तिः कालाग्निनादात्मा गूढमूर्तिः प्रतीयते | तदा तां तारमित्याहुर्व्योमात्मेति बहुश्रुताः | तामेव शक्तिं ब्रुवते हरेत्यात्मिति चापरे | त्रिगुणा सा त्रिदोषा सा त्रिवर्णा सा त्रयी स चा | त्रिलोका सा त्रिमूर्तिः सा त्रिरेखा सा विशिष्यते | एतेषां तारणात्तारः शक्तिस्तद्धृतशक्तितः | यदा चतुर्धा गुणिता सूक्ष्मादिस्थानचारिका | वाचिका जाग्रदादीनां करणानाञ्च सा तदा | सा यदा पञ्चगुणिता पञ्चपञ्चविभेदिनी | पञ्चानामक्षराणाञ्च वर्णानां मरुतां तथा | मरुतां प्राणादीनां || गुणिता सा यदा षोढा कोषोमिरसभेदिनी | तदा षड्गुणिताख्यस्य चन्द्रस्य च विभेदिनी | यदा सा सप्तगुणिता तारहृल्लेखयोस्तथा | भेदैरहाद्यैः शान्तान्तैर्विद्यते सप्तभिः पृथक् | अकारश्चाप्युकारश्च मकारो बिन्दुरेव च | नादः शक्तिंश्च शान्तिश्च तारभेदाः समीरिताः | हकारो रेफमाये च बिन्दुनादौ तथैव च | शक्तिशान्तौ च सा प्रोक्ताः शक्तेर्भेदाश्च | अङ्गेभ्योऽस्यान्तु सप्तभ्यः सप्तधा भिद्यते जगत् | लोकाद्रिद्वीपपातालसिन्धुग्रहमुनीश्वरैः | धात्वादिभिस्तथान्यैश्च सप्तसंख्याप्रभेदकैः | यदाष्टधा सा गुणिता तदा प्रकृतिभेदिनी | प्. ७८) दशधा गुणिता नाडी मर्माशादिविभेदिनी | द्वादशादिक्यापि यदा तदा राश्यर्कमूर्तियुक् | मन्त्रञ्च द्वादशार्णाख्यमभिधत्ते स्वरानपि | तत्संख्यञ्च तदा मन्त्रं शक्तिस्तद्गुणितात्मकम् | पञ्चाशद्धाप्रगुणिता पञ्चाशद्वर्णभेदिनी | पञ्चाशदंशगुणिताथ यदा भवेत् सा देवी तदात्मविनिवेशितदिव्यभावा | सौषुम्नवर्त्मशुषिरोदितनादसङ्गात् पञ्चाशदीरयति पंक्तिश एव वर्णान् | सुषुम्नापथरन्ध्रोद्गतध्वनेः सङ्गात् सा शक्तिः पञ्चाशतं वर्णान् प्रेरयतीत्यर्थः || शारदायाम् || चतुःप्रकारगुणिता शाम्भवी शर्मदायिनी | तदानीं पद्मिनीबन्धोः करोति चतुरक्षरम् | चतुष्टयं गणेशानामात्मादीनां चतुष्टयम् | ओजापूजादिकं पीठं धर्मादीनां चतुष्टयम् | दलकादीन् गजान् देवि ! यद्यदन्यच्चतुष्टयम् | पञ्चधा गुणिता पत्नी शम्भोः सर्वार्थदायिनी | त्रिपुरा पञ्चकूटं सा तस्याः पञ्चाक्षरद्वयम् | पञ्चरत्नं महादेव्या सर्वकामफलप्रदम् | पञ्चाक्षरं महेशस्य पञ्चवर्णं गरुत्मतः | सम्मोहनान् पञ्च वाणान् कामान् पञ्च सुरद्रुमान् | पञ्च प्राणादिकान् वायून् पञ्च वर्णान् महेशितुः | मूर्तिः पञ्चकलाः पञ्च पञ्च ब्रह्म ऋचः क्रमात् | सृजत्येषा परा शक्तिर्वेदवेदार्थरूपिणी | षोढा सा गुणिता देवी धत्ते मन्त्रं षडक्षरम् | षट्कूटं त्रिपुरामन्त्रं गाणपत्यं षडक्षरम् | षडक्षरं हिमरुचेर्नारसिंहं षडक्षरम् | ऋतून् वसन्तमुख्यान् षडामोदादीन् गुणाधिपान् | कोषानूर्मात्रसान् शक्तीर्डाकिन्याद्याः षडध्वनः | यन्त्रं षड्गुणितं शक्तेः षडाधारन्जीजनत् | षड्विधं यज्जगत्यस्मिन् सर्वं तत् परमेश्वरी | सप्तधा गुणिता नित्या शङ्खरार्द्धशरीरिणी | सप्तार्णं त्रिपुरामन्त्रं सप्तवर्णं विनायकम् | सप्तकं व्याहृतीनां सा सप्तवर्णं सुदर्शनम् | लोकान् गिरीन् सुरान् धातून् मुनीन् सप्त ग्रहान् द्विपान् | प्. ७९) समिधः सप्त संख्याताः सप्त जिह्वा हविर्भुजः | अन्यं सप्तविधं यद् यद् तत्तदस्यामजायत | अष्टधा गुणिता शक्तिः शैवमष्टाक्षरद्वयम् | अष्टाक्षरं हरेः शक्तेरष्टा क्षरद्वयं परम् | भानोरष्टाक्षरं दौर्गमष्टार्णं परमात्मनः | अष्टार्णं नीलकण्ठस्य वासुदेवात्मकं मनुम् | यन्त्रं कामार्गलं दिव्यं देवीयन्त्रं घटार्गलम् | गन्धाष्टकं शुभं देवीदेवानां हृदयङ्गम् | ब्राह्म्याद्या भैरवान् सर्वान् मूर्त्तीराशा वसूनपि | अष्टपीठं महादेव्या अष्टाष्टकसमन्वितम् | चाष्टौ सा प्रकृतिर्विघ्नवक्रतुण्डादिकान् क्रमात् | अणिमादिगुणानागान् वह्नेर्मूर्त्तीर्यमादिकान् | अष्टात्मकं जगत्यन्यं सर्वं वितनुते तदा | नवधा गुणिता नित्या सूते मन्त्रं तदात्मकम् | नवकं शक्तितत्त्वानां तत्त्वरूपा महेश्वरी | नवकं पीठशक्तीनां शृङ्गारादीन् रसान्नव | माणिक्यादीनि रत्नानि नव वर्गयुतानि च | नवकं प्राणदूतीनां मण्डलं नवकं शुभम् | यद् यन्नवात्मकं लोके सर्वमस्यामुदञ्चति | दशधा विकृता शम्भोर्भाविनी भवदुःखहा | दशाक्षरी गणपतेस्त्वरिताया दशाक्षरम् | त्रिपुरा दशकूटं सा त्रिपुराया दशाक्षरम् | दशाक्षरं सरस्वत्या यक्षिण्याः सा दशाक्षरम् | वासुदेवात्मकं मन्त्रमश्वारूढादशाक्षरम् | नाम्ना पद्मावतीमन्त्रं वायुमन्त्रं दशाक्षरम् | दशकं शक्तितत्त्वानां तत्त्वरूपा महेश्वरी | नारीणां दशकं विष्णोरवतारान् दश क्रमात् | दशकं लोकपालानां यद् यदन्यत् सृजत्यसौ | एकादश क्रमात् संविद्गुणिता सा जगन्मयी | रुद्रैकादशिनीमाद्यशक्तेरेकादशाक्षरम् | एकादशाक्ऽरं वाण्या रुद्रानेकादश क्रमात् | समुद्गिरति सर्वज्ञा गुणिता द्वादश क्रमात् | नित्यामन्त्रं महेशाद्या वासुदेवात्मकं मनुम् | राशीन् भानून् हरेर्मूर्तीर्यन्त्रं सद्वादशात्मकम् | अन्यदेतादृशं सर्वं यत्तदस्यामजायत || प्. ८०) राघवभट्टधृतपदार्थादर्शे | त्रयोदशधा गुणिता वागीश्वर्यश्वारूढामन्त्रं विश्वेदेवादिकञ्च | चतुर्दशा गुणिता वासुदेवगोपालमन्त्रभुवनादिकम् | पञ्चदशधा गुणिता नित्या शूलिनो मन्त्रतिथ्यादिकम् | षोढशधा गुणिता चक्रमन्त्रस्वरकलादिकम् | स्वरेति अकारादिविसर्गान्तम् | सप्तदशधा गुणिता लघु पञ्चमी ताराविद्यामन्त्रादिकम् | ऊनविंशतिधा कृष्णधरामन्त्रादिकम् | विंशतिधा गुणिता रत्नधारोमामहेश्वरमन्त्रादिकम् | एकविंशतिधा गुणिता बहुकनाममन्त्रयन्त्रादिकम् | द्वाविंशतिधा गुणिता कृष्णान्नाधिपतिसुमुखीमन्त्रादिकम् | त्रयोविंशतिधा गुणिता लघुश्यामापुरुषोत्तमहृदयङ्गममन्त्रादिकं सूते इति || शारदायाम् || चतुर्विंशतितत्त्वात्मा तदा भवति शोभना | गायत्री सवितुः शम्भोर्गायत्री नदनात्मिका | गायत्री विण्षुगायत्री गायत्री त्रिपुरात्मनः | गायत्री दक्षिणामूर्तेर्गायत्री शम्भुयोषितः | चतुर्विंशतितत्त्वानि तस्यामासन् परात्मनि | तत्राप्यन्यदिति ज्ञेयम् || द्वात्रिंशद्भेदगुणिता सर्वमन्त्रमयी विभुः | सूते मृत्युञ्जयं मन्त्रं नारसिंहं महामनुम् | लवणाद्यं महामन्त्रं वरुणस्य महात्मनः | हयग्रीवमनुं दौर्गं वाराहं वह्निनायकम् | गणशितुर्महामन्त्रं मन्त्रं सेनाधिपस्य सा | मन्त्रं श्रीदक्षिणामूर्तेर्मालामन्त्रं मनोभुवः | त्रिष्टुभं वनवासिन्या अघोराख्यं महामनुम् | मन्त्रं सा देवकीसूनोर्मन्त्रं श्रीपुरुषोत्तमम् | श्रीगोपालमनुं भूर्ममनुं तारामनुं क्रमात् | महामन्त्रं महालक्ष्म्या मन्त्रं भूतेश्वरस्य सा | क्षेत्रपालात्मकं मन्त्रं मन्त्रमापन्निवारकम् | सूते मातङ्गिनीं विद्यां सिद्धिविद्यां शुभोदयाम् | अनेन क्रमयोगेन गुणिता शिववल्लभा | षट्त्रिंशत्पञ्चतत्त्वानि शैवानि रचयत्यसौ | अन्यान्मन्त्रांश्च यन्त्राणि शुभदानि प्रसूयते | प्. ८१) अत्र प्रकरणे सूते अजीजनदित्यादि यदुक्तं तत् प्रकाशकत्वाभिप्रायेण प्रतीत्यभिप्रायेण वा | अन्यथा सर्ववेदमयीत्यादि प्रागुक्तमनुपपन्नं स्यात् | सर्वेषां मातृकारूपकुण्डल्यवयवात्मकत्वेन जन्मादि विरुद्धमिति सुधीभिः सुनिपुणेन मानसेन विवेचनीयम् | अक्षरोत्पत्तिक्रममाहुः शारदायामाचार्याः || द्विचत्वारिंशता मूले गुणिता विश्वनायिकाः | सा प्रसूते कुण्डलिनी शब्दब्रह्ममयी विभुः | शक्तिं ततो ध्वनिस्तस्मान्नादस्तस्मान्निबोधिका | ततोऽर्द्धेन्दुस्ततो बिन्दुस्तस्मादासीत् परा ततः || मूले मूलाधारे द्विचत्वारिंशता गुणिता विश्वनायिका कुण्डलिनी अनेन क्रमेण अकारादिसकारान्तां द्विचत्वारिंशदात्मिकां भूतलिपिमन्त्रात्मिकां वर्णमालिकां सूते इत्यन्वयः | क्रममाह शक्तिमिति | सा कुण्डलिनी शक्तिं सूते ततः शक्तेर्ध्वनिरासीदिति योजना | ततो ध्वनेरित्यादि ज्ञेयम् | अयञ्च क्रमः सर्वाक्षरोत्पत्तौ सैव सत्त्वप्रविष्टा रजोऽनुविद्धा सती ध्वनिशब्दवाच्या अक्षरावस्था सैव तमोऽनुविद्धा नादशब्दवाच्या अव्यक्तावस्था सैव तमःप्राचुर्यान्निबोध्किकाशब्दवाच्या सैव तत्त्वभयप्राचुर्यादर्द्धेन्दुशब्दवाच्या उक्तञ्च पदार्थादर्शे | इच्छाशक्तिबलोद्घुष्टो ज्ञानशक्तिप्रदीपकः | पुंरूपिणी च सा शक्तिः क्रियाख्या सृजति प्रभुः | असावेव बिन्दुः स्थानान्तरगतः पराद्याख्यो भवति | पश्यन्ती मध्यमा वाची वैखरी शब्दजन्मभूः || तत्र परा मूले पश्यन्ती स्वाधिष्ठाने मध्यमा हृदये वैखरी मुखे | तदुक्तं पदार्थादर्शे || सुक्ष्मा कुण्डलिनी मध्ये ज्योतिर्मात्रास्वरूपिणी | अश्रोत्रविषया तस्मादुद्गच्छत्यूर्द्ध्वगामिनी | स्वयंप्रकाशा पश्यन्ती सुषुम्नामाश्रिता भवेत् | सैव हृत्पङ्कजं प्राप्य मध्यमा नादरूपिणी | प्. ८२) ततः सञ्जल्पमात्रा स्यादविभक्तोर्द्धगामिनी | सैवोरः कण्ठतालुस्था शिराघ्राणवदस्थिता | जिह्वामूलोष्ठनिर्धूतसर्ववर्णपरिग्रहा | शब्दप्रपञ्चजननी श्रोत्रग्राह्या तु वैखरी | इच्छाज्ञानक्रियात्मासौ तेजोरूपा गुणात्मिका | क्रमेणानेन सृजति कुण्डली वर्णमालिकाम् | अकारादिसकारान्तां द्विचत्वारिंशदात्मिकाम् | पञ्चाशद्द्वारगुणिता पञ्चाशद्वर्णमालिकाम् | सूते तद्वर्णतो भिन्नाः कला रुद्रादिकान् क्रमात् | कला रुद्राश्च पूर्वोक्ताः | आदिशब्देन पञ्चाशत्कामाः कामशक्तयो गणेशास्तच्छक्तयः क्षेत्रपालाश्चोक्ताः | कामनामानि राघवभट्टधृतानि यथा || कामकामदकान्ताश्च कान्तिमान् कामगस्तथा | कामचारश्च कामी च कामुकः कामवर्द्धनः | रामो रमश्च रमणो रतिनाथो रतिप्रियः | रात्रिनाथो रमाकान्तो रममाणो निशाचरः | नन्दको नन्दनश्चैव नन्दी नन्दयिता पुनः | पञ्चवाणो रतिसखः पुष्पधन्वा महाधनुः | भ्रामणो भ्रमणश्चैव भ्रममाणो भ्रमोऽपरः | भ्रान्तश्च भ्रामको भृङ्गी भ्रान्ताचारो भ्रमावहः | मोहनो मोहको मोहो मोहवर्द्धन एव च | मदनी मन्मथश्चैव मातङ्गी भृङ्गनायकः | गायनी गीतिजश्चैव नर्तकः खेलकस्तथा | उन्मत्तो मत्तकश्चैव विलासो लोभवर्द्धनः | दाडीमीकुसुमाभश्च वामार्द्धे शक्तिसंयुतः | सौम्या रक्ताम्बराः सर्वे पुष्पवाणाक्षकार्मुके | विभ्राणाः सर्वभूषाट्याः कामाः पञ्चाशदीरिताः || तच्छक्तिनामानि च तत्रैव || रतिः प्रीतिः कामिनी च मोहिनी कमलप्रिया | विलासिनी कल्पलता श्यामला च शुचिस्मिता | विस्मिताक्षी विशालाक्षी लेलिहाना दिगम्बरी | वामा कुब्जाधरा नित्या कल्याणी मोहिनी तथा | मदना च सुरश्रेष्ठा लापिनी मर्दिनी तथा | कलहप्रिया तथैवकाक्षी सुमुखी नलिनी ततः | जयिनी पालिनी चैव शिवा मुग्धा सविभ्रमा | प्. ८३) चारुनेत्रा सुलोला च दीर्घजिह्वा रतिप्रिया | लोलाक्षी शृङ्गिणी चैव पावना मादना तथा | माला च हंसिनी विश्वतोमुखी नन्दिनी तथा | रमणी च तथा कान्तिः कलकण्ठी वृकोदरी | मेघश्यामा रुषोन्मत्ता एकपञ्चादशीरिताः | शक्तयः कुङ्कुमनिभाः सर्वाभरणभूषिताः | नीलोत्परकरा ध्येयास्त्रैलोक्याकर्षणक्षमा इति || पञ्चाशद्गणेशास्तच्छक्तयश्च तत्रैव | विघ्नेशो विघ्नराजश्च विनायकशिवोत्तमौ | विघ्नहृद्विघ्नकर्ता च गणैकद्विसुदन्तकाः | गजवक्त्रनिरञ्जनौ कपर्दी दीर्घजिह्वकः | शङ्कुकर्णश्च वृषभध्वजश्च गणनायकः | गजेन्द्रः सूर्यकर्णश्च स्यात् त्रिलोचनसंज्ञकः | लम्बोदरमहानन्दौ चतुर्मूर्तिसदाशिवौ | अमोघदुर्मुखौ चैव सुमुखश्च प्रमोदकः | एकपादो द्विजिह्वश्च सूरवीरशिवामुखाः | वरदो वामदेवश्च वक्रतुण्डो द्विरण्डकः | सेनानीर्ग्रामणीर्मत्तो विमत्तो मत्तवाहनः | जटी मुण्डी तथा खड्गी वरेण्यो वृषकेतनः | भक्ष्यप्रियो गणेशश्च मेघनायकसंज्ञकः | व्यापी गणेश्वरः प्रोक्तः पञ्चाशद्गणपा इमे | तरुणारुणसङ्काशा गजवक्त्रास्त्रिलोचनाः | पाशाङ्कुशवराभीतिहस्ताः शक्तिसमन्विताः || ह्रीः श्रीश्च पुष्टिः शान्तिश्च क्षान्तिश्चैव सरस्वती | स्वाहा मेधा कान्तिकामिन्यो मोहिन्यपि वै नटी | पार्वती ज्वलिनी नन्दा सुयशाः कामरूपिणी | उग्रतेजोवती सत्या विघ्नेशानी सुरूपिणी || कामदा मद जिह्वा च भूतिः स्याद्भौतिका सिता | रमा च महिषी प्रोक्ता भञ्जिनी च विकर्णया | भ्रूकुटिः स्यात्तथा लज्जा दीर्घघोणा धनुर्द्धरा | यामिनी रात्रिसंज्ञा च कामान्धा च शशिप्रभा | लोलाक्षी चञ्चला दीप्तिः शुभगा दुर्भगा शिवा | गर्भा च भगिनी चैव भोगिनी सुभगा मता | कालरात्रिः कालिका च पञ्चाशच्छक्तयः स्मृताः | सर्वालङ्करणोद्दीप्ताः प्रियाङ्कस्थाः सुशोभना | प्. ८४) रक्तोत्पलकरा ध्येया रक्तमाल्याम्बरारुणाः | इत्येकोनपञ्चाशद्गणेशशक्तयः | एकोनपञ्चाशत् क्षेत्रपालाश्च क्षेत्रपालप्रकरणे प्रयोगसारे || भेदा एकोनपञ्चाशत् क्षेत्रपालस्य कीर्तिताः | मातृकावीजभेदेन सम्भिन्ना नामभेदतः | अजरश्चापकुम्भश्च इन्द्रस्तुतिस्ततः परम् | इडाचारश्चोक्तसंज्ञ उष्माद ऋषिसूदनः | समुक्तो लुप्तकेशश्च क्षेपकश्चैकदंष्ट्रकः | ऐरावतश्चौघबन्धूरोगाधीशस्तथैव च | अञ्जनश्चास्त्रवारश्च कवलः खरुखानलः | चामुख्यश्चैव घण्टादोङ्मनश्च चण्डवारणः | छटाटोपो जटालाख्यो ऋद्धीवश्च जडश्चरः | टङ्कपाणिस्तथा चान्यष्ठानबन्धुश्च डामरः | ढक्वावारोणवाणश्च तडिद्देहः स्थिरस्तथा | दन्तुरो धनदश्चाप्यनत्तिक्तान्तः प्रचण्डकः | फट् कारो वीरसङ्घश्च शृङ्गाख्यो मेघभामुरः | युगान्तो चौह्यवश्चाथ लम्बोष्ठी वसवस्तथा | शुकनन्दः षडालाख्यः शुनानाहं वृकस्तथा | एते भेदाः समाख्याता मातृकाक्षरयोनिकाः | क्षेत्रपालकथनप्रयोजनमुक्तम् तत्रैव || नामपद्यस्य वर्णानां यो वर्णो मातृकान्तरे | दृश्यते प्रथमं तत्र तत्रायं क्षेत्रपालकः | तत्र तत्र विशिष्टात्मा भेदैरेतैर्व्यवस्थितः | ततो विशिष्टो यष्टव्यः क्षेत्रपालस्तु सर्वतः | क्षेत्रपालमसम्पूज्य यः कर्म कुरुते क्वचित् | तस्य कर्मफलं हन्ति क्षेत्रपालो न संशयः | इति एकोनपञ्चाशत्क्षेत्रपालकथनम् | वैखरीसृष्टिं वक्तुमारभते || शारदायां द्वितीयपटले || ततो व्यक्तिं प्रवक्ष्यामि वर्णानां वदने नृणाम् | प्रेरिता मरुता नित्यं सुषुम्नारन्ध्रनिर्गताः | कण्ठादिकरणैर्वर्णाः क्रमादाविर्भवन्ति ते | नृणां वदने वर्णव्यक्तिं वर्णप्रकाशकारणं वक्ष्यामीत्यन्वयः | ननु | पञ्जरे शुकसारङ्गपतगाः पक्षियोनयः | गृह्णन्ति साधुसंसर्गान्मन्नाम मङ्गलं महत् | इति रुद्रजामलोत्तरखण्डप्रथमपटलोक्तवचनेन पक्षिणामपिवर्णोच्चारणदर्शनात् | प्. ८५) महाभारतादावपि हंसकाकीयोपाख्यानादिनास्तस्य सुस्पष्टावगमात् पक्षिपठनस्य प्रत्यक्षसिद्धत्वाच्च कथं नृणामित्युक्तमिति चेत् सत्यं प्रायिकत्वेन मनुष्यस्य प्रकरणबललब्धत्वेन वा नृणामित्युक्तं न तु पक्ष्यादिव्यावर्तनाय | यद्वा नृणामिति बहुवचननिर्देशाद्वर्णोच्चारणार्हगणो लभ्यते अतो न कश्चिद्दोष इति वर्णव्यक्तिप्रकारमाह प्रेरिता इत्यादि || मरुता प्रेरिताः पश्यन्तीस्थानं प्रापिता उत्पत्त्युन्मुखीकृताः | सुषुम्नारन्ध्रनिर्गताः कण्ठादिकरणैः क्रमादाविर्भवन्ति इति सम्बन्धः | एकदोच्चारणाभावात् क्रमादित्युक्तं तदुक्तं भर्तृहरिणा || आत्मा बुद्ध्या समर्थ्यार्थान् मनोयुक्ते विवक्षया | मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् | मारुतस्तूरसि चरन् मन्द्रं जनयति ध्वनिमिति || कण्ठादीत्यादिशब्देन ताल्वादि || तथाच शिक्षासूत्रम् || अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा | जिह्वामूलञ्च दन्ताश्च नासिकौष्ठौ च तालु चेति | पञ्चांशन्मातृकावर्णोच्चारणं गुरुतोऽभ्यसेदिति वक्ष्यमाणवचनेन मनुष्यस्य वर्णोच्चारणेऽपि गुरुरूपसाधुसंसर्गः पक्षिणामिव कारणात्मकत्वेनावधार्यः | पूर्वस्मिन् वर्णानां सोमसूर्याग्निरूपत्वं सामान्यत उक्तम् | अधुना तद्विशेषयति शारदायाम् | एषु स्वराः स्मृताः सौम्याः स्पर्शाः सौराः शुभोदयाः | आग्नेया व्यापकाः सर्वे सोमसूर्याग्निरूपिणः || एषु वर्णेषु || स्वराः षोडश विख्याताः स्पर्शांस्ते पञ्चविंशतिः | तत्त्वात्मानः स्मृताः स्पर्शा मकारः पुरुषो यतः | यस्मान्मकारः पुरुषः परमात्मा रविस्वरूपस्तस्मात् ककारादिभपर्यन्तास्तत्त्वात्मानः प्रकृत्यादिचतुर्विंशतितत्त्वमया इत्यर्थः | अतएव सर्ववीजेषु विष्णुरूपमकारयोगात् पुरुषैक्यं तेषामिति मन्तव्यम् | मकारस्य बिन्दुरूपत्वाद्बिन्दुः पुसान् रविः प्रोक्त इति वक्ष्यमाणं साधु सङ्गच्छते | प्. ८६) सूर्यरूपविन्द्वात्मना मकारेण स्पृश्यमानत्वादेते कादयः स्पर्शाः | व्यापका दश ते कामधनधर्मप्रदायिनः | एषां दोषदूष्येषु वर्तमानत्वाद्व्यापकत्वम् | तत्राग्नीनामपि सत्त्वादाग्नेया इत्यपि | नृसिंहाख्यकालाग्निरूपक्षकारान्तत्वेन वा आग्नेया इति द्रष्टव्यम् | ते वर्णा यथाक्रमं स्वराः कामप्रदाः स्पर्शा धनप्रदा व्यापका धर्मप्रदा इत्यर्थः | प्रणवाद्धंसोत्पत्तिप्रकारो दर्शितः सम्प्रति हंसतः सर्वाक्षरोत्पत्तिप्रकारमाह प्रपञ्चसारे तृतीयपटले || यथा भवन्ति देहान्तरमी पञ्चाशदक्षराः | भेदा येन प्राकारेण तथा वक्ष्यामि तत्त्वतः | समीरिताः समीरेण सुषुम्नारन्ध्रनिर्गताः | व्यक्तिं प्रयान्ति वदने कण्ठादिस्थानघट्टिताः | उच्चैरुन्मार्गणो वायुरुदात्तं कुरुते स्वरम् || नीचैर्गतेऽनुदात्तञ्च स्वरितं तिर्यगागतः | स्वरितं समाहारम् || अर्द्धैकद्वित्रिसंख्याभिर्मात्राभिर्लिपयः क्रमात् | सव्यञ्जनह्रस्वदीर्घप्लुतसंज्ञा भवन्ति ताः | अकारेकारयोर्योगादेकारो वर्ण इष्यते | तस्यैवाकारयोगेन स्यादैकाराक्षरं तथा | उकारयोगात्तस्यैव स्यादोकाराह्वयः स्वरः | तस्याकारस्य || तस्यैवौकारयोगेन स्यादौकाराह्वयः स्वरः | सन्ध्यक्षराः स्युश्चत्वारी मन्त्राः सर्वार्थसाधकाः | ऌवर्णवर्णयोर्व्यक्तिर्न वै सम्यक् प्रदर्श्यते | बिन्दुसर्गात्मनोर्व्यक्तिमनसोरजपा वदेत् | कण्ठात्तु निःसरन् सर्गः प्रायश्चात्मकतः परः | नश्वरः सर्ग एव स्यात् सोच्छासः प्राणकस्तु हः || सर्गो विसर्ग एव नश्वरो विकृतः | सोच्छासः काररूपः उच्छासोऽन्तःप्रवेशशाली वायुः स्यादित्यन्वयः | एवं प्राणको वहिर्निर्गमनशाली वायुर्हः स्यात् स एव उच्छासः सोच्छास इति सन्धिस्तु न विसर्गगीयेति नञा निर्दिष्टत्वात् | सश्चासावुच्छासश्चेति वा | प्राणश्चासौ को वायुश्चेति प्राणकः | स सर्गः श्लेषितः कण्ठो वायुना कादिमीरयेत् | प्. ८७) वर्गस्पर्शनमात्रेण कं स्वरस्पर्शनात्तु खम् | स्तोकगम्भीरसंस्पर्शात् पघौ ङञ्च वहिर्गतम् | विसर्गस्तालुगः सोष्मा शञ्च वर्गञ्च यं तथा | ऋटुरेफषकारञ्च मूर्द्धगो दन्तगस्तथा | ऌतवर्गलसानोष्ठ्यानुपूपध्यानसंज्ञकान् | दन्तौष्ठाभ्यां वञ्च तत्तत्स्थानगोऽर्णान् समीरयेत् || अत एवोक्तं शिक्षासूत्रे || अवर्णकवर्गहविसर्जनीयाः कण्ठ्याः || इवर्णचवर्गयशा स्तालव्याः || ऋवर्गटवर्गरषा मूर्द्धन्याः || ऌवर्णतवर्गलसा दन्त्याः || उवर्णपवर्गोपध्मनीया ओष्ठ्याः || वो दन्तौष्ठ्यः || एऐ कण्ठ्यतालव्यौ || ओऔ कण्ठ्यौष्ठौ || वरदातन्त्रे दशमपटले || श्रीशिव उवाच || यद्गुह्यं सर्वतन्त्रेषु वर्णोच्चारविधिं शिवे ! | तव स्नेहान्महेशानि ! तदद्य कथयामि ते | पञ्चाशन्मातृकावर्णोच्चारणं गुरुतोऽभ्यसेत् | अकुचुटुतुपुयुशु अष्टौ वर्गाः प्रकीर्तिताः | उकारः पञ्चपञ्चवर्णविभागार्थः | अकहाःकण्ठतो ज्ञेयास्तालुतश्चुयशाः स्मृताः || ऋटुरषास्तु मूर्द्धन्या दन्त्या ऌतुलसा मताः || उपराश्चोष्ठसम्भूताः स्थानानि कथितानि ते | विशेषं कथयाम्यद्य प्रोच्चार्याः कण्ठतः स्वराः | ऋद्वयं जिह्वाया मूर्द्धा ऌद्वयं जिह्वदन्तजम् | मुखस्थानाद्धलो वाच्याः क्षकारः कण्ठघातजः | व्यञ्जनद्वयसंयोगे भवेत् पूर्वस्वरो गुरुः | पादान्तादिमवर्णस्य संयोगेषु श्रुतिर्द्वयोः | अपदान्तादिसंयोगे यवोरन्यत्र तथेष्यते | यवोः श्रुतिस्तु तिरोभूय स्वरवत् श्रुतितां व्रजेत् | त्रियावीजे शकारस्य छश्रुतिः परमेश्वरि ! | छश्रुतिश्च वादिभृगौ तथादिस्थे तु चश्रुतिः || सहस्र इत्यादौ नमस्तस्मै आस्था इत्यादौ च || रेफादिके तदन्ते वा हाकारे समवाच्यता | वर्हह्नद इत्यादौ | किन्तु वैजात्यमाश्रित्य स्फुटं नात्रास्य वाच्यता | चु तुर्यध्वनिमाप्नोति यादिस्थे परमेश्वरि ! | वाह्य इत्यादौ | पु चतुर्थध्वनिं याति वादिस्थे तु विशेषतः | प्. ८८) आह्वानमित्यादौ | लादिस्थेऽप्यथ नादिस्थे वैजात्यं स्वल्पवाच्यता | प्रह्लाद अह्नाय इत्यादौ | मादिस्थे मे च मस्यापि नासिकामूलवाच्यता | ङञणनमा बिन्दुनासिकामूलजाः स्मृताः | यकारश्चुतृतीयत्वं पदादौ सर्वदा व्रजेत् | केयूरादावपि तथा अन्यत्र कण्ठमात्रगः || नादिस्थशसयोश्छत्वं स्वंरयोगान्तवर्गके | प्रश्न स्नान इत्यादौ | वर्णोत्तरेषु डढयोर्वक्रजिह्वादिवाच्यता | वैजात्यमपि तत्रास्ति गुरोरेव समभ्यसेत् | आदिरेफस्तु संप्रोक्तो दृशेरन्यो व्रेजेदृताः | एवं ज्ञात्वा महेशानि ! पठेत् स्तोत्रं जपेन्मनुम् | कवचञ्च महेशानि ! नान्यथा फलमाप्नुयात् | यत्रैव परमेशानि ! स्तोत्रं वा संहितां पठेत् | तत्र तत्र परं यत्रात् समाप्तं कीर्तयेद्बुधः | इति वर्णोच्चारणप्रकारणकथनम् || शारदायाम् || ह्रस्वः स्वरेषु पूर्वोक्तः परो दीर्घः क्रमादिमे | शिवशक्तिमयास्ते स्युर्बिन्दुसर्गावसानकाः | बिन्दुः पुमान् रविः प्रोक्तः सर्गः शक्तिर्निशाकरः | एकारोकारस्योर्दीर्घत्वेऽप्यत्र परिभाषिकं ह्रस्वत्वम् | इमे ह्रस्वदीर्घाः क्रमात् शिवशक्तिमया ह्रस्वा अ इ उ ऋ ऌ ए ओ अं एते शिवमयाः पुंरूपाश्च इत्यर्थः | आ ई ऊ ॠ ॡ ऐ औ अः एते दीर्घाः शक्तिमयाः स्त्रीरूपाश्चेति | बिन्दुविसर्गौ पुरुषप्रकृतिरूपौ पृथग्भूतावेताविति विवक्षया ते बिन्दुसर्गावसानकाः स्युरित्यन्वयः | ते ह्रस्वा अन्ते बिन्दुयुक्ता दीर्घाश्च अन्ते विसर्गयुक्ता ह्रस्वेषु बिन्दुरष्टमो दीर्घेषु विसर्गोऽष्टम इत्यर्थः | विसर्गो निशाकर इत्युक्ते तदितरस्वराणां तत्कलारूपतिथ्यात्मकत्वम् | अत एव स्वराः सौम्या इत्युक्तम् | स्वराणां मध्यगं यत्तु तच्चतुष्कं नपुंसकम् | विना स्वरैस्तु नान्येषां जायते व्यक्तिरञ्जसा | शिवशक्तिमयान् प्राहुस्तस्माद्वर्णान् मनीषिणः | अयमभिप्रायः स्वराणां शक्तिमयत्वं पूर्वमुक्तं स्वरं विना व्यञ्जनानामुच्चारणस्याशक्यत्वात् स्वरसहितोच्चारणे शिवशक्तिमयत्वमिति | प्. ८९) शारदायाम् | कारणात् पञ्चभूतानामुद्भूता मातृका यतः | ततो भूतात्मका वर्णाः पञ्चपञ्चविभागतः || शिवशक्तिसमवायाद्विन्दोः कारणाद् यतो मातृका उद्भूतास्ततः कारणात् पञ्चपञ्चविभागतो वर्णाः पञ्चभूतात्मका ज्ञेया इत्यन्वयः | अकारादिक्षकारान्तवर्णसमुदायस्य मातृका इति संज्ञा | उद्दिष्टं स्पष्टयति | वायवग्निभूजलाकाशाः पञ्चाशल्लिपयः क्रमात् | पञ्च ह्रस्वाः पञ्च दीर्घा विन्द्वन्ताः सन्धिसम्भवाः | पञ्चशः कादयो यक्षलसहान्ताः समीरिताः | वायवाकाशयोराद्यन्तेन निर्दिष्टत्वाद्व्युत्क्रमोक्तिः पञ्चीकरणप्रक्रियाया मुख्यत्वद्योतनाय | अन्यत् सर्वं सुगमम् | ननु कथमत्र विसर्गो न गणित इति चेदुच्यते मूलाधारात् सञ्जातविवक्षोत्पन्नप्राणपवनप्रेरितः स्थानान्तरमप्राप्य कण्ठादेव निःसरन् प्रकृत्यात्मकसर्गोऽत्र भूतेषु न गणितः || इति श्रीप्राणतोषिण्यां प्रथमकाण्डे वर्णोत्पत्तिक्रमकथनं नाम षष्ठः परिच्छेदः || ६ || एवं वर्णेषु प्रादुर्भूतेषु कदाचित् शब्दात्मकेषु पुरुषाणां भ्रान्तिरपि सम्भवतीत्यतस्तेषामीश्वरेण पत्रारूढमूर्तिः कल्पिता || तदुक्तं ज्योतिस्तत्त्वे वृहस्पतिना || षाण्मासिकेऽपि समये भ्रान्तिः सञ्जायते यतः | धात्राक्षराणि सृष्टानि पत्रारूढान्यतः पुरा इति | तेषां लेखनप्रकारस्तु वर्णोद्धारतन्त्रे प्रथमपटले भगवतीप्रश्नानन्तरं शिव उवाच || वर्णोद्धाराख्यतन्त्रे तु कथयामि शृणुष्व मे | पञ्चाशन्मातृका नित्या साक्षाद् ब्रह्मरूपिणी | इत्युपक्रम्य सर्ववर्णलेखनप्रकारं स एवोपदर्शितवान् स प्रकारोऽग्रे स्फुटीभविष्यति | कामधेनुतन्त्रे प्रथमपटले || शृणु तत्त्वमकारस्य अतिगोप्यं वरानने ! | शरच्चन्द्रप्रतीकाशं पञ्चकोणमयं सदा | प्. ९०) पञ्चदेवमयं वर्णं शक्तिद्वयसमन्वितम् | निर्गुणं सगुणोपेतं स्वयं कैवल्यमूर्तिमत् | बिन्दुद्वयमयं वर्णं स्वयं प्रकृतिरूपिणी | वर्णोद्धारतन्त्रे | दक्षतः कुण्डली भूत्वा कुञ्चिता वामतो गता | ततोर्द्धसङ्गता रेखा दक्षोर्द्धा तासु शङ्करः | विधिर्नारायणश्चैव सन्तिष्ठेत् क्रमतः सदा | अर्द्धमात्रा शक्तिरूपा ध्यानमस्य च कथ्यते | अ || कामधेनुतन्त्रे द्वितीयपटले || आकारं परमाश्चर्यं शङ्खज्योतिर्मयं प्रिये ! | ब्रह्मविष्णुमयं वर्णं तथा रुद्रमयं प्रिये ! | पञ्चप्राणमयं वर्णं स्वयं परमकुण्डली || वर्णोद्धारतन्त्रे || अकाररूपमासाद्य दक्षक्रोडायता त्वधः | ब्रह्मादयस्तथा शक्तिस्तासु तिष्ठन्ति नित्यशः | आ | कामधेनुतन्त्रे || इकारं परमानन्दं सुगन्धकुङ्कुमच्छवि | हरिब्रह्ममयं वर्णं सदा रुद्रमयं प्रिये ! | सदाशक्तिमयं देवि ! गुराब्रह्ममयं तथा | सदाशिवमयं वर्णं परंब्रह्मसमन्वितम् || वर्णोषारतन्त्रे || ऊर्द्ध्वाधः कुब्जिता मध्ये रेखा तत्सङ्गता भवेत् | लक्ष्मी?र्वाणी तथेन्द्राणी क्रमात्तास्वेव संवसेत् | शीर्षाधः कुञ्चिता रेखा दक्षोर्द्धा कामरूपिणी | मात्रा शक्तिः कोणयुता ध्यानमस्य प्रवक्ष्यते || इ || कामधेनुतन्त्रे || ईकारं परमेशानि ! स्वयं परमकुण्डली | ब्रह्मविष्णुमयं वर्णं तथा रुद्रमयं सदा | पञ्चदेवमयं वर्णं पीतविद्युल्लताकृतिः | चतुर्ज्ञानमयं वर्णं पञ्चप्राणमयं सदा | वर्णोद्धारतन्त्रे || ऊर्द्ध्वाधः कुञ्चिता मध्ये त्रिकोणाधोगता पुनः | अधोगता कोणशीर्षा कुञ्चिता दक्षतः शुभा | शीर्षाद्दक्षे कोणयुता कुञ्चितोर्द्धगता पुनः | चन्द्रसूर्याग्निरूपा सा मात्राशक्तिः प्रकीर्तिता || ई || कामधेनुतन्त्रे || उकारं परमेशानि ! अधः कुण्डलिनी स्वयम् | पीतचम्पकसङ्काशं पञ्चदेवमयं सदा | पञ्चप्राणमयं देवि ! चतुर्वर्गप्रदायकम् | वर्णोद्धारे || ऊर्द्ध्वाधोमध्यतः कुब्जा रेखा वामगता शुभा | प्. ९१) तिष्ठन्ति वायुवह्नीन्द्राः शक्तिर्मात्रा परा स्मृता || उ || कामधेनुतन्त्रे || शङ्खकुन्दसमाभास उकारः परकुण्डली | पञ्चप्राणमयं वर्णं पञ्चदेवमयं सदा | पञ्चप्राणयुतं वर्णं तथा त्रयगुणात्मकम् | बिन्दुत्रययुतं वर्णं पीतविद्युल्लताकृति | धर्मार्थकाममोक्षञ्च सदा सुखप्रदायकम् || वर्णोद्धारतन्त्रे || तद्रूपाधोगता रेखा कुब्जिता वामतः शुभा | तद्रूपा पूर्वोक्तोकाररूपा | तिष्ठन्ति तासु रेखासु यमाग्निवरुणाः क्रमात् | अधोर्द्धगामिनी मात्रा लक्ष्मीर्वाणी च सा स्मृता || ऊ || कामधेनौ || ऋकारः परमेशानि ! कुण्डली मूर्तिमान् स्वयम् | अत्र ब्रह्मा च विष्णुश्च रुद्रश्चैव वरानने ! | सदाशिवयुतं वर्णं सदा ईश्वरसंयुतम् | वर्णोद्धारतन्त्रे | ऊर्द्धा दक्षगता वक्रा त्रिकोणा वामतस्ततः | पुनस्त्वधोदक्षगता मात्राशक्तिः परा स्मृता | मात्रासु ब्रह्मविष्ण्वीशास्तिष्ठन्ति क्रमतः परा || ऋ || वर्णोद्धारतन्त्रे || तद्रूपाधोगता दक्षा वामतः कुञ्चिता त्वधः | पुनर्दक्षगता रेखा तासु ब्रह्मेशविष्णवः | मात्राशक्तिः परा ज्ञेया ध्यानमस्य प्रवक्ष्यते || ॠ || कामधेनुतन्त्रे || ऌकारं चञ्चलापाङ्गि ! कुण्डली परदेवता | तत्र ब्रह्मादयः सर्वे तिष्ठन्ति सततं प्रिये ! | पञ्चदेवमयं वर्णं चतुर्ज्ञानमयं सदा | पञ्चप्राणयुतं वर्णं तथा गुणत्रयात्मकम् | बिन्दुत्रयत्माकं वर्णं पीतविद्युल्लताकृति || वर्णोद्धारे || रेखाधः कुण्डली वक्रा दक्षतो वाभतो गता | वह्नीशवायवस्तासु नित्यं सन्ति च नित्यशः || ऌ || कामधेनुतन्त्रे || ॡकारं परमेशानि ! पूर्णचन्द्रसमप्रभम् | पञ्चदेवात्मकं वर्णं पञ्चप्राणात्मकं सदा | गुणत्रयात्मकं वर्णं तथा बिन्दुत्रयात्मकम् | चतुर्वर्गमयं देवि ! स्वयं परमकुण्डली || वर्णोद्धारतन्त्रे || तत्क्रोडतुल्यरूपा च रेखा सा वैष्णवी स्मृता | तासु बन्ध्या सुरेशानि ! दुर्गा वाणी सरस्वती || ॡ || कामधेनुतन्त्रे || एकारं परमं दिव्यं ब्रह्मविष्णुशिवात्मकम् | प्. ९२) वङ्किनीकुसुमप्रेक्ष्यं पञ्चदेवमयं सदा | पञ्चप्राणात्मकं वर्णं तथा विलशयात्मकम् | चतुर्वर्णमयं देवि ! स्वयं परमकुण्डली | वर्णोद्धारतन्त्रे || कुञ्चितां वामतो रेखा दक्षकोणायता त्वधः | पुनर्वामगता सैव तासु वह्नीशवायवः || ए || कामधेनुतन्त्रे षष्ठपटले || ऐकारं परमं दिव्यं महाकुण्डलिनी स्वयम् | कोटिचन्द्रप्रतीकाशं पञ्चप्राणमयं सदा | ब्रह्मविष्णुमयं वर्णं तथा रुद्रमयं प्रिये ! | सदाशिवमयं वर्णं बिन्दुत्रयसमन्वितम् | वर्णोद्धारतन्त्रे | एकाररूपमध्ये तु किञ्चिद्दक्षे तदोर्द्धतः | चन्द्रेन्द्रभानवस्तासु मात्राशक्तिः क्रमात् स्मृताः | त्रिधा शक्तिमयी पूर्वा दुर्गा वाणी सरस्वती || ऐ || कामधेनुतन्त्रे || एतद्वर्णं महेशानि ! स्वयं परमकुण्डली || वर्णोद्धारतन्त्रे || वामतः कुण्डली भूत्वा दक्षान्मध्ये तु कुञ्चिता | किञ्चिद्दक्षगता या तु कुञ्चिता वामतस्त्वधः | ब्रह्मेशविष्णवस्तासु मात्रा तु ब्रह्मरूपिणी | शक्तिश्च परमा सैव ध्यानमस्य प्रवक्ष्यते || ओ || कामधेनुतन्त्रे || रक्तविद्युल्लताकारमौकारं कुण्डली स्वयम् || स्वयं ब्रह्मादयस्तत्र तिष्ठन्ति सततं प्रिये ! | पञ्चप्राणमयं वर्णं सदाशिवमयं सदा | सदा ईश्वरसंयुक्तं चतुर्वर्गप्रदायकम् || वर्णोद्धारतन्त्रे || ओकारमध्यदक्षे तु गता तूर्द्धगतायता | किञ्चित् सा वामतो वक्रा तासु ब्रह्मेशविष्णवः | शक्तिमध्यगता रेखा ध्यानमस्य च कथ्यते || औ || कामधेनुतन्त्रे || अकारं बिन्दुसंयुक्तं पीतविद्युत्समप्रभम् | पञ्चप्राणात्मकं वर्णं ब्रह्मादिदेवतामयम् | सर्वज्ञानमयं वर्णं बिन्दुत्रयसमन्वितम् | शक्तित्रयमयं वर्णं स्वयं परमकुण्डली || वर्णोद्धारतन्त्रे || अकाररूपशीर्षे तु दक्षिणे बिन्दुरूपिणी | ब्रह्मा विष्णुश्च रुद्रश्च क्रमशस्तासु तिष्ठति | या तु बिन्दुमयी रेखा सैवाद्या शक्तिरीरिता || अं || कामधेनुतन्त्रे || अःकारं परमेशानि ! रक्तविद्युत्प्रभामयम् | प्. ९३) पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा | सर्वज्ञानमयं वर्णमात्मादितत्त्वसंयुतम् | बिन्दुत्रयमयं वर्णं शक्तित्रयमयं सदा || वर्णोद्धारे || आकाररूपदक्षे तु द्विबिन्दुरध ऊर्ध्वतः | ब्रह्मेशविष्णवस्तासु मात्राशक्तिः समीरिता | बिन्दुद्वयान्विता रेखा सैवाद्या शक्तिरीरिता | अः || वर्णोद्धारे || वामरेखा भवेद् ब्रह्मा विष्णुर्दक्षिणरेखिका | अघोरेखा भवेद्रुद्रो मात्रा साक्षात् सरस्वती || कुण्डली चाङ्कुशाकारा मध्यशून्यं सदाशिवः || कदम्बगोलकाकारं ककारं भावयेत् सुधीः || क || कामधेनुतन्त्रे तृतीयपटले || वामरेखा भवेद् ब्रह्मा विष्णुर्दक्षिणरेखिका | अघोरेखा भवेद्रुद्रो मात्रा साक्षात् सरस्वती | कुण्डली चाङ्कुशाकारा मध्यशून्यं सदाशिवः | जवाकुसुमसङ्काशा वामरेखा वरानने ! | शरच्चन्द्रप्रतीकाशा दक्षरेखा महेश्वरि ! | अधोरेखा वरारोहे ! महामरकतद्युतिः | शङ्खकुन्दसमा कीर्तिर्मात्रा साक्षात् सरस्वती | कुण्डली चाङ्कुशाकारा कोटिविद्युल्लताकृतिः | कोटिचन्द्रप्रतीकाशो मध्ये शून्यः सदाशिवः | शून्यगर्भस्थिता काली कैवल्यपददायिनी || अर्थश्च जायते देवि ! तथा धर्मश्च नान्यथा | ककारः सर्ववर्णानां मूलप्रकृतिरेव च | कामिनी या महेशानि ! स्वयं प्रकृतिसुन्दरी | माता सा सर्वदेवानां कैवल्यपददायिनी | ऊर्द्ध्व कोणे स्थिता वामा ब्रह्मशक्तिरितीरिता | वामकोणे स्थिता ज्येष्ठा विष्णुशक्तिरितीरिता | दक्षकोणस्थिता शक्तीरौद्री संहाररूपिणी | ज्ञानात्मा सा तु चार्वङ्गी कुलचतुष्टयात्मकम् || इच्छाशक्तिर्भवेद् ब्रह्मा विष्णुश्च ज्ञानशक्तिमान् | क्रियाशक्तिर्भवेद्रुद्रः सर्वप्रकृतिमूर्च्छिमान् | आत्मविद्याशिवैस्तत्त्वै सदा मात्रा प्रतिष्ठिता | आसनं त्रिपुरादेव्याः ककारः पञ्चदैवतः | ईश्वरो यस्तु देवेशि ! त्रिकोणे तस्य संस्थितिः | त्रिकोणमेतत् कथितं योनिमण्डलमुत्तमम् | प्. ९४) कैवल्यं प्रपदे यस्याः कामिनी सा प्रकीर्तिता || क || वर्णोद्धारतन्त्रे || शिवरूपा वामरेखा वह्निरूपा च सा स्मृता || ख || वर्णोद्धारतन्त्रे || अग्राकुञ्चितरेखा या गणेशी सा प्रकीर्त्तिता | ततो दक्षगता या तु कमला तत्र संस्थिता | अधोगतागता या तु तस्यामीशः सदा वसेत् | अधोमुखेन गता पुनरूर्द्ध मुखेनागतेत्यर्थः || ग || वर्णोद्धारतन्त्रे || स्रष्टिरूपा वामरेखा किञ्चिदाकुञ्चिता ततः | कुण्डलीरूपमास्थाय ततोऽधोगत्य दक्षतः | अत ऊर्द्धं गता रेखा शम्भुर्नारायणस्तयोः | ब्रह्मस्वरूपिणी देवि ! मात्राशक्तिः प्रकीर्तिता || घ || वर्णोद्धारतन्त्रे || ऊर्द्धाधः क्रमतो रेखा किञ्चिदाकुञ्चिता ततः | अधोगता कुण्डली तु मात्राशक्तिः स्वरूपिणी | रेखात्रयेषु ब्रह्मेशविष्णवः सन्ति सर्वदा || ङ || कामधेनुतन्त्रे || चवर्णं शृणु सुश्रोणि ! चतुर्वर्गप्रदायकम् | कुण्डलीसहितं देवि ! स्वयं परमकुण्डली || स ततः कुण्डलयुक्तं पञ्चदेवमयं सदा | पञ्चप्राणमयं वर्णं पञ्चप्राणात्मकं सदा | त्रिशक्तिसहितं वर्णं त्रिविन्दुसहितं प्रिये ! || वर्णोद्धारतन्त्रे || वार्त्ताकुवर्त्तुलाकार ऊर्द्ध्वाधः क्रमतो गतः | रेखाःत्रयेषु चन्द्राग्निसूर्यास्तिठन्ति नित्यशः | शक्तिर्मात्रा तु विज्ञेया ध्यानमस्य प्रवक्ष्यते || च || वर्णोद्धारतन्त्रे || ऊर्द्ध्वादधोगता रेखा कुञ्चिता कुण्डली ततः || पुनश्चाधोगता तासु सन्ति ब्रह्मैशविष्णवः || छ || कामधेनुतन्त्रे || जकारं परमेशानि ! या स्वयं मध्यकुण्डली | शरच्चन्द्रप्रतीकाशं सदा त्रिगुणसंयुतम् | पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा || त्रिशक्तिसहितं वर्णं द्विबिन्दुसहितं प्रिये ! | वर्णोद्धारतन्त्रे || उर्द्धाधः कुञ्चिता रेखा तासु ब्रह्मेशविष्णवः | वाग्देवी कमला नित्या द्विधा मात्रा प्रकीर्तिता || ज || कामधेनुतन्त्रे || झकारं परमेशानि ! कुण्डलीमोहरूपिणी | रक्तविद्युल्लताकारं सदा त्रिगुणसंस्थितम् | पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं सदा | प्. ९५) त्रिबिन्दुसहितं वर्णं त्रिशक्तिसहितं सदा || वर्णोद्धारतन्त्रे || त्रिकोणकुण्डलीरूपा वामदक्षिणयोगतः | क्रमशस्तासु तिष्ठन्ति चन्द्रसूर्याग्नयः प्रिये ! | तत्र षोडशधा मात्रा शक्तिर्ब्रह्मस्वरूपिणी | ऊर्द्ध्वमात्रा तथेन्द्राणी मध्ये नारायणीस्मृता || झ || कामधेनुतन्त्रे || सदा ईश्वरसंयुक्तं ञकारं शृणु सुन्दरि ! | रक्तविद्युल्लताकारं या स्वयं परकुण्डली | पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं सदा | त्रिशक्तिसहितं वर्णं त्रिविन्दुसहितं सदा || वर्णोद्धारतन्त्रे || कुण्डलीरूपमास्थाय दक्षतो वामतस्ततः | ऋजुश्चाधोगता मात्रा वामतः कुञ्चिता पुनः | तिष्ठन्ति तासु नित्यासु सूर्येन्द्रवरुणाः सदा | कुण्डलीद्वयरूपा तु या मात्रा मध्यतः स्थिता | महाशक्तिस्वरूपा सा ध्यानमस्य प्रवक्ष्यते || ञ || कामधेनुतन्त्रे || टकारं परमेशानि ! स्वयं परमकुण्डली | कोटिविद्युल्लताकारं पञ्चदेवमयं सदा || पञ्चप्राणयुतं वर्णं गुणत्रयसमन्वितम् | त्रिगुणीसहितं वर्णं द्विबिन्दुसहितं सदा || वर्णोद्धारतन्त्रे || ऊर्द्ध्वाधः क्रमतो रेखा कुण्डलीरूपतस्त्वधः | तिष्ठन्ति तासु नित्यासु कुवेरयमवायवः | मात्रा कोणगता चोर्द्ध्वा तत ऊर्द्ध्वगता तु सा | या नित्या परमा शक्तिश्चतुर्वर्गप्रदायिनी || ट || कामधेनुतन्त्रे || ठकारं चञ्चलापाङ्गि ! कुण्डली मोक्षरूपिणी | पीतविद्युल्लताकारं सदा त्रिगुणसंयुतम् | पञ्चदेवात्मकं वर्णं त्रिशक्तिसहितं सदा || वर्णोद्धारतन्त्रे || वात्ताकुवर्त्तुलाकारा रेखाधिष्ठितदेवताः | तिष्ठन्ति क्रमतो नित्यं चन्द्रसूर्याग्नयः प्रिये ! | मात्राहीनस्तूर्द्ध्वशिखष्ठकारः परमेश्वरि ! || ठ || वर्णोधारतन्त्रे || ऊर्द्ध्वाधः क्रमतो रेखा मध्ये त्वाकुञ्चिता तथा | लक्ष्मीर्वाणी भवानी च क्रमशस्तत्र संस्थिता | ब्रह्मरूपा तथा मात्रा महाशक्तिः प्रकीर्तिता || ड || वर्णोद्धरन्त्रे || ऊर्द्ध्वाधः क्रमतो रेखा वामदक्षिणतो गता | प्. ९६) ततः सा कुण्डलीरूपा विष्ण्वीशब्रह्मरूपिणी | महाशक्तिमयी मात्रा ध्यानमस्य प्रवक्ष्यते || ढ || कामधेनुतन्त्रे || णकारं परमेशानि ! या स्वयं परकुण्डली | पीतविद्युल्लताकारं पञ्चदेवमयं सदा | पञ्चप्राणमयं देवि ! सदा त्रिगुणसंयुतम् | आत्मादितत्त्वसंयुक्तं महामोक्षप्रदायकम् | वर्णोद्धारतन्त्रे || कुण्डलीत्वगता रेखा मध्यतस्त्वत ऊर्द्ध्वतः | वामादधोगता सैव पुनरूर्द्धं गता प्रिये ! | ब्रह्मेशविष्णुरूपा सा चतुर्वर्गफलप्रदा || ण || कामधेनुतन्त्रे पञ्चमपटले || महादेव उवाच || तकारं चञ्चलापाङ्गि ! स्वयं परमकुण्डली | पञ्चदेवात्मकं वर्णं पञ्चप्राणमयं तथा | त्रिशक्तिसहितं वर्णं आत्मादितत्त्वसंयुतम् | त्रिबिन्दुसहितं वर्णं पीतविद्युत्समप्रभम् || वर्णोद्धारतन्त्रे || आदौ बिन्दुस्ततो मध्ये कुण्डलीत्वमवाप्य सा | दक्षाद्वामगता नित्या ब्रह्मविष्ण्वीशरूपिणी || त || कामधेनुतन्त्रे | थकारं चञ्चलापाङ्गि ! कुण्डलीमोक्षरूपिणी | त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा || वर्णोद्धारतन्त्रे || कुञ्चिता कुण्डली भूत्वा वामाद्दक्षिणतस्ततः | वामतः कुञ्चिता भूत्वा दक्षाधो दक्षतो गता | ऊर्द्ध्वं ऋज्वायता रेखा सुरा गङ्गादयः क्रमात् | वाणी भवानी लक्ष्मीश्च ध्यानमस्य प्रवक्ष्यते || थ || कामधेनुतन्त्रे || दकारं शृणु चार्वङ्गि ! चतुर्वर्गप्रदायकम् || पञ्चदेवात्मकं वर्णं पञ्चप्राणमयं सदा || द || वर्णोद्धारतन्त्रे || त्रिकोणरूपरेखायां त्रयो देवा वसन्ति च | विश्वेश्वरी विश्वमाता वामतः स्कन्धतः स्थिता || ध || कामधेनुतन्त्रे | नकारं शृणु चार्वङ्गि ! रक्तविद्युल्लताकृति | पञ्चदेवमयं वर्णं स्वयं परमकुण्डली | पञ्चप्राणात्मकं वर्णं हृदि भावय पार्वति ! | वर्णोद्धारतन्त्रे || वामतः कुण्डली रेखा ऊर्द्ध्वाधः क्रमतः स्थिता | चन्द्रसूर्याग्निरूपा सा मात्रा वाणी प्रकीर्तिता || न || प्. ९७) कामधेनुतन्त्रे || अतः परं प्रवक्ष्यामि पकाराक्षरमव्ययम् | चतुर्वर्गप्रदं वर्णं शरच्चन्द्रमयप्रभम् | पञ्चदेवमयं वर्ण स्वयं परमकुण्डली | पञ्चप्राणमयं वर्णं त्रिशक्तिसहितं सदा | त्रिगुणीसहितं वर्णं आत्मादितत्त्वसंयुतम् | महामोक्षप्रदं वर्णं हृदि भावय पार्वति ! | वर्णोद्धारतन्त्रे || कुञ्चिता वामरेखायाः कोणाद्दक्षिणतोऽपरा | कुञ्चिता सापि विज्ञेया मात्रा वामोद्गता तथा | शम्भुर्ब्रह्मा भगवती क्रमशस्तासु तिष्ठति || प || कामधेनुतन्त्रे || फकारं शृणु चार्वङ्गि ! रक्तविद्युल्लतासमम् | चतुर्वर्गप्रदं वर्णं पञ्चदेवमयं सदा | पञ्चप्राणमयं वर्णं सदा त्रिगुणसंयुतम् | आत्मादितत्त्वसंयुक्तं त्रिबिन्दुसहितं सदा | वर्णोद्धारतन्त्रे || वक्रा वामगता रेखा ततोऽधः सङ्गता भवेत् | तस्मादूर्द्ध्वगता भूत्वा दक्षमारभ्य कुण्डली | ब्रह्मा रुद्रश्च विष्णुश्च कुण्डली ब्रह्मरूपिणी | मात्रा वामादक्षिणतः क्रमशः शक्तिरीरिता || फ || कामधेनुतन्त्रे | बकारं शृणु चार्वङ्गि ! चतुर्वर्गप्रदायकम् | शरच्चन्द्रप्रतीकाशं पञ्चदेवमयं सदा | पञ्चप्राणात्मकं वर्णं त्रिबिन्दुसहितं सदा || वर्णोद्धारतन्त्रे || त्रिकोणरूपिणी रेखा विष्ण्वीशब्रह्मरूपिणी | मात्राशक्तिः परा ज्ञेया ध्यानमस्य प्रवक्ष्यते || ब || कामधेनुतन्त्रे || भकारं शृणु चार्वङ्गि ! स्वयं परमकुण्डली | महामोक्षप्रदं वर्णं तरुणादित्यसम्प्रभम् | पञ्चप्राणमयं वर्णं पञ्चदेवमयं सदा | वर्णोद्धारतन्त्रे || उर्द्ध्वाधः क्रमतो रेखा वामे वक्रा तु कुण्डली | पुनश्चाधोगता सैव अत ऊर्द्ध्वगता पुनः | ब्रह्मा शम्भुश्च विष्णुश्च क्रमतस्तासु तिष्ठति || भ || कामधेनुतन्त्रे || मकारं शृणु चार्वङ्गि ! स्वयं परमकुण्डली | तरुणादित्यसङ्काशं चतुर्वर्गप्रदायकम् | पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा || वर्णोद्धारतन्त्रे || ऊर्द्ध्वाधः क्रमतो रेखा चतुष्कोणमयी शुभा | नारायणेशविधयस्तासु तिष्ठन्ति नित्यशः | प्. ९८) मात्रा कुण्डलिनी ज्ञेया ध्यानमस्य प्रवक्ष्यते || म || कामधेनुतन्त्रे || यकारं शृणु चार्वङ्गि ! चतुर्वर्गमयं सदा | पलालधूमसङ्काशं स्वयं परमकुण्डली | पञ्चप्राणमयं वर्णं पञ्चदेवमयं सदा || वर्णोद्धारतन्त्रे || ऊर्द्ध्वाधः क्रमतो रेखा त्रिकोणाधोगता हि सा | विधिरीशः केशवश्च तासु तिष्ठन्ति नित्यशः | ऊर्द्ध्वस्थिता तु या मात्रा सा शक्तिः परिकीर्तिता | तस्य मध्यगता रेखा वह्निरूपा हि सा स्मृता | निर्गुणोऽसौ सदा वर्णो न कदाचिद् गुणी भवेत् || य || कामधेनुतन्त्रे षष्ठपटले || रेफञ्च चञ्चलापाङ्गि ! कुण्डलीद्वयसंयुतम् | रक्तविद्युल्लताकारं पञ्चदेवात्मकं सदा | पञ्चप्राणमयं वर्णं त्रिबिन्दुसहितं सदा | वर्णोद्धारतन्त्रे || दक्षतः कुण्डली रेखा वामाद्दक्षगताप्यधः | पुनर्दक्षगता द्वेधा ततोऽधोगत्य चोर्द्ध्वतः | भवानी शङ्करो वह्निस्तासु तिष्ठन्ति नित्यशः | अर्द्धमात्रा ब्रह्मरूपा महाशक्तिः प्रकीर्तिता || र || कामधेनुतन्त्रे || लकारं चञ्चलापाङ्गि ! कुण्डलीत्रयसंयुतम् | पीतविद्युल्लताकारं सर्वरत्नप्रकाद्यकम् | पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा | त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा | आत्मादितत्त्वसहितं हृदि भावय पार्वति ! | वर्णोद्धारतन्त्रे || कुण्डलीत्रयसंयुक्ता वामाद्दक्षगता त्वधः | पुनरूर्द्ध्वगता रेखा तासु नारायणः शिवः | ब्रह्मशक्तिश्च सन्तिष्ठेद्ध्यानमस्य प्रवक्ष्यते || ल || कामधेनुतन्त्रे || वकारं चञ्चलापाङ्गि ! कुण्डली मोक्षमव्ययम् | पञ्चप्राणमयं वर्णं त्रिशक्तिसहितं सदा | त्रिबिन्दुसहितं वर्णमात्मादितत्त्वसंयुतम् | पञ्चदेवमयं वर्णं पीतविद्युल्लतामयम् | चतुर्वर्गप्रदं वर्णं सर्वसिद्धिप्रदायकम् | त्रिशक्तिसहितं देवि ! त्रिबिन्दुसहितं सदा || वर्णोद्धारतन्त्रे || कोणत्रययुता रेखा ब्रह्मविष्णुशिवात्मिका | मायाशक्तिः परा नित्या ध्यानमस्य प्रवक्ष्यते || ब || शकारं परमेशानि ! शृणु वर्णं शुचिस्मिते ! | प्. ९९) रक्तवर्णप्रभाकारं स्वयं परमकुण्डली | चतुर्वर्गप्रदं देवि ! शकारं ब्रह्मविग्रहम् | पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं प्रिये ! | रत्नपञ्चतमोद्युक्तं त्रिबिन्दुसहितं सदा | त्रिशक्तिसहितं वर्णमात्मादितत्त्वसंयुतम् || वर्णोद्धारे || चतुष्कोणात्मिका रेखा वामदक्षिणतः क्रमात् | वह्नीन्द्रविष्ण्वस्तासु तिष्ठन्ति क्रमतः सदा | ऊर्द्ध्व मात्रा शक्तिरूपा महालक्ष्मीसमा स्मृता | मात्रा मध्यगता मात्रा वाग्देवी सा परा स्मृता || श || कामधेनुतन्त्रे || षकारं शृणु चार्वङ्गि ! अष्टकोणमयं सदा | रक्तचन्द्रप्रतीकाशं स्वयं परमकुण्डली | चतुर्वर्गमयं वर्णं सुधानिर्मितविग्रहम् | पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा | रजःसत्त्वतमोयुक्तं त्रिशक्तिसहितं सदा | त्रिबिन्दुसहितं वर्णं आत्मादितत्त्वसंयुतम् | सर्वदेवमयं वर्णं हृदि भावय पार्वति ! || वर्णोद्धारतन्त्रे || कुञ्चिता वामतो दक्षगता च गोकृतिस्त्वधः | पुनरूर्ध्वगता तासु वह्निचन्द्रदिवाकराः | मात्रा भवानी विज्ञेया ध्यानमस्य प्रवक्ष्यते || ष || कामधेनुतन्त्रे || सकारं शृणु चार्वङ्गि ! शक्तिबीजं परात्परम् | कोटोविद्युल्लताकारं कुण्डलीत्रयसंयुतम् | पञ्चदेवमयं देवि ! पञ्चप्राणात्मकं सदा || रजःसत्त्वतमोयुक्तं त्रिबिन्दुसहितं सदा || स || कामधेनुतन्त्रे || हकारं शृणु चार्वङ्गि ! चतुर्वर्गप्रदायकम् | कुण्डलीद्वयसंयुक्तं रक्तविद्युल्लतोपमम् | रजःसत्त्वतमोयुक्तं पञ्चदेवमयं सदा | पञ्चप्राणात्मकं वर्णं त्रिशक्तिसहितं सदा | त्रिबिन्दुसहितं वर्णं हृदि भावय पार्वति ! | वर्नोद्धारतन्त्रे || ऊर्द्ध्वादाकुञ्चिता मध्ये कुण्डलीत्वगता त्वधः | ऊर्द्ध्वं गता पुनः सैव तासु ब्रह्मादयः क्रमात् | मात्रा च पार्वती ज्ञेया ध्यानमस्य प्रवक्ष्यते || ह || कामधेनुतन्त्रे || क्षकारं शृणु चार्वङ्गि ! कुण्डलीत्रयसंयुतम् | चतुर्वर्गमयं वर्णं पञ्चदेवमयं सदा | पञ्चप्राणात्मकं वर्णं त्रिशक्ति सहितं सदा | प्. १००) त्रिबिन्दुसहितं वर्णमात्मादितत्त्वसंयुतम् | शरच्चन्द्रप्रतीकाशं हृदि भावय सुन्दरि ! || क्ष || योगिनीतन्त्रे तृतीयभागे सप्तमपटले | न भूमौ विलिखेद्वर्णं मन्त्रं न पुस्तके लिखेत् | न मुक्त्वा पुस्तकं स्थाप्यं न मुक्तमाहरेत्तु तत् | भूकम्पे ग्रहणे चैव अक्षरं वाथ पुस्तकम् | भूमौ तिष्ठति देवेशि ! जन्मजन्मसु मूर्खता | तदा भवति देवेशि ! तस्मात् तत् परिवर्जयेत् || इति भूमौ वर्णलेखनादिनिषेधः | वंशसूच्या लिखेद्वर्णं तस्य हानिर्भवेद् ध्रुवम् | ताम्रसूच्या तु विभवो भवेन्न तत्क्षयो भवेत् | महालक्ष्मीर्भवेन्नित्यं सुवर्णस्य शलाकया | वृहन्नलस्य सूच्या वै मतिवृद्धिः प्रजायते | वृहन्नलस्य वोल इति गौडप्रसिद्धस्य || तथा अग्निमयैर्देवि ! पुत्त्रपौत्त्रधनागमः | अग्निमयैश्चित्रकाष्ठमयैः || रौत्येन विपुला लक्ष्मीः कांस्येन मरणं भवेत् | रौत्येन पित्तलेन || अष्टाङ्गुलप्रमाणेन दशाङ्गुलेन वाथवा | चतुरङ्गुलसूच्या वा यो लिखेत् पुस्तकं शुभे ! | तत्तदक्षरसंख्ये तु स्वल्पायुर्याति वै दिने || यथा रौत्येनेत्यादिवचने एकत्रैव विधिनिषेधौ | तथात्राप्यष्टाङ्गुलदशाङ्गुलयोर्विधिर्निषेधश्चतुरङ्गुले || इति लेखनीकरणशुभाशुभे पुस्तकमानमपि तत्रैव || मानं वक्ष्ये पुस्तकस्य शृणु देवि ! समासतः | मानेनापि फलं विन्द्यादमाने श्रीर्हता भवेत् | हस्तमात्रं मुष्टिमात्रमाबाहु द्वादशाङ्कुलम् | दशाङ्गुलं तथाष्टौ च अतो हीनं न कारयेत् | इति पुस्तकमानम् || वेधद्वयं मुष्टिहस्तं बाहुमात्रे चिरन्तनम् | समभागे महेशानि ! हस्तादौ रूपबन्धकम् | अष्टाङ्गुलं परित्यज्य मध्ये वेधं न कारयेत् | प्रादेशादौ भवेद्रन्ध्रो द्व्यङ्गुले वा समाचरेत् | पुस्तकस्य च आद्यन्ते यन्त्रवेधं विकल्पयेत् | भार्याहानिर्भवेदाशु धनानां वा क्षयो भवेत् | दग्धरन्ध्रे भवेत् पीडा वर्त्तुलं शुभदं भवेत् | चतुष्कोणे विप्लवस्तु त्रिकोणे मरणं भवेत् | प्. १०१) इति पुस्तकवेधफलम् || भूर्जे वा तेजपत्रे वा ताले वा टाडिपत्रके | अगुरुणापि देवेशि ! पुस्तकं कारयेत् प्रिये ! | सम्भवे स्वर्णपात्रे च ताम्रपात्रे च शङ्करि ! | अन्यवृक्षत्वचि देवि ! तथा केतकिपत्रके | मार्त्तण्डपत्रे रौप्ये वा वटपत्रे वरानने ! | अन्यपत्रे च सुदले लिखित्वा यः समभ्यसेत् | स दुर्गतिमवाप्नोति धनहानिर्भवेद् ध्रुवम् | इति पुस्तककरणपत्रफलम् || वेदस्य लिखनं कृत्वा यः पठेद् ब्रह्महा भवेत् | पुस्तकं वा गृहे स्थाप्यं वज्रपातो भवेद् ध्रुवम् | इति पुस्तके वेदलिखननिषेधः || सत्येऽक्षरे स्थितः शम्भुः शूलपाणिस्त्रिलोचनः | प्रजापतिर्द्वापरे च त्रेतायां सूर्य एव च | कृते युगे पिनाकी च कलौ लिप्यक्षरे हरिः | आरम्भे च समाप्तौ च लेखकं प्रतिपूजयेत् | हरिञ्च गन्धपुष्पाद्यैर्वस्त्रैश्च सुमनोहरैः | यावदक्षरसंख्यानं प्रतिपत्रे च सुन्दरि ! | तावद् युगसहस्राणि ब्रह्मलोके वसेच्चिरम् || इति लेखकपूजाफलम् || वेतनं यस्तु गृह्णीयात् लिखित्वा पुस्तकं स तु | यावदक्षरसंख्यानं तावच्च नरके वसेत् || इति लिखितस्य वेतनग्रहणदोषः || इति श्रीप्राणतोषिण्यां प्रथमसर्गकाण्डे अक्षरलेखनादिप्रकारकथनं कोरकनाम सप्तमः परिच्छेदः | इति श्रीप्राणतोषिण्यां पञ्चमे भक्तिकाण्डे शिवप्रकरणकथनरूपस्तृतीयः परिच्छेदः | तन्त्रसङ्केतबोधार्थमाहृत्य तन्त्रशास्त्रतः | वर्णनामानि कतिचि - इक्ष्यामि विदुषां मुदे | ओंकारो वर्त्तुलस्तारो वामश्च हंसकारणम् | मन्त्राद्यः प्रर्णवः सत्यं बिन्दुशक्तिस्त्रिदैवतम् | सर्वजीवोत्पादकश्च पञ्चदेवो ध्रुवं त्रिकः | सावित्री त्रिशिखो ब्रह्म त्रिगुणो गुणजीवकः | आदिबीजं वेदसारो वेदबीजमतः परम् | पञ्चरश्मिस्त्रिकुटे च त्रिभवे भवनाशनः | गायत्रीवीजपञ्चांशौ मन्त्रविद्याप्रसूः प्रभुः | अक्षरं मातृकासूश्चानादिरद्वैतमोक्षदौ || ओं || अः श्रीकण्ठः सुरेशश्च ललाटञ्चैकमात्रिकः | पूर्णोदरी सृष्टिमेधौ सारस्वतः प्रियंवदः | प्. १०२) महाब्राह्मी वासुदेवो धनेशः केशवोऽमृतम् | कीर्तिर्निवृत्तिर्वागीशो नरकारिर्हरो मरुत् | ब्रह्मा वामाद्यजो ह्रस्वः करसूः प्रणवाद्यकः | प्रणवाद्यावयव इत्यर्थः || ब्रह्माणी कामरूपश्च कामेशी वाशिनी वियत् | विश्वेशः श्रीविष्णुकण्ठौ प्रतिपत्तिथिरंशिनी | अर्कमण्डलवर्णाद्यौ ब्राह्मणः कामकर्षिणी || अः || आकारो विजयानन्तो दीर्घच्छायो विनायकः | क्षीरोदधिः पयोदश्च पाशो दीर्घास्यवृत्तकौ | प्रचण्ड एकजो रुद्रो नारायण इतेश्वरः | प्रतिष्ठा मानदा कान्तो विश्वान्तकगजान्तकः | पितामहो द्विठान्तो भूः क्रिया कान्तिश्च सम्भवः | द्वितीया मानदा काशी विघ्नराजः कुजो वियत् | स्वरान्तकश्च हृदयमङ्गुष्ठो भगमालिनी || आ || इः सूक्ष्मा शाल्मली विद्या चन्द्रः पूषा सुगुह्यकः | सुमित्रं सुन्दरो वीरः कोटरः काटरः पयः | भ्रूमध्यो माधवस्तुष्टिर्दक्षनेत्रश्च नासिका | शान्तः कान्तः कामिनी च कामो विघ्नविनायकः | नेपालो भरणी रुद्रो नित्या क्लिन्ना च पावकः || इः || ईस्त्रिमूर्तिर्महामाया लोलाक्षी वमलोचनम् | गोविन्दः शेखरः पुष्टिः सुभद्रा रत्नसंज्ञकः | विष्णुर्लक्ष्मीः प्रहासश्च वायविशुद्धः परापरः | कलोत्तरीयो भेरुण्डा रतिश्च पौण्ड्रवर्द्धनः | शिवोत्तमः शिवा तुष्टिश्चतुर्थी बिन्दुमालिनी | वैष्णवी वैन्दवी जिह्वा कामकलसनादका | पावकः कोटरः कीर्तिर्मोहिनी कालकारिका | कुचद्वन्द्वं तर्जनी च शान्तिस्त्रिपुरसुन्दरी || ई || उः शङ्करो वर्त्तुलाक्षो भूतः कल्याणवाचकः | अमरेशो दक्षकर्णः षड्वक्त्रो मोहनः शिवः | उग्रप्रभुर्धृतिर्विष्णर्विश्वकर्मा महेश्वरः | शत्रुघ्नश्चेटिका पुष्टिः पञ्चमी वह्निवासिनी | कामघ्नः कामना चेशो मोहिनी विघ्नहृन्मही | डटसूः कुटिला श्रोत्रं पारद्वीपो वृषो हरः || उ || ऊः कण्ठको रतिः शान्तिः क्षोधनो मधुसूदनः | प्. १०३) कामराजः कुजेशश्च महेशो वामकर्णकः | अर्घीशो भैरवः सूक्ष्मो दीर्घघोणा सरस्वती | विलासिनी विघ्नकर्ता लक्ष्मणो रूपकर्षिणी | महाविद्येश्वरी षष्ठी षण्डो भूः कान्यकुब्जकः || ऊ || ऋः पुर्दीर्घमुखी रुद्रो देवमाता त्रिविक्रमः | भावभूतिः क्रिया क्रूरा रेचिका नासिकाधृतः | एकपादशिरोमाला मण्डला शान्तिनी जलम् | कर्णः कामलभा मेधो निवृत्तिर्गणनायकः | रोहिणी शिवदूती च पूर्णगिरिश्च सप्तमी || ऋ || ॠः क्रोधोऽतिथिशो वाणी वामनो गोऽथ श्रीधृतिः | ऊर्द्ध्वमुखी निशानाथः पद्ममालाविनष्टधीः | शशिनी मोचिका श्रेष्ठा दैत्यमाता प्रतिष्ठिता | एकदन्ताह्वयो माता हरिता मिथुनो दया | कोमलः श्यामला मेधी प्रतिष्ठा पतिरष्टमी | ब्रह्मण्यमिव कीलाले पावको गन्धकर्षिणी || ॠ || ऌः स्थाणुः श्रीधरः शुद्धो मेधधूम्रो वको वियत् | देवयोनिर्दक्षगण्डो वहेशः कौन्तरुद्रकौ | विश्वेश्वरो दीर्घजिह्वा महेन्द्रो लाङ्गलिः परा | चन्द्रिका पार्थिवो धूम्रा द्विदन्तः कामवर्द्धनः | शुचिस्मिता च नवमी कान्तिरायातकेश्वरः | चित्ताकर्षिणी काशश्च तृतीयकुलसुन्दरी || ऌ || ॡकारः कमला हर्षा हृषीकेशो मधुव्रतः | सूक्ष्मा कान्तिर्वामगण्डो रुद्रः कामोदरी सुरा | शान्तिकृत् स्वस्तिका शक्रो मायावी लोलुपो वियत् | कुशमी सुस्थिरो माता नीलपीतो गजाननः | कामिनी विश्वया कालो नित्याशुद्धः शुचिः कृती | सूर्यो धैर्ययोऽकर्षणी च एकाकी दनुजप्रसूः || ॡ || एकारो वास्तवः शक्तिर्झीण्टीशोष्ठो भगं मरुत् | सूक्ष्माभूतोऽर्द्धकेशी च ज्योत्स्ना श्रद्धा प्रमर्दनः | भयं ज्ञानं कृपा धीरा जङ्घा सर्वसमुद्भवः | वह्निर्विष्णुर्भगवती कुण्डली मोहिनी वसः | योषिदाधारशक्तिश्च त्रिकोणा ईशसंज्ञकः | सन्धिरेकादशी भद्रा पद्मनाभः कुलाचलः || ए || प्. १०४) ऐर्लज्जा भौतिकः कान्ता वायवी मोहिनी विभुः | दक्षा दामोदरः प्रज्ञोऽधरो विकृतमुख्यपि | क्षमात्मको जगद्योनिः परः परनिबोधकृत् | ज्ञानामृता कपर्दिश्रीः पीठेशोऽग्निः समातृकः | त्रिपुरा लोहिता राज्ञी वाग्भवो भौतिकासनः | महेश्वरो द्वादशी च विमलश्च सरस्वती | कामकोटो वामजानुरंशुमान् विजया जटा || ऐ || ओकारः सत्यपीयूषौ पश्चिमास्यः श्रुतिः स्थिरा | सद्योजातो वासुदेवो गायत्री दीर्घजङ्घकः | आप्यायनी चोर्द्ध्वदन्तो लक्ष्मीर्वाणीमुखी द्विजः | उद्देश्यदर्शकस्तीव्रः कैलासो वसुधाक्षरः | प्रणवांशो ब्रह्मसूत्रमजेशः सर्वमङ्गला | त्रयोदशी दीर्घनासा रतिनाथो दिगम्बरा | त्रैलोक्यविजया प्रज्ञा प्रीतिर्वीजादिकर्षिणी || ओ || औकारः शक्तिको नादस्तेजसो वामजङ्घकः | मनुबद्धग्रहेणश्च शङ्कुकर्णः सदाशिवः | अधोदन्तश्च कण्ठोष्ठौ सङ्कर्षणः सरस्वती | आज्ञा चोर्द्ध्वमुखी शान्तो व्यापिनी प्रकृतः परः | अनन्ता ज्वालिनी व्योमा चतुर्दशी रतिः प्रियः | नेत्रमात्मा कर्षणि च ज्वालामालिनिका भृगुः || औ || अङ्कारश्चक्षुषो दन्तो घटिका समगुह्यकः | प्रद्युम्नः श्रीमुखी प्रीतिर्वीजयोनिर्वृषध्वजः | परं शशी प्रमाणीशः सोमबिन्दुः कलानिधिः | अक्रूरश्चेतना नादपूर्णा दुःखहरः शिवः | शिरःशम्भुर्नरेशश्च सुखदुःखप्रवर्त्तकः | पूर्णिमा रेवती शुद्धः कन्याचरवियद्रविः | अमृता कर्षिणी शून्यं विचित्रा व्योमरूपिणी | केदारो रात्रिनाशश्च कुब्जिका चैव वुद्बुदः || अं || अः कण्ठको महासेनः काला पूर्णामृता हरिः | इच्चहा भद्रा गणेशश्च रतिविद्यामुखी सुखम् | द्विबिन्दुरसना सोमोऽनिबद्धो दुःखसूचकः | द्विजिह्वः कुण्डलं वक्त्रः सर्गः शक्तिर्निशाकरः | सुन्दरी सुयशानन्ता गणनाथो महेश्वरः || अः || कः क्रोधीशो महाकाली कामदेव प्रकाशकः | प्. १०५) कपाली तेजसः शान्तिर्वासुदेवो जयानलः | चक्री प्रजापतिः सृष्टिर्दक्षस्कन्धो विशाम्पतिः | अनन्तः पार्थिवो बिन्दुस्तापिनी परमात्मकः | वर्गाद्यश्च मुखी ब्रह्मा स खाद्योऽम्भः शिवो जलम् | माहेश्वरी तुला पुष्पा मङ्गलश्चरणं करः | नित्या कामेश्वरी मुख्यः कामरूपो गजेन्द्रकः | श्रीपुरं रमणो वङ्गकुसुमा परमात्मकः || क || खः प्रचण्डः कामरूपी ऋद्धिर्वह्निः सरस्वती | आकाशमिन्द्रियं दुर्गा चण्डीशस्तापिनी गुरुः | शिखण्डी दन्तजातीशः कफोणिर्गरुतो यदि | शून्यं कपाली कल्याणी सूर्पकर्णो जरामरः | शुभ्राग्नेया चण्डलिङ्गो जनाव्याङ्गारखड्गकौ || ख || गो गौरी गौरवो गङ्गा गणेशो गोकुलेश्वरः | शार्ङ्गी पञ्चान्तको गाथा गन्धर्वः सर्वगः स्मृतिः | सर्वसिद्धिः प्रभा धूम्रा द्विजाख्यः शिवदर्शनः | विश्वात्मा गौः पृथग्रूपा बालबद्धस्त्रिलोचनः | गीतं सरस्वती विद्या भोगिनी नन्दनो धरा | भोगवती च हृदयं ज्ञानं जालन्धरो लवः || ग || घः खड्गी घुर्घुरो घण्टी घण्टीशस्त्रिपुरान्तकः | वायुः शिवोत्तमः सत्या किङ्किणी घोरनायकः | मरीचिर्वरुणो मेधा कालरूपी च दाम्भिकः | लम्बोदरा ज्वालमूलं नन्देशो हननं ध्वनिः | त्रैलोक्यविद्यासंहर्ता कामाख्यमनघामयः || घ || ङः शङ्खी भैरवश्चण्डो बिन्दूत्तंसः शिशुप्रियः | एकरुद्रो दक्षनखः खर्परो विषयस्पृहा | कान्तिः श्वेताह्वयो धीरो द्विजात्मा ज्वालिनी वियत् | मन्त्रशक्तिश्च वदनो विघ्नेशी चात्मनायकः | एकनेत्रो महानन्दो दुर्द्धरश्चन्द्रमा यतिः | शिवयोषा नीलकण्ठः कामेशी च मयांशुकौ || ङ || च पुष्करो हली वाणी चात्मशक्तिः सुदर्शनः | चर्ममुण्डधरो भूत्वा महिषाचारसन्धिनी | एकरूपो रुचिः कूर्मश्चामुण्डा दीर्घवालुकः | वामबाहुर्मूलमाया चतुर्मूर्तिस्वरूपिणी | दयितश्च द्विनेत्रश्च लक्ष्मीस्त्रितयलोचनः | प्. १०६) चन्दनं चन्द्रमा दैवश्चेतनोवृश्चिको बुधः | देवी केटमुखेच्छात्मा कौमारी पूर्वफल्गुनी | अनङ्गमेखला वायुर्मोदिनी च मुलावती || च || छश्छन्दनं सुषुम्ना च पशुः पतिमृतिः | निर्मलं तरलं वह्निर्भूतमात्रा विलासिनी | एकनेत्रश्च वृषली द्विशिरा वामकूर्परः | गोकर्णा लाङ्गली वामः काममत्ता सदाशिवः | माता निशाचरः पायुर्विक्षतः स्थितिशब्दकः || छ || जः शवो वानरः शूली भोगदा विजया स्थिरा | ललदेवो जयो जेता धातकी सुमुखी विभुः | लम्बोदरी स्मृतिः शाखा सुप्रभा कर्तृका धरा | दीर्घरूपो बहुरुचिर्हंसो नन्दीं तेजाः सुराधिपः | जवनो वेगितो वामो मानवाक्षः सदात्मकः | हृन्मारुतेश्वरो वेगी चामोदो मदविह्वलः || ज || झो झङ्कारी गुहो झज्झावायुः सत्यः षडुन्नतः | अजेशो द्राविणी नादः पाशी जिह्वा जलं स्थितिः | विराजेन्द्रो धनुर्हस्तः कर्कशो नादजः कुजः | दीर्घबाहुबलो रूपमाकन्दितः सुचञ्चलः | दुर्मुखो नष्ट आत्मवान् विकटाकुचमण्डलः | कलहंसप्रिया वामा अङ्गुलीमध्यपर्वकः | दक्षहासाष्टहासश्च पाथात्मा व्यञ्जनः स्वरः || झ || ञकारो बोधिनी विश्वा कुण्डली मथदो वियत् | कौमारी नागविज्ञानी सव्याङ्गुलनथरो वकः | सर्वेशचूर्णिता बुद्धिः स्वर्गात्मा घर्घरध्वनिः | धर्मैकपादौ सुमुखौ विरजा चन्दनेश्वरी | गायनः पुष्पधन्वा च रागात्मा च वराक्षिणी || ञ || टष्टङ्कारः कपाली च सोमवाः खेचरी ध्वनिः | मुकुन्दो विनदा पृथ्वी वैष्णवी वारुणी नवः | दक्षाङ्गकार्द्धचन्द्रश्च जरा भूतिः पुनर्भवः | वृहस्पतिधनुश्चित्रा प्रमोदा विमला कटिः | राजा गिरिर्महाधनुर्घ्राणात्मा सुमुखो मरुत् || ट || ठः शून्यो मञ्जरी वीजः पाणिनी लाङ्गली क्षया | वनजो नन्दनो जिह्वा सुनञ्जघूर्णकः सुधा | वर्त्तुलः कुण्डलो वह्निरमृतं चन्द्रमण्डलः | दक्षजानूरुभावश्च देवभक्षो वृहद्ध्वनिः | प्. १०७) एकपादो विभूतिश्च ललाटं सर्वमित्रकः | वृषघ्नो नलिनी विष्णुर्महेशो ग्रामणीः शशी || ठ || डः स्मृतिर्दारुको नन्दिरूपिणी योगिनीप्रियः | कौमारी शङ्करस्त्रासस्त्रिवक्रो नदको ध्वनिः | दुरूहो जटिली भीमा द्विजिह्वः पृथिवी सती | कोरगिरिः क्षमा कान्तिर्नाभिः स्वाती च लोचनम् || ड || ढो ढक्कानिर्णयः पूर्वो यज्ञेशादनदेश्वरः || अर्द्धनारीश्वरस्तोयमिश्वरी त्रिशिखी नवः | दक्षपादाङ्गुलेर्मूलं सिद्धिदण्डा विनायकः | प्रहासा त्रिवरा ऋद्धिर्निर्गुणो निधनो ध्वनिः | विघ्नेशः पालिनी त्वक्कधारिणी क्रोडपुच्छकः | एलापूरं त्वगात्मा च विशाखा श्रीमनो रतिः || ढ || णो निर्गुणं रतिज्ञानं जम्भनः पक्षिवाहनः | जया शम्भो नरकजित् निष्कला यीगिनीप्रियः | द्विमुखं कोटवी श्रोत्रं समृद्धिर्बोधनी मता | त्रेइनेत्रो मानुषी व्योम दक्षपादाङ्गुलेर्मुखः | बाधवः शङ्खिनी वीरो नारायणश्च निर्णयः || ण || तः पूतना हरिः शुद्धिः शक्ती शक्तिर्जटी ध्वजा | वामस्फिक्वामकट्यौ च कामिनी मध्यकर्णकः | आषाढी तण्डतुन्नश्च कामिकापृष्ठपुच्छकः | रत्नकश्च श्याममुखी वाराही मकरोऽरुणा | सुगतोऽर्द्धमुखा बुद्धजानुश्च क्रोडपुच्छकः | गन्धो विस्वा मरुच्छत्रश्चानुराधा च सौरकः | जयन्ति पुलको भ्रान्तिरनङ्गमदनातुरा || त || थः स्थिरामी महाग्रन्थिर्ग्रन्थिर्ग्राहो भयानकः | शिली शिरसिजो दण्डी भद्रकाली शिलोच्चयः | कृष्णो बुद्धिर्विकर्मा च दक्षनासाधिपोऽमरः | वरदा भोगदा केशो वामजानुरसोऽनलः | लोलौ जर्जयिनी गुह्यः शरच्चन्द्रो दिवाकरः || थ || दोऽद्रीशोधातकिर्धाता दाता दलं कलत्रकम् | दीनं ज्ञानञ्च दानञ्च भक्तिराहवनी धरा | सुषुम्ना योगिनी सद्यः कुण्डली वामगुल्फकः | कात्यायनी शिवा दुर्गा लङ्घनाना त्रिकण्डकी | स्वस्तिकः कुटिलारूपः कृष्णश्चोमाजितेन्द्रियः | प्. १०८) धर्महृद्वामदेवश्च भ्रमा बहुसुचञ्चला | हरिद्रापुरमत्रौ च दक्षपाणिस्त्रिरेखकः || द || धो धनार्थो रुचिः स्थाणुः सात्त्वतो योगिनीप्रियः | मीनेशः शङ्खिनी तोयं नागेशो विश्वपावनी | धिषणा धरणा चिन्ता नेत्रयुग्मं प्रियो मतिः | पीतवासा त्रिवर्णा च धाता धर्मप्लवङ्गमः | सन्दर्शो मोहनो लज्जा वज्रतुण्डाधरं धरा | वामपादाङ्गुलेर्मूलं जेष्ठा सुरपुरम्भवः | स्पर्शात्मा दीर्घजङ्घा च धनेशो धनसञ्चयः || ध || नो गर्जिनी क्षमा सौरिर्वारुणी विश्वपावनी | मेषश्च सविता नेत्रं दन्तुरो नारदोऽञ्जनः | ऊर्द्धचामी द्विरण्डश्च वामपादाङ्गुलेर्मुखः | वैनतेयस्तुतिर्वत्मस्त्वरणिर्बालिरागमः | वामनो ज्वालिनी दीर्घो निरीहः सुगतिर्वियत् | शब्दात्मा दीर्घघोणा च हस्तिनापुरमेचकौ | गिरिनायकनीलौ च शिवो नादिर्महामतिः || न || पः पूरप्रियता तीक्ष्णा लोहितः पञ्चमो रमा | गुह्यकर्त्ता निधिः शेषः कालरात्रिः सुवाहिता | तपनः पालनः पाता पद्मरेणुर्निरञ्जनः | सावित्री पातिनी पानं वीरतत्त्वो धनुर्धरः | दक्षपार्श्वश्च सेनानी मरीचिः पवनाशनिः | उड्डीशं जयिनी कुम्भोऽलसं रेखा च मोहकः | मूला द्वितीयमिन्द्राणी लोकाक्षी मन आत्मनः || प || फः सखई दुर्गिणी धूम्रा वामपार्श्वो जनार्दनः | जया पादः शिखा रौद्री फेत्कारः शाखिनीप्रियः | उमाविहङ्गमः कालः कुब्जिनी प्रियपावकौ | प्रलयाग्निर्नीलपादोऽक्षरः पशुपतिः शशी | फुत्कारो यामिनी व्यक्ता पावनो मोहवर्द्धनः | निष्फलवागहङ्कारः प्रयागो ग्रामणीः फलम् || फ || बोऽवनीभूधरो मार्गो घर्घरी लोचनप्रियः | प्रचेताः कलसः पक्षी स्थलगण्डः कपर्दिनी | पृष्ठवंशोभयामात्तः शिखिवाहो युगन्धरः | मुखबिन्दुर्बली घण्टा योद्धा त्रिलोचनप्रियः | क्लेदिनी तापिता भूमिसुगणिन्द्रबलिप्रियः | सुरभिर्मुखविष्णुश्च संहारो वसुधाधिपः | प्. १०९) षष्ठी पुरं चपेटा च मोदको गगनं प्रति | पूर्वाषाढामध्यलिङ्गौ शनिः कुम्भतृतीयकौ || ब || भः क्लिन्ना भ्रमरो भीमो विश्वमूर्तिर्निशा भयम् | द्विरण्डो भूषणो मूलं यज्ञसूत्रस्थ वाचकः | नक्षत्रं भ्रमणा दीप्तिर्वयो भूमिः पयो नभः | नाभिर्भद्रं महाबाहुर्विश्वमूर्तिर्विताण्डकः | प्राणात्मा तापिनी वज्रा विश्वरूपी च चन्द्रिका | भीमसेनः सुधासेनः मुखो मायापुरं हरः || भ || मः काली क्लेशितः कालो महाकालो महान्तकः | वैकुण्ठो वसुधा चन्द्रो रविः पुरुषराजकः | कालभद्रो जया मेधा विश्वदा दीप्तसंज्ञकः | जठरञ्च भ्रमा मानं लक्ष्मीर्मातोग्रबन्धनौ | विषं शिवो महा महावीरः शशिप्रभा जनेश्वरः | प्रमत्तः प्रियसूरुद्रः सर्वाङ्गो वह्निमण्डलम् | मातङ्गमालिनी बिन्दुः श्रवणाभरथो वियत् || म || यो वाणी वसुधा वायुविकृतिः पुरुषोत्तमः | युगान्तः श्वसनः शीघ्रो धूमार्च्चिः प्राणिसेवकः | शङ्खा भ्रमो जटी लोला वायुवेगीयशङ्करी | सङ्कर्षणः क्षपा बालो हृदयं कपिला प्रभा | आग्नेयो व्यापकस्त्यागो होमो यानं प्रमा सुखम् | चण्डः सर्वेश्वरी धूमश्चामुण्डा सुमुखेश्वरी || त्वगात्मा मलयो माता हंसिनी भृङ्गिनायकः || तेन मः शोषको मीनो धनिष्ठानङ्गवेदिनी | मेष्ठः सोमं पक्तिनामा पापहा प्राणसंज्ञकः || य || रो रक्तः क्रोधिनी रेफः पावकस्त्वोजसो मतः | प्रकाशा दर्शनो दीपो रतकृष्णा परं बली | भुजङ्गेशो मतिः सूर्यो धातुरक्तः प्रकाशकः | व्यापको रेवती दासं कुक्ष्यंशो वह्निमण्डलम् | उग्ररेखा स्थूलदण्डो वेदकण्ठपला पुरा | प्रकृतिः मुगलो ब्रह्मशब्दश्च गायको धनम् | श्रीकण्ठ उष्मा हृदयं मुण्डी त्रिपुरसुन्दरी | सविन्दुयोनिजो ज्वाला श्रीशैलो विश्वतोमुखी || र || लश्चन्द्रः पुतना पृथ्वी माधवः शत्रुवाचकः | बलानुजः पिनाकीशो व्यापको मांससंज्ञकः | प्. ११०) खड्गी नादोऽमृतं देवी लवणं वारुणीपतिः | शिखा वाणी क्रिया माता भामिनी कामिनी प्रिया | ज्वालिनी वेगिनी नादः प्रद्युम्नः शोषणो हरिः | विश्वात्ममन्द्रौ बली चेतो मेरुर्गिरिः कला रसः || ल || वो बालो वारुणी सूक्ष्मा वरुणो मेदसंज्ञकः | खड्गीशो ज्वालिनी वङ्कः कलसध्वनिवाचकः | उत्कारीशस्तु नावीतो वज्रा स्फिक् सागरः शुचिः | त्रिधातुः शङ्करः श्रेष्ठो विशेषो यमसादनम् || व || शः सव्यश्च कामरूपकामरूपौ महामतिः | सौख्यनामा कुमारोऽस्ति श्रीकण्ठो वृषकेतनः | वृषघ्नः शयनं शान्ता सुभगा विस्फुलिङ्गिनी | मृत्युर्देवो महालक्ष्मीर्महेन्द्रः कुलकौलिनी | बाहुर्हंसो वियद्वक्त्रं हृदनङ्गाङ्कुशः खलः | वामोरुः पुण्डरीकात्मा कान्तिः कल्याणवाचकः || श || षः श्वेतो वासुदेवश्च पीता प्रज्ञा विनायकः | परमेष्ठी वामबाहुः श्रेष्ठो गर्भविमोचनः | लम्बोदरो यमोऽजेशः कामधुक् कामधूमकः | सुश्रीरुष्मा वृषो लज्जा मरुद्भक्ष्यः प्रियः शिवः | सूर्यात्मा जठरः कोषो मत्ता वक्षोविदारिणी | कलकण्ठो मध्यभिन्ना युद्धात्मा मलपूः शिवः || ष || सो हंसः सुयशा विष्णुर्भृग्वीशश्चन्द्रसंज्ञकः | जगद्वीजं शक्तिनामा सोऽहं वेशरती भृगुः | प्रकृतिरीश्वरः शुद्धः प्रभा श्वेता कुलोज्ज्वलः | दक्षपादोऽमृतं ब्राह्मी परमात्मा परोऽक्षरः | सुरूपा च गुणेशो गौः कलकण्ठो वृकोदरी | प्राणाद्याश्च पुरा देवी लक्ष्मीः सोमो हिरण्यपुः | दुर्गोत्तारिणी सम्मोहाज्जीवो मूर्त्तिमनोहरः || स || हः शिवो गगनं हंसो नागलोकोऽम्बिकापतिः | नकुलीशो जगत्प्राणः प्राणेशः कपिलामलः | परमात्मात्मजो जीवो यवाकः शान्तिदोऽङ्गनः | मृगोभयोऽरुणा स्थाणुः क्रुटकूपविरावणः | लक्ष्मीर्मविहरः शम्भुः प्राणशङ्किललाटजः | स्वकोपवारणः शूली चैतन्यं पादपूरणः | महालक्ष्मीः परं शम्भुः शाखीठः सोममण्डलम् || ह || प्. १११) ला पृथ्वी विमला मेघोऽनन्तोऽव्यवहासिता | व्यापिनी शिवदा केतुर्जगत्सारतरं हठः | ग्लौर्मृडानी च वेदार्थसारो नारायणः स्वयम् | जठरो नकुलिः पीता शिवेशोऽनङ्गमालिनी || ल || क्षः कोपस्तुम्बुकः कालो रूक्षः संवर्त्तकः परः | नृसिंहो विद्युता माया महातेजा युगान्तकः | परात्मा क्रोधसंहारौ बलान्तो मेरुवाचकः | सर्वाङ्गः सागरः कामः संयोगान्त्यस्त्रिपूरकः | क्षेत्रपालो महाक्षोभो मातृकान्तानलक्षयः | मुखं कव्यवहानन्ता कालजिह्वा गणेश्वरः | छायापुत्रश्च सङ्घातो मलयश्रीर्ललाटकः || क्ष || इति श्रीप्राणतोषिण्यां प्रथमे सर्गकाण्डे वर्णाभिधानकथनं नामाष्टमः परिच्छेदः || मन्त्राणां वर्णमयत्वात् वर्णप्रकरणानन्तरं मन्त्रप्रकरणस्यौचित्यात् मन्त्रप्रकरणमुच्यते विश्वसारतन्त्रे तृतीयपटले || अथ मन्त्रान् प्रवक्ष्यामि शृणुष्व कमलानने ! | यस्य प्रसादमात्रेण चतुर्वर्गं लभेन्नरः | कैलासस्य चतुर्दिक्षु मन्त्राणां साधकस्य च | सन्ति सर्वत्र तन्त्राणि चतुर्द्धा परमेश्वरि ! | कोटिकोटिश्च मन्त्राणां यन्त्राणां साधकस्य च | पृथिव्यां देवलोकेषु गन्धर्वेषु रसातले | नरलोके ऋषिलोके कुष्माण्डराक्षसेषु च | नानारूपाणि तन्त्राणि सन्ति वैशेषिकाणि च | सर्वेषां तन्त्रमन्त्राणां मानुषेषु विशिष्यते || तथा | मुक्तापीतपयोदविद्रुमजवावर्णैर्मुखैः पञ्चभिस्त्र्यक्षैरञ्जितमीशमिन्दुमुकुटं पूर्णेन्दुकोटिप्रभम् | शूलं तङ्ककृपाणवज्रदहनान् नागेन्द्रघण्टाङ्कुशान् पाशं भीतिहरं दधानमसिताकल्पोज्ज्वलाङ्गं भजे || प्रणम्य कथयिष्येऽहं सर्वलोकहितं परम् | यस्मिन् यादृश आचारस्तत्र धर्मस्तु तादृशः | कृतार्थस्तेन जायेत स्वर्गमोक्षसमन्वितः | भ्रान्तिस्तत्र न कर्त्तव्या तदा सिद्धिः प्रजायते || तथा | प्. ११२) मुक्तामुखे देवतायाः सर्वमन्त्रं जगाद, सः | यक्षगन्धर्वनागेषु तथा पीतमुखेन च | कुष्माण्डविघ्नलोश?शु पयोदेन मुखेन वै | वैदूर्येण जवाभेन मनुष्येषु निगद्यते | शिष्येभ्यो दापयामास महाविद्या शुरेश्वरः | शिष्येभ्यो दापनप्रकारस्तु गायत्रीतन्त्रे दशमब्राह्मणपटले || शिव उवाच || लम्बोदर ! महाभाग ! शृणु मे परमं वचः | इदं महासुसन्दर्भं मम वक्त्राद्विनिर्गतम् | निर्गतं पार्वती वक्त्रात्तन्त्रं परमदुर्लभम् | विलिख्य बहुयत्नेन गच्छ सिद्धाश्रमं सुत ! | यत्र तिष्ठन्ति मुनयो वेदवेदाङ्गपारगाः | अणिमादिगुणैर्युक्तः शीघ्रं त्वं भव मे सुत ! | इत्युक्तः शङ्करेणासौ चाष्टबाहुरभूत्ततः | चतुर्भिर्हस्तैः संलिख्य शिवाय विनिवेदयेत् || शिव उवाच || गच्छ पुत्र ! महावाहो ! तन्त्रमादाय सत्वरम् | सिद्धाश्रमं वनं रम्यं यथेन्द्रस्य च नन्दनम् | प्रणम्य प्रययौ शीघ्रं तन्त्रमादाय तद्वनम् || इत्युपक्रम्य || मुनेर्वाक्यं ततः श्रुत्वा तत्तन्त्रं मुनये ददौ | एवं तन्त्राणि सर्वाणि विलिख्य विनिवेदयेत् || इति पृथिव्यां तन्त्रावतरणप्रकारः || विश्वसारे || जीवकोटिप्रविष्टा सा महाविद्या महेश्वरि ! | महाविद्या महेशानि ! जीवेनैव प्रकीर्तिता | जीवेजीवत्वसिद्धिः स्याद्देवदेवत्वसिद्धये | मातृकावर्णभेदेभ्यः सर्वे मन्त्राः प्रजज्ञिरे | प्रजज्ञिरे प्रादुर्वभूवुरित्यर्थः || महाविद्या महापूर्वा महामन्त्राश्च भाविनि ! | सर्वेषां बीजमित्युक्तं शङ्करस्य मतेन च | कुलमूलावतारकल्पसूत्रटीकाधृततापनी च | परमशिवभट्टारकः श्रुत्यष्टादशविद्याः सर्वाणि दर्शनानि च लीलया तत्तदवस्थापन्नः प्रणीय सविमत्या भगवत्या स्वात्माविभिन्नया पृष्टः पञ्चभिर्मुखैः पञ्चाम्नायान् परमार्थस्वरूपान् प्रणिन्ये इति | एतान् व्याचक्षते शङ्कराचार्याः | प्ररमशिव इति तदुक्तं परिमलोल्लासे || प्. ११३) परमेशः प्रसन्नात्मा प्रकाशस्य महेशितुः | प्रथमो यः परिस्पन्दः शिवतत्त्वं तदुच्यते || भट्टारकः सर्वनियमकर्त्ता | कुलार्णवे पञ्चमखण्डे सप्तदशोल्लासे || भवपापप्रशमनात् टङ्कारेन्दुकशेखरात् | रक्षणात् कमनीयाद्वा भट्टारक इति स्मृतः || श्रुतिप्रसिद्धा अष्टादशविद्या इति | चत्वारो वेदा उपवेदाश्चत्वारः षडङ्गानि पुराणन्यायमीमांसाधर्मशास्त्राण्येतावत्यः || श्रुतिप्रसिद्धा इति सर्वतः प्रामाण्येनोक्तम् | चत्वारो वेदा इति ऋक्सामाथर्वयजूंषि | उपवेदा इत्यायुर्वेदगान्धर्ववेददण्डनीतिधनुर्वेदा यथाक्रममुक्तवेदानामित्यवगन्तव्यम् | तथा च शौनकोक्तौ चरणव्यूहे ऋग्वेदस्यायुर्वेदोपवेदो यजुर्वेदस्य धनुर्वेदोपवेदः सामवेदस्य गान्धर्ववेदोपवेदोऽथर्ववेदस्यार्थशास्त्राणि भवन्तीति अस्त्रशास्त्राणि भवन्तीति चतुर्थचरणं दाक्षिणात्याः पठन्ति | श्रीभागवते तृतीयस्कन्धे द्वादशाध्याये तु | आयुर्वेदं धनुर्वेदं गान्ध्र्वं वेदमात्मनः | स्थापत्यं चासृजद्वेदं क्रमात् पूर्वादिभिर्मुखैरित्युक्तम् | स्थापत्यं विश्वकर्मशास्त्रमिति स्वामी | तत्तु गृहवास्तुकुण्डादिकरणशास्त्रम् | एतेषां श्रुतिवेदभिन्नशास्त्रेभ्यः प्रामाण्यकीर्त्तनाय सर्वशास्त्राणामादौ निर्देशः कृतः शङ्कराचार्यैः | श्रीधरस्वामिना तु श्रीभगवद्गीताटीकायां स्मृतिशास्त्रापेक्षया दण्डनीतेर्दुर्बलत्वमुक्तम् | तथात्वे त्वायुर्वेदोक्तमहौषधानामभक्ष्यापेयानाम-ग्राह्यत्वं स्यात् | शरलांस्तु तादृशौषधभक्षणे तु प्रायश्चित्तमाहुः | तन्न | एतान्येव व्याधितस्य भिषक्क्रियायामप्रतिषिद्धानि यानि चैवं विधानि तेष्वप्यदोष इति स्मृत्युक्तेः | षडङ्गानीति शिक्षाकल्पव्याकरणनिरुक्तच्छन्दोज्योतींषि | पुराणं पञ्चलक्षणाक्रान्तं व्यासप्रणीतम् | न्यायः कर्ममीमांसा | गौतमेन तथा न्यायमिति वक्ष्यमाणवचनादान्वीक्षिक्यपि | मीमासां ब्रह्ममिमांसा वेदान्त इति यावत् | धर्मशास्त्राणिमन्वादिप्रणीतानि | प्. ११४) एतावत्योऽष्टादशविद्या इति दर्शनानि व्याचक्षते आचार्याः | यथादर्शनानि बौद्धशैवब्राह्मसौरवैष्णवशाक्तानीति | सम्प्रति तु वेदान्तसांख्यमीमांसाविशेषतर्कशास्त्राणि दर्शनानि मन्यन्ते सुधिय इति | लीलयेति लीला इच्छाविशेषः | अन्यथा सृष्टिकर्तृत्वे निरीहस्य भगवतः कारणान्तरापेक्षा नास्त्येव | तत्तदवस्थापन्न इति ब्रह्मविष्णुरुद्रव्यासनारदादिशरीरीति | अत-एव गन्धर्वतन्त्रे प्रथमपटले || प्रथमं हि मया प्रोक्तं शैवं पाशुपतादिकम् | मच्छक्त्यावेशितैर्विप्रैः सम्प्रोक्तानि ततः परम् | कणादेन च सम्प्रोक्तं शास्त्रं वैशेषिकं महत् | गौतमेन तथा न्यायं सांख्यन्तु कपिलेन तु | धिषणेन तथा प्रोक्तं चार्वाकमतिगर्हितम् | दैत्यानां नाशनार्थाय विष्णुना बुद्धरूपिणा | बौद्धशास्त्रं तथा प्रोक्तं लग्ननीलपटादिकम् | आपत्यं श्रुतिवाक्यान्यां दर्शयन् लोकगर्हितम् | कर्मस्वरूपत्याज्यत्वमत्र वै प्रतिपद्यते | सर्वकर्मपरिभ्रष्टं कल्पषन्तु तदुच्यते | गौतमप्रोक्तशास्त्रार्थनिरताः सर्व एव हि | शार्गालीं योनिमापनाः सन्दिग्धाः सर्वकर्मसु | अत-एव महाभारते मोक्षधर्मे काश्यपेन्द्रसंवादे || अहमासं पण्डितको हौतुको वेदनिन्दकः | आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकामिति प्रस्तुत्य आक्रोष्टा चातिवक्ता च ब्रह्मयज्ञषु वै द्विजान् | यस्येयं फलनिष्पत्तिः शृगालत्वं मम द्विजेति ब्राह्मणं प्रति शृगालवाक्यम् || ननु आन्वीक्षीकी दण्डनीतिस्त्रयी त्रिदिवसुन्दरीति कालीकुलसर्वस्वी- यवचनेनाद्यासहस्रनामान्तर्गतत्वेनान्वीक्षिक्याः श्रीमद्दक्षिणकालिकास्वरूपाया अध्ययनरूपोपासनया यदि शृगालत्वं स्यात्तदा चतुर्वर्गफलं कुतो लब्धव्यमिति चेत् सत्यमान्वीक्षिक्यध्यात्मविद्येति ब्रूमः | सा च दत्तात्रेयप्रणीता न गौतमोक्ता | तता च भागवते प्रथमस्कन्धे | षष्ठमत्रेरपत्यत्वं वृतः प्राप्तोऽनुसुयया | प्. ११५) आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवानिति | अत्रिणा वृतः सन् तस्यापत्यत्वं प्राप्तः | कथमित्याह अनुसूयायामामेवापत्यं वृतवानिति दोषदृष्टिमकुर्वन्नित्यर्थः | शेषं सुगमम् | आन्वीक्षिकीमात्मविद्यामिति श्रीधरस्वामिना व्याख्यातम् | न गौतमोक्तविद्या सा तु तर्काह्वयत्वेन पसिद्धेति चेन्नैवम् | तथात्वे आन्वीक्षिकीं तर्कविद्यामिति मोक्षधर्मश्लोके तर्कविद्येति विशेषणमान्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्रयोरित्यमर-सिंहोक्तञ्च न सङ्गच्छते | तस्मात्तयोर्द्वयोरेवान्वीक्षिकीति नामधेयम् | अथ तर्हि उक्तदोषस्तदवस्थ इति सत्यं गन्धर्वतन्त्राभिप्रायमनालोच्य दोषमाशङ्कसे तथाहि | निष्ठाया अतीतार्थाभिधायित्वाच्छार्गालीं योनिमापन्नाः प्राप्तशृगालयोनिकाः सर्व एव गौतमप्रोक्तशास्त्रार्थनिरताः केवलतर्कशास्त्रनिपुणाः सन्तः सर्वकर्मसु सन्दिग्धा भवन्तीति वचनस्य निर्गलितार्थः | शास्त्रान्तरव्यावृत्तिस्तु निपातेन व्यज्यते | अत-एव आम्नायार्थाविवादेन न्यायचिन्तां करोति यः | तेन निःश्रेयसं प्राप्यं शार्गाली योनिरन्यथेति पठन्ति | मोक्षधर्मश्लोकार्थसु | तर्कविद्यामान्वीक्षिकीमनुरक्तोऽहं द्विजानाक्रोष्टातिवक्ता च यस्य ब्राह्मणं प्रत्याक्रोशस्यातिवादस्य च फलनिष्पत्तिर्मम शृगालत्वमिति | युक्तञ्चैतद्वाचिकपापस्य मनुना तथात्वस्य प्रतिपादितत्वात् || तथा च मनुः || शरीरजैः कर्मदोषैर्याति स्थावरतां नरः | वाचिकैः पक्षिजातित्वं मानसैरन्त्यजातितामिति | मानसपापन्तु न गृहस्थानामित्यग्रे वक्ष्यते कलीतरपरं वा | तथा च भागवते प्रथमस्कन्धे | नानुद्वेष्टि कलिं सम्राट् सारङ्ग इव सारभुक् | कुशलान्याशु सिध्यन्ति नेतराणि कृतानि यत् | सारङ्गो भ्रमर इव सारग्राही सम्राट् राजा कलिं नानुद्वेष्टीत्यन्वयः | कुशलानि पुण्यानि आशु सङ्कल्पेन सिध्यन्ति फलन्ति | इतराणि पापानि नाशु सिध्यन्ति यतस्तानि कृतान्येव सिध्यन्ति न तु सङ्कल्पमात्राणीत्यर्थः | प्. ११६) सङ्कल्पः कर्म मानसमित्यमरः | यदि तु तर्कविद्यापाठेन शृगालत्वमुच्यते तदा तु मोक्षधर्मस्याक्रोष्टेत्यादि श्लोकस्य वैयर्ययं स्यादिति सुधीभिर्विचार्ययमिति || गान्धर्वे || द्विजन्मना जैमिनिना सर्ववेदमपार्थतः | निरीश्वरेण वादेन कृतं शास्त्रं महत्तरम् | सविमत्येति सविमतिर्विमर्षरूपा | भगवत्येति भगवती सच्चिदानन्दरूपलक्षणा | स्वात्माविभिन्नयेति | स वै नैव रेमे तस्मादेकाकी न रमते स द्वितीयमैच्छत | सहैतावाननवास यथा स्त्रीपुंसौ सम्परिष्वक्तौ स तावानेवात्मानं द्वेधार्पयेत् | पतिश्च पत्नी चाभवताम् | तस्मादिदमर्द्धं गच्छत इति तस्मात्तु याज्ञवल्क्यस्तस्मादयमाकाशस्त्रिधापूर्ययत एव तां समभवत्ततो मनुष्या अजायन्त सौहे यमीक्षाञ्चक्रे | इति श्रुतिः | एतदुक्तं स्वच्छन्दभैरवे | गुरुशिष्यपदे स्थित्वा स्वयं देवो महेश्वरः | पूर्वोत्तर पदैर्वाक्यैस्तन्त्रान् समवतारयत् || परापञ्चाशिकायामपि | परमेशः प्रकाशात्मा प्रकाशस्य महेशितुः | विमर्षैकस्वभावत्वं न क्वचिद्व्यवधीयते | पञ्चभिर्मुखैरिति ईशानतत्पुरुषवामदेवाघोरसद्योजातस्वरूपैः | पञ्चाम्नायानिति पूर्वपश्चिमदक्षिणोत्तरनिरुत्तरान् सर्वेषां देवानां तत्तत्प्रकरणस्वरूपान् || तदुक्तं भैरवतन्त्रे || पूर्वपश्चिमदक्षिण उत्तरञ्च निरुत्तरमिति | अन्यत्रापि पूर्वाम्नायः पूर्वमुखः पश्चिमः पश्चिमामुखः | दक्षिणो दक्षिणस्तद्वदुत्तरश्चोत्तरः परः | निरुत्तरं तथा चोर्द्धं सिद्धान्तागमरूपिणम् | ऊर्द्धाम्नायपरिज्ञानं नाल्पस्य तपसः फलमिति | अन्यत्र पूर्वाम्नायः शब्दरूपो दक्षिणः कर्णरूपकः | पश्चिमः प्रश्नरूपः स्यादुत्तरश्चोत्तरस्तथा | ऊर्द्ध्वाम्नायस्तत्त्वबोधः केवलानुभवात्मकः || कुलार्णवतन्त्रेऽपि || मम पञ्चमुखेभ्यश्च पञ्चाम्नायाः समुद्गता इत्यादि | परमार्थस्वरूपानिति सर्वेषां शैवाद्याम्नायानां सारभूतान् || प्. ११७) निर्वाणन्त्रे षष्ठपटलेऽपि || विभाव्य सुखपद्मं हि शिवस्य वरवर्णिनि ! | सद्योजतं वामदेवमघोरञ्च ततः परम् | तत्पुरुषं तथेशानं पञ्चवक्त्रं प्रकीर्तितम् | सयोजातञ्च वै शुक्लं शुद्धस्फटिकसन्निभम् | पीतवर्णं तथा सौम्यं वामदेवं मनोहरम् | कृष्णवर्णमघोरञ्च समं भीमविवर्द्धनम् | रक्तं तत्पुरुषं देवि ! दिव्यमूर्तिमनोहरम् | श्यामलञ्च तथेशानं सर्वदेवशिवात्मकम् | चिन्तयेत् पश्चिमे चाद्यं द्वितीयञ्च तथोत्तरे | अघोरं दक्षिणे देवं पूर्वे तत्पुरुषं तथा | ईशानं मध्यतो ज्ञेयं चिन्तयेद्भक्तितत्परः || समयाचारतन्त्रे द्वितीयपटले तु षडाम्नाया उक्ता यथा || पूर्वाम्नायो यदा मन्त्रस्तदा प्राचीदिशि स्थितः | सदाशिवोऽहं भगवानाचारः परिकीर्तितः | एवं वै दक्षिणाम्नायो दक्षिणस्यां दिशि स्थितः | एवमेवोत्तराम्न्याय उत्तरस्यां दिशि स्थितः | मुखमूर्द्ध कृतं देवि ! यत् प्रोक्तं तव सन्निधौ | ऊर्द्ध्वाम्नायश्च कथितो देवानामपि दुर्लभः | यदाचारो मुखे देवि ! यत् प्रोक्तं गिरिजे ! प्रिये ! | अध आम्नाय इत्युक्तः सत्यं सत्यं सुमध्यमे ! | षडाम्नायश्च कथिताश्चोत्पत्तिक्रमनामतः | यस्मिन् यस्मिंश्च ये देवाः कथिताश्च वरानने ! | तान् देवांश्च प्रवक्ष्यामि साधकानां हिताय वै | श्रीविद्याभेदसहिता तारा च त्रिपुरा तथा | भुवनेशी चान्नपूर्णा पूर्वाम्नाये प्रकीर्तिता | वगलामुखी वशिनी त्वरिता धनदा तथा | महिषघ्नी महालक्ष्मीर्दक्षिणाम्नायकीर्तिताः | वाशिनी बालभैरवीत्यर्थः || महासरस्वती विद्या तथा वाग्वादिनी परा | प्रत्यङ्गिरा भवानी च पश्चिमाम्नायकीर्तिताः || कालिकाभेदसहिता ताराभेदैश्च संयुता | मातङ्गी भैरवी च्छिन्ना तथा धूमावती परा | उत्तराम्नायकथिताः कलौ शीघ्रफलप्रदाः | समस्तभेदसहिताः कालिकायाः प्रकीर्त्तिताः | प्. ११८) द्वाविंशत्यक्षरी तासां दक्षिणाम्नायकीर्तिता | तत्परा परमा विद्या न विद्यान्तरगोपिता || पराप्रासादमन्त्रश्च ऊर्द्ध्वाम्नाये प्रकीर्तितः | वागीश्वरादयो देवा अध आम्नायकीर्तिताः | ऊर्द्ध्वाम्नाया अधश्चैव केवलं मोक्षदो भवेत् | धर्मार्थकाममोक्षार्थे आम्नायान्ये प्रकीर्त्तिताः | यथोक्तविधाना भद्रे ! कृत्वा फलमवाप्नुयात् | पूर्वाम्नायादि सर्वासां विधानं शृणु सुन्दरि ! | कृत्वा येनाशु लभते फलं यदुत्तमोत्तमम् | षट्कर्मफलदा नॄणां षडाम्नायाः प्रकीर्त्तिताः | उत्तराम्नायो देवीशि ! तेषामाशु फलप्रदः || अत-एव पादुकापञ्चकस्तोत्रे षडाम्नायफलोपेतमित्युक्तम् | अत्राम्वायादीनां नानातन्त्रैर्वर्णविरोधः पञ्चसडित्याम्नायविरोधश्चाम्नायादिभेदेन समाधानीय इति पूर्वमुक्तं कल्पभेदेन वा | तत्राम्नायभेदेनाचारभेद उक्तस्तु निरुत्तरतन्त्रे प्रथमपटले || पूर्वाम्नायोदिवं कर्म पाशवं कथितं प्रिये ! | यदुक्तं दक्षिणाम्नाये तदेव पाशवं स्मृतम् | पश्चिमाम्नायजं कर्म पशुवीरसमाश्रितम् | उत्तराम्नायजं कर्म दिव्यवीराश्रितं प्रिये ! | दिव्योऽपि वीरभावेन साधयेत् पितृकानने | वीरासनं विना दिव्यः पूजयेत् पितृकानने | ऊर्द्ध्वाम्नायोदितं कर्म दिव्यभावाश्रितं प्रिये ! | एतेन तन्त्रादीनामेवाम्नायत्वमायातम् | तुल्यप्रमाणत्वज्ञापनाय तु श्रुतिवेदाम्नायानामेकपर्ययायता अमरसिंहेन स्वीकृता | अत-एव मेरुतन्त्रे प्रथमप्रकाशे || न वेदः प्रणवं त्यक्त्वा मन्त्रो वेदसमुत्थितं | तस्माद्वेदपरो मन्त्रो वेदाङ्गश्चागमः स्मृत इति | तन्त्राणां वेदाङ्गत्वमुक्तम् वेदे परो वेदपर उत्तम इत्यर्थः | वेदा मन्त्रा एवाङ्गानि यस्य स तथा निरुत्तरतन्त्रेऽपि || आगमः पञ्चमो वेदः कौलस्तु पञ्चमाश्रम इति | एवञ्च प्रागुक्ततापनीव्याख्याने शङ्कराचार्ययैरेतावत्य इति विशेषणदानेन तापन्युक्ताष्टादशेति विशेषणेन च दर्शनानां पृथङ्निर्देशेनाप्यन्येषां न विद्यात्वं किन्तु सामान्येन शास्त्रत्वमेव | प्. ११९) तानि तु कामसूदनटमुद्राशिल्पाश्वगजरत्नश्येन- परीक्षास्त्रनिर्माणस्थापत्यकेरलिस्वरशकुनराजनीतिकाव्या-लङ्कारप्रभृतीनि | अत-एवं विद्याः शास्त्राणि शिल्पानि नृत्यगीतादिकञ्च यदि सरस्वतीस्तवे विद्याशास्त्रयोः पृथगुपादानम् तर्हि शिल्पादीनामपि शास्त्रत्वात् कथं तत्र पृथङ्निर्देश इति चेन्नैवम् | शिल्पादिशब्देन शिल्पादिक्रिया तन्त्राभिमता अतो न दोषः | तेषां शास्त्रत्वे प्रमाणन्तु कामशास्त्रमजानन्तो रमन्ते पशवो यथेत्यादिवचनम् | अष्टादशविद्यान्तःपातिपुराणविद्यामध्ये प्रचरद्रूपत्वात् सटीकतया निःसन्दिग्धार्थत्वाच्च भागवतमात्रस्य लक्षणमुच्यते | नारदपञ्चरात्रे द्वितीयरात्रे सप्तमाध्याये || ग्रन्थाष्टादशसाहस्त्र्यं द्वादशस्कन्धसम्मितम् | शुकप्रोक्तं भागवतं श्रुत्वा निर्वाणतां व्रजेत् | पुरा भगवता प्रोक्तं कुष्णेण ब्रह्मणे शुके | पुराणसारं शुद्धं तत् तेन भागवतं विदुः || शारदाद्वितीयपटले || मातृकावर्णभेदेभ्यः सर्वे मन्त्राः प्रजज्ञिरे | मन्त्रविद्याविभागेन द्विविधा मन्त्रजातयः | मन्त्राः पुंदेवता ज्ञेया विद्याः स्त्रीदेवताः स्मृताः || प्रयोगसारेऽपि || द्विधा प्रोक्ताश्च ते मन्त्राः सौम्यसौरविभागतः | सौराः पुंदेवता मन्त्रास्ते च मन्त्राः प्रकीर्त्तिताः | सौम्याः स्त्रीदेवतास्तद्वद्विद्यास्ते विश्रुता इति प्रयोगविशेषसिद्ध्यर्थं मन्त्राणां त्रैविध्यमाह शारदायाम् | पुंस्त्रीनपुंसकात्मानो मन्त्राः सर्वे समीरिताः | पुंमन्त्रा हुंफडन्ताः स्युर्द्विष्ठान्ताश्च स्त्रियो मताः | नपुंसका नमोऽन्ताः स्युरित्युक्ता मनवस्त्रिधा || ननु निष्कलचेतन्यात्मकानन्दवाच्यस्य मन्त्रस्य कथं पुंस्त्र्यादिकल्पनमिति चेत् सत्यं वस्तुतो नास्त्येव उपासकानामर्थे कल्पनामात्रं यदाहुः | चिन्मयस्य द्वितीयस्य निष्कलस्याशरीरिणः | उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पना | प्. १२०) हुं फडिति सम्प्रदायाद्व्यस्तसमस्तास्तदन्ता इति | द्विठान्ता इति स्वाहान्त इत्यर्थाः || ठशब्देन लिपिसाम्यादर्थाद्बिन्दुरुच्यते | ठः शून्ये च वृहद्धलाविति कोषात् | शून्यरूपमेव तस्य द्वित्वं तेन विसर्गः स च शक्तिरूप इति द्विठशब्देनाग्निशक्तिः स्वाहोक्ता | प्रयोगसारे तु वषट्स्वाहान्तगाः स्त्रियः | नपुंसका हुं नमोऽन्ता इति मन्त्रास्त्रिधा स्मृताः | तारेणाप्यनुमीयन्ते मन्त्राः स्वाद्यन्तमध्यतः | प्रत्यासन्नात्मभावेन यथा पुंस्त्रीनपुंसकाः | बिन्दुसर्गेन्दुखण्डान्तास्तद्वदेव प्रकीर्त्तिताः | शारदायाम् || शस्तास्ते त्रिविधा मन्त्रा वश्यशान्त्याभिचारके || नाराणणीये || शेषाः पुमांसः शस्तास्ते वश्योच्चाटविशेषतः | क्षुद्रक्रियाद्युपध्वंसे स्त्रियोऽन्यत्र नपुंसकाः | शारदायाम् || अग्नीषोमात्मका मन्त्रा विज्ञेयाः क्रूरसौम्ययोः | पूर्वं मातृकायाः कुण्डल्या आविर्भावस्योक्तत्वात्तस्य अग्नीषोमात्मकत्वात् मन्त्राणामपि तथेति हृदयम् | तत्रैव कर्मणोर्वह्नितारान्त्यवियत्प्रायाः समीरिताः || क्रूरसौम्ययोः कर्मणोरित्यन्वयः | वह्नीरेफः | तार ओंकारः | अन्तः क्षकारः | वियत् हकारः | प्रायःशब्दो बाहुल्यवाची || आग्नेया मनवः सौमाय भूयिष्ठेन्द्वमृताक्षराः | आग्नेया इति पूर्वेण सम्बध्यते || इन्दुः सकारः | तत्त्वन्यासे इन्दुमण्डलस्य सकारादित्वेन न्यस्तत्वात् | अमृतं वकारः || अत्रैकस्य बाहुल्ये तत्त्वम् | उक्तञ्चेशानसंहितायाम् || ताराकाशाद्यन्तवाद्यन्तवर्णा आग्नेयाः स्युः सौम्यवर्णास्ततोऽन्ये | आग्नेयोऽपि स्यात्तु सौम्यो नमोऽन्तः सौम्योऽपि स्यादग्निमन्त्रः फडन्त इति | स्यादाग्नेयः क्रूरकर्मप्रसिद्धः | सौम्यः सौम्यकर कुर्ययाद् यथावदिति || नारायणीयेऽपि || तारोऽन्त्याग्निवियत्प्रायो मन्त्र आग्नेय इष्यते | शिष्टः सौम्यप्रशस्तौ तौ कर्मणोः क्रूरसौम्ययोरिति || शारदायाम् || आग्नेयाः सम्प्रबुद्ध्यन्ते प्राने चरति दक्षिणे || प्. १२१) भागे नाभिस्थिते प्राणे सौम्या बोधं प्रयान्ति च | नाडीद्वयं गते प्राणे सर्वे बोधं प्रयान्ति च | प्रयच्छन्ति शुभं सर्वे प्रबुद्धा मन्त्रिणां सदा || सुप्तकाले प्रयोगो न कार्ययः | उक्तञ्च नारायणीये || सुप्तः प्रबुद्धमात्रो वा मन्त्रः सिद्धिं न यच्छति | स्वापकाले वामवहो जागरे दक्षिणावहः || आग्नेयस्य मनःसौम्यमन्त्रस्यैतद्विपर्यययः || स्वापकाले दक्षिणश्वासो जागरणे वामनिश्वास इति वैपरीत्यम् | प्रबोधकालं जानीयादुभयोरन्तयोर्वहमिति || इति श्रीप्राणतोषिण्यां प्रथमे सर्गकाण्डे आम्नायभेदरूपकेशरकथनं नाम नवमः [नामाष्टमः] परिच्छेदः | यद्यपि छिन्नादिदुष्टमन्त्राणां लक्षणं तन्त्रसारकारेणैव धृतं तथापि तेषां व्याख्यानार्थं नानाशोधनदर्शनार्थञ्चात्र लिख्यते || शारदायाम् | छिन्नादिदुष्टमन्त्रास्ते पालयन्ति न साधकम् | छिन्नो रुद्धः शक्तिहीनः पराङ्मुख इतीरितः | वधिरो नेत्र हीनश्च कीलितः स्तम्भितस्तथा | दग्धः स्रस्तश्च भीतश्च मलिनश्च तिरस्कृतः | भेदितश्च सुषुप्तश्च मदोन्मत्तश्च मूर्च्छितः | हृतवीर्यश्च हीनश्च प्रध्वस्तो बालकः पुनः | कुमारश्च युवा प्रौढो वृद्धोनिस्त्रिंशकस्तथा | निर्वीर्ययः सिद्धिहीनश्च मन्दः कूटस्तथा पुनः | निरंशः सत्त्वहीनश्च केकरो वीजहीनकः | धूमितालिङ्गितौ स्यातां मोहितश्च क्षुधार्त्तकः | अतिदृप्तोऽङ्गहीनः स्यादतिक्रुद्धः समीरितः | अतिक्रूरश्च सव्रीडः शान्तमानस एव च | स्थानभ्रष्टश्च विकरः सातिवृद्धः प्रकीर्त्तितः | निःस्नेहः पीडितश्चापि वक्ष्याम्येषाञ्च लक्षणम् || तथा पुनरित्यनेन कूट एव निरंशक इत्याह | अतिवृद्ध इति निःस्नेहविशेषणम् | तेन निःस्नेह इत्यनन्तरमतिवृद्ध इत्युक्तमिति राघवभट्टः || मनोर्यस्यादिमध्यान्तेष्वानलं वीजमुच्यते | संयुक्तं वा वियुक्तं वा स्वराक्रान्तं त्रिधा पुनः | प्. १२२) चतुर्धा पञ्चधा वाथ स मन्त्रश्छिन्नसंज्ञकः | आदिमध्यावसानेष्विति समुच्चयः | संयुक्तं वा अक्षरान्तरयुक्तं वियुक्तं वा केवलं वा इत्येकैकं द्विः सम्बध्यते | विशिष्टं मलिनं वा विशिष्टं बीजं वा यस्य स छिन्नसंज्ञक इति | बीजं शक्तिबीजं स्वराक्रान्तं दीर्घस्वराक्रान्तम् आ ई ऊ ऐ ओ एतत् स्वरयुक्तम् इति सम्प्रदायविदः | वीजशब्देन मायाबीजं कथमिति चेदुक्तं शैवे || मायावीजस्य नामानि मानिनी शिववल्लवी | वातावर्त्तिः कला वाणी बीजं शक्तिश्च कुण्डलीति || आदिमध्यावसानेषु भूवीजद्वन्द्वलाञ्छितम् | रुद्धमन्त्रः स विज्ञेयो भुक्तिमुक्तिविवर्ज्जितः | भूवीजं लः | द्वन्द्वेति प्रत्येकं सम्बध्यते | पिङ्गलामते | आदौ द्विधा द्विधा मध्ये पुनश्चान्ते द्विधा भवेत् | इन्द्रवीजमसौ मन्त्रो रुद्ध इत्यभिधीयते || मायात्रितत्त्वश्रीवीजवारहीनस्तु यो मनुः | शक्तिहीनः स कथितो यस्य मध्ये न विद्यते | माया भुवजेशीवीजम् | त्रितत्त्वं हुङ्कारः प्रणवो वा | वारः फ्रेङ्कारः | चीबीजं लक्ष्मीवीजम् | एषां न समुच्चयः | तदुक्तं | मायाबीजं न यत्रास्ति त्रितत्त्वं वारमेव वा | श्रीगृहं वापि मन्त्रोऽसौ शक्तिहीनः प्रकीर्त्तितः | पिङ्गलामतेऽपि | मायाबीजं त्रितत्त्वं वा श्रीगृहं यत्र नास्ति चेत् | शक्तिहीन इति ख्यातः सामर्थ्यं हन्ति मन्त्रिण इति || कामबीजं मुखे माया शिरस्यङ्कुशमेव वा | असौ पराङ्मुखः प्रोक्तो हकारो बिन्दुलाञ्छितः | यस्य मध्ये इति पूर्वपद्यचरणेनान्वयः | मुखे आदौ | शिरसि अन्ते | अङ्कुशं क्रोङ्कारः | वाशब्दः समुच्चये | यदुक्तं पिङ्गलामते || कामबीजं नयन्मध्ये मायादावन्तिमोऽङ्कुशः | पराङ्मुख इति प्रोक्तो मनुः सिद्ध्यै पराङ्मुख इति || यन्त्रमुक्तावल्यामपि | यस्य कामकलाबीजं मध्यस्थाने न विद्यते | आदौ मायाङ्कुशश्चान्ते ज्ञेयश्चासौ पराङ्मुख इति || आद्यन्तेमध्येष्बिन्दुर्वा न भवेद्वधिरः स्मृतः | प्. १२३) हकारो बिन्दुलाञ्छित इति पूर्वश्लोकचरणेनान्वयः | बिन्दुलाञ्छित इन्दुरित्यनेनापि सम्बन्ध्यते | आद्यन्तमध्येष्विति न समुच्चयः | यदुक्तम् | शून्यं बिन्दुसमायुक्तमाद्यन्ते वाथ मध्यतः | न भवेज्जीवबीजं वा यस्यासौ वधिरः स्मत इति | केचिद्बिन्दुशब्देन ठकाराख्यमाचक्षते | जीवबीजेयनेन एतदपि परास्तम् | पञ्चवर्णो मनुर्यः स्याद्रेफार्केन्दुविवर्जितः | नेत्रहीनः स विज्ञेयो दुःखशोकामयप्रदः | अर्को हकारः || वैष्णवकृत्तत्त्वन्यासे || अर्कमण्डलतत्त्वस्य हकारादित्वेन न्यस्तत्वात् हकारस्य पुंरूपत्वाद्वा अर्कत्वम् | इन्दुः सकारः | दुःखशोकामयप्रद इति क्रमेण फलम् | यतोऽग्निसूर्ययचन्द्राणां नेत्रत्रयात्मकत्वादेकद्विहीनतः कारणतापि ज्ञेया | तदुक्तं पिङ्गलामते || पञ्चाक्षरस्तु यो मन्त्रो वह्निचन्द्रार्कवर्जितः | नेत्रहीन इति ज्ञेयो दुःखशोकभयावह इति || आदिमध्यावसानेषु हंसप्रासादवाग्भवौ | विद्येते स तु मन्त्रः स्यात् स्तम्भितः सिद्धिरोधकः | हंसस्वरूपं प्रसादो होंवीजम् | वाग्भव ऐंवीजम् || वह्निवायुसमायुक्तो यस्य मन्त्रस्य मूर्द्धनि | सप्तधा दृश्यते तन्तु दग्धं मन्येत मन्त्रवित् | वह्नीरेफः वायुर्यकारस्तेन समवेतः अत ऊर्द्ध्वं वा मूर्द्धनि आदौ | तदुक्तं पिङ्गलामते | आदिस्थैः सप्तभिर्वीजैर्मारुतैः पावकाक्षरम् | दीपितं यत्र तं मन्त्रमार्यया दग्धं प्रचक्षते || अस्त्रं द्वाभ्यां त्रिभिः षड्भिरष्टाभिर्दृश्यतेऽक्षरैः | स्रस्तः सोऽभिहितो यस्य मुखेन प्रणवः स्मृतः | द्वाभ्यां त्रिभिः षड्भिरष्टाभिर्वा अक्षरैर्वा यस्य अस्त्रं फट्कारो दृश्यते | पिङ्गलामते भीतनाम्ना अयमुक्तः | आदिमध्यावसानेषु यदि मन्त्रोऽसंयुतः | भीत इत्युच्यते मन्त्रः फलहीनो विशारदैः || शिवो वा शक्तिरथ वा भीताख्यः स प्रकीर्त्तितः | यस्य मुखेनेत्यादिगतश्लोकचरणेनान्वयः | यस्य मुखे आदौ शिवो हङ्कारः शक्तिः सकारो नास्ति | प्. १२४) अयन्तु मन्त्रान्तरेणोक्तः | पिङ्गलामते || शिवशक्तिस्तथोङ्कारो यस्यादौ नास्ति तं मनुम् | वदन्ति मातृकाहीनं हीनशक्तिप्रदायकम् || आदिमध्यावसानेषु भवेन्मार्णचतुष्टयम् | यस्य मन्त्रः स मलिनो मन्त्रवित्तु विवर्ज्जयेत् || आदीत्यादेः समुच्चयः | मार्णचतुष्टयमित्यत्रापि समुच्चयः | तेन स्थानत्रये मिलित्वा मार्णचतुष्टयमपेक्षितम् | तदुक्तं पिङ्गलामते || आदिमध्यान्तदेशेषु चतुर्द्धा यत्र दृश्यते | मकारो मलिनं विद्यात्तं मन्त्रं मन्त्रवित् सदा || यस्य मध्ये दकारो वा क्रोधो वा मूर्द्धनि द्विधा | अस्त्रं तिष्ठति मन्त्रः स तिरस्कृत उदाहृतः | क्रोधो हूं वीजम् | मध्ये दकारक्रोधयोर्विकल्प इति | मूर्द्धनि अन्ते | अस्त्रं द्विधास्त्रमिति सम्बन्धः | तदुक्तम् | दकारः क्रोधबीजं वा यस्य मध्ये व्यवस्थितम् | फड्द्वयञ्च स्थिते प्राप्ते यन्मनोः स तिरस्कृत इति || ओं द्वयं मुखे शीर्षे वषडस्त्रञ्च मध्यतः | यस्यासौ भेदितो मन्त्रस्त्याज्यः सिद्धिषु सूरिभिः | शीर्षे अन्ते | वषट् अस्त्रं फट् || मन्त्रमुक्तावल्याम् | अस्त्रवर्णद्वयं मध्ये वषडन्ते तथैव च | यस्य मन्त्रस्य भिन्नोऽसौ विज्ञेयः सिद्धिवर्ज्जित इति || पिङ्गलामतेऽपि || अस्त्रवर्णद्वयं मध्ये वषडन्ते तथोदिताः | अधमाः स्युरसौ मन्त्रो भेदितः परिकीर्त्तितः || त्रिवर्णो हंसहीनो यः सुषुप्तः स उदाहृतः | त्रिवर्ण इति त्रिवर्णत्वं हंसहीनत्वमेकस्यैवोक्तम् || पिङ्गलामते || वर्णत्रयं भवेद् यत्र हंसहीनं स शम्भुना | सुषुप्त इति सिद्धान्तः प्रोक्तः सिद्धिफलापह इति || मन्त्रमुक्तावल्यामपि || वर्णत्रयात्मको मन्त्रो यस्तु हंसविवर्ज्जितः | प्रसुप्तः स तु विज्ञेयः सर्वसिद्धिफलापहः | शारदायाम् || मन्त्रो वाप्यथ वा विद्या सप्ताधिकदशाक्षरः | फट्कारपञ्चकादिर्यो मदोन्मत्त उदीरितः | सप्ताधिकानि अष्टौ दश चाक्षराणि यत्र सः || फट्काराणां पञ्चकमादौ यस्य सः || प्. १२५) तदुक्तं राघवभट्टधृतेन | विद्या वा यदि वा मन्त्रो यद्यष्टादशवर्णकः | पञ्चफट्कारपूर्वः स्यान्मदोन्मत्तः स उच्यते | पिङ्गलामतेऽपि || विद्या वा मन्त्रराजो वा यः स्यात् सप्तदशाधिकः | फट्काराः पञ्च पूर्वञ्चेदुन्मत्तः स प्रकीर्त्तितः || शारदायाम् || तद्वदस्त्रं स्थितं मध्ये यस्य मन्त्रः स मूर्च्छितः | यस्य मन्त्रस्य मध्ये तदस्त्रं स्थितं पञ्च वा फट्कारवीजानि स्थितानि स मूर्च्छित इत्यर्थः || विरामस्थानगं यस्य हृतवीर्ययः स उच्यते | विरामस्थानगमन्ते अस्त्रं यस्येत्यर्थः | पिङ्गलामते तु || अस्त्रमन्ते भवेद्यस्य मध्ये प्रान्ते च शम्भुना | हृतविर्मा इति ख्यातः स मन्त्रो नैव सिद्धिद इति || शारदायाम् || आदौ मध्ये तथा चान्ते चतुरस्रयुतो मनुः | ज्ञातव्यो हीन इत्येष यः स्यादष्टादशाक्षरः | आदाविति समुच्चयः | स्थानत्रये मिलित्वा अस्त्रचतुष्टयम् | तन्त्रान्तरे तु भीतनाम्ना अयमुक्तः | तथा | आदावन्ते तथा मध्ये चतुरस्रेण संयुतम् | अष्टादशाक्षरं मन्त्रं भीतं तं भैरवोऽव्रवीत् | अन्यत्र भीमनाम्ना अयमुक्तः | यथा | आदौ मध्ये तथा चान्ते चतुरस्रयुतो मनुः | ज्ञातव्यो भीम इत्येष यः स्यादष्टादशाक्षरः || शारदायाम् || एकोनविंशत्यर्णो वा यो मन्त्रस्तारसंयुतः | हृल्लेखाङ्कुशवीजाट्यस्तं प्रध्वस्तं प्रचक्षते | तारः प्रणवः | हृल्लेखा ह्रीमिति | अङ्कुशः क्रोमिति | एकोनविंशतिवर्णोऽष्टादशाक्षरो वा || तथा च राघवभट्टधृतवचनम् | स स्यादष्टादशाक्षरः | विंशत्येकोनवर्णश्च मायौङ्काराङ्कुशान्वितः | प्रध्वस्त इत्यसौ मन्त्रः शम्भुदेवेन कीर्तित इति || सप्तवर्णो ध्रुवयुतो मनुर्निस्त्रिंश ईरितः | ध्रुवः प्रणवः | अन्यत् सुगमम् || सप्तवर्णो मनुर्बालः कुमारोऽष्टाक्षरः स्मृतः | षोडशार्णो युवा प्रौढश्चत्वारिंशल्लिपिर्मनुः || लिपिरक्षरम् || राघवभट्टधृतमपि || सप्ताक्षरो भवेद्बालः कुमारश्चाष्टवर्णकः | चत्वारिंशाक्षरः प्रौढस्तरुणः षोडशाक्षर इति || प्. १२६) त्रिंशवर्णश्चतुःषष्टिवर्णोमन्त्रः शताक्षरः | चतुःशताक्षरश्चापि वृद्ध इत्यभिधीयते || नवाक्षरो ध्रुवयुतो मनुर्निस्त्रिंश ईरितः | नवाक्षरत्वं ध्रुवयुक्तत्वञ्चैकस्यैव || पिङ्गलामते || नवाक्षरस्तु निस्त्रिंशो ध्रुवयुक्तश्च मृत्युद इति || शारदायाम् || यस्यावसाने हृदयं शिरोमन्त्रो च मध्यतः | शिखा वर्म च न स्यातां वौषट् फट् कार एव वा || शिवशक्त्यार्णहीनो वा स निर्वीर्यय इति स्मृतः | हृदयं नमः | शिरः स्वाहा | शिखा वषट् | वर्म हूम् | शिवो हकारः | शक्तिः सकारः | राघवभट्टधृतम् || अन्ते तु हृच्छिरोवीजो मध्ये वर्म्म शिखा तथा | शिवशक्त्यात्मकौ वर्णौ न स्तो यस्य स मन्त्रराट् | निर्वीर्यय इति सम्प्रोक्तः सर्वकर्मसु गर्हितः || तन्त्रान्तरे तु || निर्वीर्ययस्तु समाख्यात आदावोङ्कारवर्ज्जित इति || एषु स्थानेषु फट्कारः षोढा यस्मिन् प्रदृश्यते | स मन्त्रः सिद्धिहीनः स्यान्मन्दः पंक्त्यक्षरो मनुः | आदिमध्यावसानेषु एषां समुच्चयः | षोढेति स्थानत्रये मिलित्वेत्यर्थः | मन्द इति पंक्त्यक्षरो दशाक्षरः | पंक्तिच्छन्दसो दशाक्षरत्वात् उक्तदशाक्षरो भवेन्मन्त्र इति || कूट एकाक्षरो मन्त्रः स एवोक्तो निरंशकः || द्विवर्णः सत्त्वहीनः स्यात् चतुर्वर्णस्तु केकरः || षडक्षरो वीजहीनस्त्वर्द्धसप्ताक्षरो मनुः | अत्रार्द्धसप्ताक्षरत्वम् अर्द्धद्वादशवर्णत्वञ्च वक्ष्यमाणम् | अन्ते स्वरस्य न सत्त्वाज्ज्ञेयम् || सार्द्धद्वादशवर्णो वा धूमितः स तु निन्दितः | सार्द्धवीजत्रयं तद्वदेकविंशतिवर्णकः | सार्द्धवीजत्रयमपि पूर्ववत् तद्वद्धूमित इत्यर्थः | तदुक्तं पिङ्गलामते | अर्द्धसप्ताक्षरो मन्त्रः सार्द्धद्वादशवर्णकः | धूमितः स समाख्यातः सार्द्धवर्णत्रयोऽथ वेति || विंशत्यर्णस्त्रिंशदर्णो वा यः स्यादालिङ्गितस्तु सः || द्वाविंशत्यक्षरो मन्त्रोमोहितः परिकीर्त्तितः || द्वात्रिंशदर्णो मन्त्रो यः सप्तविंशतिवर्णकः | क्षुधार्त्तः स तु विज्ञेयश्चतुर्विंशतिवर्णकः || एकादशाक्षरो वापि पञ्चविंशतिसंख्यकः | प्. १२७) त्रयोविंशतिवर्णो वा मन्त्रो दृप्त उदाहृतः || उद्देशावसरे अतिदृप्तस्योक्तत्वात् लक्षणावसरे दृप्तलक्षणं कथं क्रियते इति नोद्देश्यं सत्यपि उत्सर्गे भेदात् || तदुक्तं राघवभट्टधृतमन्त्रमुक्तावल्याम् || धात्वर्थं बाधते कश्चित् कश्चित्तमनुवर्त्तते | तमेव विशिनष्ट्यन्योऽनर्थकोऽन्यः प्रयुज्यते || षड्विंशत्यक्षरो मन्त्रः षड्विंशत्यक्षरस्तथा | त्रिंशदेकोनवर्णो वाप्यङ्गहीनोऽभिधीयते || अष्टाविंशत्यक्षरो य एकत्रिंशदथापि वा | अतिक्रुद्धः स कथितो निन्दितः सर्वकर्मसु || त्रिंशदक्षरको मन्त्रस्त्रयस्त्रिंशदथापि वा | अतिक्रूरः स गदितो निन्दितः सर्वकर्मसु || चत्वारिंशतमारभ्य त्रिषष्टिर्यावदापतेत् | तावत्संख्या निगदिता मन्त्राः सव्रीडसंज्ञकाः | चत्वारिंशदक्षरमारभ्य एकैकाक्षरवृद्ध्या चतुर्विंशतिप्रकारः स व्रीडित इत्यर्थः || पञ्चषष्ट्यक्षरा ये स्युर्मन्त्रास्ते शान्तमानसाः | एकोनशतपर्यन्ताः पञ्चषष्ट्यक्षरोदिताः | ये मन्त्रास्ते निगदिताः स्थानभ्रष्टाह्वया बुधैः || पञ्चषष्ट्यक्षरमादिर्यस्य इति अतङ्गुणसंविज्ञानो बहुव्रीहिरयम् | अन्यथा पञ्चषष्ट्यक्षरस्य पूर्वं शान्तमानसत्वेनोक्तत्वात्तस्यापीयं संज्ञा स्यात् || स्पष्टमुक्तं मन्त्रमुक्तावल्यां यथा || पञ्चषष्ट्युत्तरा ये च यावदेकोनकं शतमिति | तेन एकैकाक्षरवृद्ध्या चतुस्त्रिंशत्प्रकाराः स्थानभ्रष्टसंज्ञका इति || त्रयोदशाक्षरा ये स्युर्मन्त्राः पञ्चदशाक्षराः | विकलास्तेऽभिधीयन्ते शतं सार्द्धंशतन्तु वा | शतद्वयं द्विनवतिरेकहीनाथवापि वा | शतत्रयं वा यत्संख्या निःस्नेहास्ते समीरिताः | एकहीना द्विनवतिरेकाधिका नवतिरित्यर्थः || चतुःशतान्यथारभ्य यावद्वर्णसहस्रकम् | अतिवृद्धः प्रयोगेषु परित्याज्यः सदा बुद्धैः || सहस्रार्णाधिका मन्त्रा दण्डकाः पीडिताह्वयाः || द्विसहस्राक्षरा मन्त्राः खण्डशः सप्तधा कृताः | ज्ञातव्याः स्तोत्ररूपास्ते मन्त्रा एते यथा स्थिताः | प्. १२८) तथा विद्याश्च बोद्धव्या मन्त्रिभिः सर्वकर्मसु | तथा सदोषा इत्यर्थः || राघवभट्टधृतम् || यथा मन्त्रास्तथा विद्या भेदभिन्नाः परस्परम् | ज्ञातव्या देशिकेन्द्रेण नानातन्त्रेषु भाषिता इति | भेदभिन्ना इति लक्षणभेदेन भिन्ना न तु परमार्थतः | केचित्तु सर्वकर्मस्वित्यत्र काम्यकर्मस्विति पठन्तो मुक्त्यर्थजपे एतद्दोषाभावात् दशसंस्कारादि न कर्त्तव्यमित्याहुः | तन्न | मुक्त्यर्थजपेऽपि वक्ष्यमाणशोधनादिकं कर्त्तव्यमेवेति राघवभट्टोक्तवदिति || शारदातिलके द्वितीयपटले || दोषानिमानविज्ञाय यो मन्त्रान् भजते बुधः | सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि | इत्यादिदोषदुष्टांस्तान्मन्त्रानात्मनि योजयन् | शोधयेदूर्द्धपवनो बद्धया योनिमुद्रया | बद्धया योनिमुद्रया ऊर्द्ध्वपवनः कृतकुम्भकः साधक आत्मनि मन्त्रान् योजयन् शोधयेदित्यन्वयः || शोधनप्रकारस्तु राघवभट्टधृतेनोक्तो यथा || बद्ध्वा तु योनिमुद्रां तां सङ्कोच्याधारपङ्कजम् | तदुत्पन्नान् मन्त्रवर्णान् कुर्वतश्च गतागतान् | ब्रह्मरन्ध्रावधि ध्यात्वा वायुनापूर्यय कुम्भयेत् | सहस्रं प्रजपेन्मन्त्रं मन्त्रदोषोपशान्तये | योनिस्थानमुद्रणाद् योनिमुद्रा | महामुद्रया मूलबन्धं संशोधयेत् || महामुद्रा तु राघवभट्टधृता यथा || पादमूलेन वामेन योनिं सम्पीड्य दक्षिणम् | पादं प्रसारितं कृत्वा कराभ्यां पूरयेन्मुखम् | कण्ठे वक्त्रं समारोप्य धारयेद्वायुमूर्द्धतः | मूलरन्ध्रस्तु | पार्ष्णिभागेन सम्पीड्य योनिमाकुञ्चयेद् गुदम् | अपानमूर्द्ध्वमाकृष्य मूलबन्धो निगद्यते || अथ योनिमुद्रा कुब्जिकातन्त्रे षष्ठपटले || अथ वक्ष्ये महेशानि ! शारदेन्दुनिभानने ! | अतीव परमं देवि ! न प्रकाश्यं कदाचन | न प्रकाश्यमिदं देवि ! स्वयोनिरिवं पार्वति ! | निशीथे मुक्तकेशस्तु नग्नः शक्तिसमन्वितः | चिन्तयेदिष्टदेवीञ्च योगिनां योगरूपिणीम् | गुह्यदेशे वामपादगुल्फं संयोजयेत् सुधीः | प्. १२९) शरीरञ्च स्थिरीकृत्य जिह्वायां तालुकं न्यसेत् | नासाग्रं नेत्रयुक्तञ्च कर्तव्यञ्च महेश्वरि ! | कण्ठासनं तथा कृत्वा चिन्तयेदूर्द्ध्ववाहिनीम् | भुजङ्गरूपिणीं देवीं मूलाधारनिवासिनीम् | प्रातराधारकमले हुतभुङ्मण्डलोपरि | चतुर्भुजां महादेवीं परमामृतवृंहिताम् | श्यामवर्णां महादेवीं महापद्मासनस्थितम् | अभयञ्च वरञ्चैव दक्षिणे धारिणीं सदा | खड्गं मुण्डञ्च वामेऽस्मिन् धारयन्तीं सनातनीम् | मुक्तकेशीं स्मितमुखीं श्मशानालयवासिनीम् | दन्तुरां दक्षिणव्याप्ति मुक्तकेशीं दिगम्बरीम् | शवानां करसङ्घातैः कृतकाञ्चीं हसन्मुखीम् || लम्बमानां मुण्डमालां धारयन्तीं सदाशिवाम् | शवस्य हृदये चैव दक्षपादनिषेविताम् | महाकालेन रत्यर्थमत्यन्तलालसापराम् | चन्द्रसूर्ययवह्निरूपनयनत्रयसंयुताम् | अर्द्धचन्द्रधरां देवीं पीनोन्नतपयोधराम् | शिवाभिर्घोररावाभिश्चतुर्दिक्षु समन्विताम् | चतुर्वेदैरपाराञ्च सर्ववेदविभूषिताम् | कामदां कामरूपाञ्च भक्तानां त्राणकारिणीम् | चतुर्वर्गप्रदां भीमां वन्दे दक्षिणकालिकाम् | स्वाधिष्ठाने महादेवीं चिन्तयेदिन्दुरूपिणीम् | तत्र देवीञ्च सञ्चिन्त्य निर्मलं विश्वरूपिणम् | अभयं वरदञ्चैव हस्तञ्च सुरसुन्दरि ! | धनुर्वाणधरां देवीं पाशाङ्कुशधरां पुनः | वाणलिङ्गसमायुक्तां नीलमेघाननप्रभाम् | ललज्जिह्वां महादेवीं विष्णुरूपां सनातनीम् | बालयुग्मलसत्कर्णां दुष्टासुरनिसूदिनीम् || व्याघ्रचर्मपरीधानां ब्रह्मरन्ध्रनिवासिनीम् | अतिप्रसन्नवदनां स्मेराननसरोरुहाम् | मणिपूरे चिन्तयेत्तु तेजः पुञ्जां सनातनीम् || दिगम्बरीं करालास्यां मुक्तकेशीं चतुर्भुजाम् | रक्तवर्णां महादेवीं रक्तवस्त्रविधारिणीम् | पद्मासनां महादेवीं सर्वनागविभूषिताम् | शङ्खचक्रगदापद्मधारिणीं सुरपूजिताम् | धर्मार्थदायिनीं देवीं भक्तानां त्राणकारिणीम् | प्. १३०) सर्वसिद्धिप्रदां देवीं जगतां मोहिनीं पुनः | महामायां मोहिनीञ्च ज्ञानिनां ज्ञानदां सतीम् | सुन्दरीं रमणीं रामां चतुवर्गफलंप्रदाम् | शान्तां शान्तप्रियामुग्रामुग्रदैत्यविनाशिनीम् | मधुमांसप्रियां कृष्णां यशोदानन्दकारिणीम् | भक्तिगम्यां महादेवीं महाकालनिवासिनीम् | सर्वेषां जननीं नित्यां चिन्तन्येत् सुरपूजिताम् | अनाहते महादेवि ! चिन्तयेत् परदेवताम् | अष्टभुजां महादेवीं रक्तवर्णां त्रिशक्तिकाम् | धनुर्वाणञ्च खड्गञ्च चक्रञ्च दधतीं शिवे ! | पाशाङ्कुशधरां देवीं ब्रह्मादिसुरवन्दिताम् | अर्द्धचन्द्रधरां देवीं पीनोन्नतपयोधराम् | पद्मासनां महामायां महापद्मासनस्थिताम् | एवं सञ्चिन्तयेद् देवीं ब्रह्ममार्गेण गामिनीम् | विशुद्धे तु महाचक्रे चिन्तयेत् परमेश्वरीम् | दशभुजां महादेवीं पीतवर्णां सनातनीम् | कपालं खेटकं शङ्खं दर्पणं चामरं तथा | दक्षिणे बिभ्रतीं देवीं कामराजोपरि स्थिताम् | वामे खड्गं महापद्मं कर्त्तृकं पाशमङ्कुशम् | धारयन्तीं महादेवीं महासिंहासनस्थिताम् | दिव्यवस्त्रपरीधानां जटामुकुटमण्डिताम् | ब्रह्मविष्णुमहादेववन्दितां सुरसुन्दरीम् | आज्ञाचक्रे महेशानि ! द्विभुजां चिन्तयेत् सुधीः | सिंहस्कन्धसमारूढां द्विभुजां सुमनोहराम् | वराभयं दधानाञ्च नानामणिविभूषिताम् || जटामुकुटसंयुक्तामर्द्धचन्द्रविभूषिताम् | रत्नकाञ्चीसमायुक्तां रत्नमालाविभूषिताम् | रक्तवस्त्रपरीधानां कमलापतिसेविताम् | संसारदुःखशमनीं संसारार्णवतारिणीम् | सुषुम्नावर्त्मना देवीं चिन्तयेद्व्यालरूपिणीम् | षट्चक्रभेदयोगेन चिन्तयेत् परमेश्वरीम् | सहस्रारदले चैव चिन्तयेत् परमेश्वरीम् | कामं भ्रमन्तं तन्मध्ये पञ्चवाणविभूषितम् | गङ्गादिसर्वतीर्थञ्च अमृतं प्रतिचक्रके | वसन्तादि महादेवि ! सर्वर्त्तुपरिशोभितम् | प्. १३१) श्वेतवर्णं महादेवि ! सहस्रदलमुत्तमम् | सर्वदेवसमायुक्तं सर्वशक्तिसमन्वितम् | सर्वमन्त्रमयं देवि ! चतुर्वेदविभूषितम् | एकादशमहादेवां ब्रह्मविष्णुशिवात्मिकाम् | कर्णिकां स्वर्णवर्णाञ्च तत्र देवं विचिन्तयेत् | चिन्मयं परशिवं देवि ! ध्यानगम्यं सनातनम् | सारात्सारतरं परादपि परं चेतोवचोऽगोचरम् नित्यानन्दनिरन्तरं निरूपमं वेदैरपारं परम् | शिवशक्तिमयं देवि ! निर्गुणं सगुणात्मकम् | प्रदीपकलिकाकारं योगिनां ध्यानरूपिनम् | चैतन्यरूपिणं देवं परमामृतवृंहितम् | तन्मध्ये चिन्तयेद्देवीं त्रिगुणाञ्च सनातनीम् | घोरदंष्ट्रां करालास्यां ललज्जिह्वां चतुर्भुजाम् | सद्यञ्छिन्नशिरःखड्गवामोर्द्ध्वाधः कराम्बुजाम् | अभयं वरदञ्चैव दक्षिणाधोर्द्ध्वपाणिकाम् | नीलमेघप्रभां तन्वीं घोररूपां दिगम्बराम् | कण्ठावसक्तमुण्डालीगलद्रुधिरचर्चिताम् | कर्णावतंसतां नीतशवयुग्मभयानकाम् | बालार्कमण्डलाकारलोचनत्रितयान्विताम् | सृक्कद्वयगलद्रक्तधाराविस्फुरिताननाम् || मुक्तकेशीं स्मितमुखीं श्मशानालयवासिनीम् | शवानां करसङ्घातैः कृतकाञ्चीं हसन्मुखीम् | शवरूपमहादेवहृदयोपरि संस्थिताम् | महाकालेन रत्यर्थमुपविष्टां स्मरातुराम् | शिवाभिर्घोररावाभिश्चतुर्दिक्षु समन्विताम् | अतिप्रसन्नवदनां स्मेराननसरोरुहाम् | अनाहतस्तु तत्रैव तडित्कोटिसमप्रभाम् | तस्योर्द्ध्वे तु शिखा तन्वि ! चिद्रूपा परमा कला | तया सहितमात्मानमेवम्भूतं विचिन्तयेत् | गच्छन्तीं ब्रह्ममार्गेण लिङ्गभेदक्रमेण तु || सूर्ययकोटिप्रभाकारं चन्द्रकोटिसुशीतलम् | अमृतं तद्धि संज्ञस्थं परमानन्दलक्षणम् || गत्वा कुलाकुलां दिव्यां पुनरेव कुलं विशेत् | एवमभ्यस्यमानस्य अत्यन्तस्येह निश्चयात् | जरामरणदुःखाद्यैर्मुच्यते भवबन्धनात् || चतुर्विधा तु सा सृष्टिस्तस्यां योनौ प्रवर्त्तते | प्. १३२) योनिमुद्रेयमाख्याता सर्वसिद्धिप्रदायिका | मूलाधारसरोजे तु त्रिकोणं सुमनोहरम् | कामं भ्रमन्तं तन्मध्ये बालार्ककोटिसन्निभम् | तदूर्द्ध्वे कुण्डलीं शक्तिं तडित्कोटिसमप्रभाम् | सुषुप्तभुजगाकारां सार्द्धत्रिबलयान्विताम् || मूलाधारत्रिकोणे तां भावयेत् सुरसुन्दरीम् | अरोप्यारोप्यशक्तिं कमलजनिलयामात्मना साकमेषु स्थानेष्वब्जासनेषु प्रणिहितहृदयां चिन्तयन्तीं क्रमेण | नित्यानन्दावसानं खगमुकुलमहापद्मसङ्घान्तरस्थां ध्यायेच्चैतन्यरूपामभिनवजलदां मोक्षमार्गैकमार्गाम् || साक्षाल्लाक्षारसाभां गगनगतमहापद्मसंस्थाच्च हंसात् पीत्वा दिव्यामृतौघं पुनरपि च विशेन्मध्यदेशं कुलस्य | चक्रे चक्रे क्रमेणामृतरसविसरैस्तर्पयेद्देवतास्ताः डाकिन्याद्याः समस्ताः सकलदलगतां तर्पयेत् कुण्डलीं ताम् | इन्द्रस्तदूर्द्ध्व बोधिन्यां नादेनादस्तथैव च | शक्तौ पुनर्व्यापिकांशमामनुं मनुगोचरे || मन्त्राक्षराणि चिच्छक्तौ प्रोतानि परिभावयेत् | तामेव परमो व्योम्नि परमामृतवृंहिते | दर्शयेदात्मसम्भावं पूजाहोमादिकं विना | एवं सञ्चिन्तयेन्मन्त्रं स योगी नात्र संशयः || सर्वपापविनिर्मुक्त इष्टदेवीं प्रपश्यति | षण्मासे सर्वसिद्धिः स्यादात्मानञ्च प्रपश्यति || अष्टादशमहासिद्धिर्वत्सरान्ते भविष्यति | एवं सञ्चिन्तयेद्देवीं परमात्मस्वरूपिणीम् || स एव शङ्करः साक्षात् स एव विष्णुरव्ययः | स एव परमं ब्रह्म स एव देवतोत्तमः || इति ते कथिता देवि ! योनिमुद्रा महेश्वरि ! | वत्सरेण लभेत् सिद्धिं पूर्णकामः लभेत् पुनः | श्रीपार्वत्युवाच || अशक्ता योनिमुद्रायां हीनबुद्धिनराः कलौ | विहितं साधने शक्तौ कथं यान्ति परां गतिम् || सदाशिव उवाच || साधु पृष्टं महादेवि ! जन्तूनां हितकारिणि ! | योनिमुद्रां महेशानि ! कर्त्तुं न शक्यते | मायया वा श्रिया वापि कामेन प्रणवेन वा || सम्पुटं मूलमन्त्रन्तु जपेदष्टसहस्रकम् | प्. १३३) तेनैव च सुसिद्धं स्यान्मन्त्रसाधनमाचरेत् | शृणु चान्यत् प्रवक्ष्यामि साधनं परमाद्भुतम् | येनानुष्ठितमात्रेण सर्वसिद्धिः प्रजायते | पञ्च ह्रस्वाः सन्धिवर्णा व्योमेराग्निर्जलं धरा | अन्त्यमाद्यं द्वितीयञ्च चतुर्थं मध्यमं क्रमात् || पञ्चवर्णाक्षराणि स्युर्वान्तः श्वेतेन्दुभिः सह | एषां भूतलिपिः प्रोक्ता द्विचत्वारिंशदक्षरैः | आयम्बरार्णवर्गाणां पञ्चमाः शान्तसंयुताः | वर्गाद्या इति विज्ञेया नववर्गाः स्मृता अमौ | एतद्वचनं शारदायां षष्ठपटलेऽपि || अस्यार्थः || पञ्चह्रस्वाः अ इ उ ऋ ऌ इति प्रथमवर्णः | सन्धिवर्णा ए ऐ ओ औ इति द्वितीयो वर्गः | व्योम हकारः | इरो यकारः | अग्नीरेफः | जलं वकारः | धरा लकार इति तृतीयो वर्गः | पञ्चवर्गाक्षराणां क्रममाह अन्त्यमिति | अन्त्यं डः | आद्यं कः | द्वितीयं खः | चतुर्थं घः | मध्यमं गः | अयं क्रमश्चतुर्ष्वन्येष्वपि वर्गेषु एवमष्टवर्गः | रान्तः शकारः | श्वेतं यकारः | इन्दु सकारः | अयं नवमवर्गः | नवमवर्गाद्यक्षराण्याह आयम्बरार्ण इति | अम्बरार्णो हकारः | अश्च एश्च अम्बरार्णश्चेति द्वन्द्वे अ ए इत्यत्र सन्धौ ऐ अम्बरे परे आयादेशे आम्बर इति वर्गाणां पञ्चमा ङ ञ ण न म इति वर्णाः | शान्तसंयुताः शकारान्तास्तेन अ ए इ ङ ञ ण न म श इत्यक्षराणि इति नवमो वर्गः | वर्गवर्णानां पञ्चभूतात्मकं दर्शयति शारदा || व्योमेराग्निजलक्षौणी वर्गवर्णान् पृथग्विधः | द्वितीयवर्गे भूर्न स्यान्नवमे न जलं धरा | द्वितीयवर्गस्य चतुरक्षरत्वादन्त्यभूतात्मकमक्षरं नास्ति एवमन्त्यवर्गस्य त्रिवर्णात्मकत्वादुभयं नास्तीत्यर्थः | विरिञ्चिविष्णुरुद्राश्विप्रजापतिदिगीश्वराः | क्रियादिशक्तिसहिताः क्रमात् स्युर्वर्गदेवताः | दिगीश्वरा इन्द्रयमवरुणचन्द्राः | सर्वे किम्भूताः क्रियाज्ञानेच्छाशक्तिसंहिता इत्यन्वयः | त्रिधावृत्तक्रियाज्ञानेच्छाशक्तिभिरुपेताः | केचित्तु दिगीश्वरा इत्येकक्रियाशक्त्यादयस्तिस्र इति नव देवता वदन्ति | प्. १३४) ऋषिः स्याद्दक्षिणामूर्त्तिर्गायत्रं छन्द ईरितम् | देवता कथिता सद्भिः साक्षाद्वर्णेश्वरी परा | हादिषड्वर्गकैः कुर्ययात् षडङ्गानि सजातिभिः | ध्यायेल्लिपितरोर्मूले देवीं तन्मयपङ्कजे | वदन्ति सुधियो वृक्षं नित्यवर्णमयं परम् | परसंविन्महाबीजं बिन्दुनादमहाशिफम् | पृथिव्यक्षरशाखाभिः सर्वाशासु विजृम्भितम् | मलिलाक्षरपत्रः स्वैः सञ्च्छादितजगत्त्रयम् | वह्निवर्णाङ्कुरैर्दीप्तं रत्नैरिव सरद्रुमम् | मरुद्वर्णलसत्पुष्पैर्द्योतयन्तं वपुःश्रियम् | आकाशार्णफलैर्नम्रं सर्वभूताश्रये परम् | परामृताक्षमधुभिः सिञ्चन्तीं परमेश्वरीम् | वेदागमादिभिः कॢप्तं समुन्नतिमनोहरम् | शिवशक्तिमयं साक्षाच्छायाश्रितजगत्त्रयम् | एनमाश्रित्य सुनयः सर्वान् कामानवाप्नुयुः || अस्यार्थः || लिपितरोर्मूले तन्मयपङ्कजे वर्णमयपद्मे देवीं ध्यायेदित्यन्वयः | ध्यानं पश्चाद्वक्ष्यति | लिपितरुमाह वदन्तीति | वर्णमयं वृक्षं पण्डिता नित्यं वदन्ति | किम्भूतं परसंवित् कुण्डलिनी परंब्रह्म वा वीजम् | एवं बिन्दुनादो शिफे मूले यस्य तम् | ननु तद्वृक्षो नित्यश्चेत्तदा कथं परसंविन्महावीजमित्युक्तम् | सत्यं व्यञ्जकत्वेन वीजवदुपचर्ययते | शेषं सुगमम् | ध्यानमाह || अङ्कोन्मुक्तशशाङ्ककोटिसदृशीमापीनतुङ्गस्तनीं चन्द्रार्द्धाङ्कितमस्तकां मधुमदादालोलनेत्रयाम् | बिभ्राणामनिशं वरं जपवटीं विद्यां कपालं करैराद्यां यौवनगर्वितां लिपितनुं वागीश्वरीमाश्रये || कुब्जिकातन्त्रोक्तध्यानं यथा | अक्षस्रजं हरिणपीतमुदग्रटङ्कं विद्याः करैरविरतं दधतीं त्रिनेत्राम् | अर्द्धेन्दुमौलिमरुणामरविन्दमालां वर्णेश्वरीं प्रणमत स्तनभारनम्रामिति | तथा | पाशाङ्कुशपुटं कृत्वा मायां ततः समीरणम् | दहनं धरणीं तोयं माहेश्वरं ततः परम् || प्रासादञ्च समुच्चार्यय शक्तिः सूर्ययसमन्विता | अमुष्या भूतलिप्याश्च प्राणा इह ततो वदेत् | प्. १३५) पुनर्मन्त्रान् समुच्चार्यय पाशादींश्च ततो वदेत् | जीव इह स्थित इति पुनस्तांश्च समुच्चरेत् | सर्वेन्द्रियाणीत्येताश्च क्रमात्तानुच्चरेत् सुधीः | वाङ्मनश्चक्षुस्त्वगिति श्रोत्रघ्राण प्राणा इहागत्य ततो वदेत् | सुखं चिरं समुच्चार्यय तिष्ठन्तु वह्निवल्लभा | इति प्राणान् प्रतिष्ठाप्य ध्यायेत्तामिष्टसिद्धये || इत्युक्त्वा ध्यानमुक्तम् | ततो न्यासं कुर्ययात् || तदुक्तं शारदायाम् || आधारदेशेऽधिष्ठाने नाभौ हृदि पदे पुनः | विन्दौ नादे ततः शक्त्यां शिवे देशिकसत्तमः | नवाधारेषु विन्यसेत् स्वरान्नव यथाविधि | मूलाधारे स्वाधिष्ठाने नाभौ हृदि पदे भ्रुमध्ये मूर्द्ध्नि तदुपरिदेशे द्वादशदलपद्मे इति नवसु स्थानेषु नव स्वरान् न्यसेदित्यर्थः | हादिवर्णांस्ततो न्यसेन्मुखे मूर्द्धादितः सुधीः | ऊर्द्ध्वमाहेन्द्रयाम्य दिक्पश्चिमेषु समाहितः | दोःपत्सु वेदवर्गांश्च वर्णान् देशिकसत्तमः | वर्णा मूलोपमूलाग्रमध्यदेशक्रमेण तु | तत्राग्रमङ्गुल्यः | मूलमंशादि | उपमूलं कूर्परजानुनी | उपाग्रं करपादाङ्गुली प्रथमसन्धिः मणिबन्धगुल्फे | समाहित इत्यनेन सावधानतया स्थानविपर्यययाः | भावदुष्टेऽप्युक्त.ः शारदायाम् || गुह्यहृद्भ्रुविले न्यस्येच्छादिवर्णत्रयं क्रमात् | सृष्ट्यां सर्गावसाना स्यात् स्थितौ वह्निर्मरुत् प्रियः | वियद्भूमिक्रमात्र्यस्येद्बिन्दुसर्गावसानिकाम् | संहृतौ प्रतिलोमेन विन्यसेद्बिन्दुभूषिताम् | सृष्ट्यामिति सर्गावसानिका भूतलिपिरिति शेषः | स्थितौ बिन्दुसर्गावसानिकां तां क्रमात्र्यस्येदित्यर्थः | तत्रायं क्रमः || ऊंः इंः ऋंः अंः ऌंः ओंः औंः ऐंः एंः रंः यंः वंः हंः लंः | खंः कंः घंः गंः ङंः छंः चंः झंः जंः ञंः ठंः टंः ढंः डंः णंः थंः तंः धंः दंः नंः फंः पंः भंः बंः मंः संः षंः शंः | कश्चित्तु वह्निवर्गवर्णान् सर्वान् प्रथमं विन्यस्य पश्चान्मरुद्वर्णान् ततो जलान्तान् एतान् सबिन्दून् ततो वियद्भूमिवर्णान् सविसर्गान् न्यस्येदित्याह स्म | प्. १३६) शारदायाम् | आगमोक्तेन मार्गेण दीक्षितः साधकोत्तमः | लक्षं न्यस्येज्जपेत्तावज्जुहुयादयुतं तिलैः || तावदिति लक्षम् | तत्र एको न्यास एकावृत्तिश्चेति क्रमोऽनुसन्धेयः | शारदायाम् | पूजयेदन्वहं देवीं पीठे प्रागीरिते सुधीः | प्रागीरिते इत्यनेन सरस्वतीप्रकरणीयपीठशक्तिरत्रापि पूजयेदिति सूचितम् | तेनाष्टदलं षोडशदलं द्वात्रिंशद्दलं चतुःषष्टिदलं भूपरञ्च कृत्वा तत्र पीठशक्तिं पूजयेत् || शारदायाम् || वर्णाब्जेनासनं कुर्ययान् मूर्तिं मूलेन कल्पयेत् | देवीं सम्पूजयेदस्यामङ्गाद्यावरणैः सह | आदावङ्गावृतिः पश्चादम्बिकाद्याभिरीरिता | द्वितीया मातृभिः प्रोक्ता तृतीया ह्यष्टशक्तिभिः || चतुर्थी पञ्चमी प्रोक्ता द्वात्रिंशच्छक्तिभिः पुनः | चतुःषष्ट्या स्मृता षष्ठी शक्तिभिर्लोकपालकैः | सप्तमी वृतिरेतेषां मन्त्रे स्यादष्टमी वृतिः | वर्णाब्जे नासनं दत्त्वा मूर्तिं मूलेन सङ्कल्प्य तत्र देवीमभ्यर्च्य केशरेषु अङ्गान्यभ्यर्च्य तदुपरि दिग्दलेषु चतस्रोऽम्बिकादिकाः तदुपरि ब्राह्म्याद्यास्ततः षोडशदले करालाद्या द्वात्रिंशद्दले विद्याद्याश्चतुःषष्टिदले पिङ्गलाद्याः पूजयेत् || तदुपरि भूपुरे लोकपालांस्तदस्त्राणि चेति | वर्णाब्जेन हेसौः भूतलिपिः सरस्वती | योगपीठाय नम इति प्रयोगः || शारदा || एवं पूज्या जगद्धात्री श्रीभूतलिपिदेवता | स्थानेषूक्तेषु विधिवदभ्यर्च्च्याङ्गानि पूर्ववत् || पूर्ववत् सरस्वतीप्रकरणवत् || अम्बिका वाग्भवी दुर्गा श्रीशक्तिः प्रोक्तलक्षणा | ब्राह्म्याद्याः पूर्ववत् पूज्याः कराली विकराल्युमा | सरस्वती श्रीर्दुर्गोमा लक्ष्मीः श्रुतिः स्मृतिर्धृतिः | श्रद्धा मेधा मतिः कान्तिरार्ययाः षोडशशक्तयः | खड्गखेटकधारिण्यः श्यामाः पूज्याः स्वलङ्कृताः | विद्याश्रीपुष्टयः प्रज्ञा सिनीवाली कुहूः पुनः | रुद्रवीर्या प्रभा नन्दा स्यात् पिषिण्यृद्धिदा शुभा | कालरात्रिर्महारात्रिर्भद्रकाली कपालिनी | प्रकृतिर्दण्डिमुण्डिन्यौ सेन्दुखण्डा शिखण्डिनो | प्. १३७) निशुम्भशुम्भमथनी महिषासुरमर्दिनी | इन्द्राणी चैव रुद्राणी शङ्करार्द्धशरीरिणी | नारी नारायणी चैव त्रिशूलिन्यपि पाशिनी | अम्बिका ह्लादिनी चैव द्वात्रिंशच्छक्तयः शिवाः | चक्रहस्ताः पिशाचास्याः सम्पूज्याश्चारुभूषणाः | पिङ्गलाङ्गी पिशाचाक्षी समृद्धिर्वृद्धिरेव च | श्रद्धा स्वाहा स्वधा भिक्षा माया संज्ञा वसुन्धरा | त्रिलोकरात्रिः सावित्री गायत्री त्रिदशेश्वरी | स्वरूपा बहुरूपा च स्कन्दमाता हुतप्रिया | विमला चामला पश्चादरुणी पूर्णवारुणी | प्रकृतिर्विकृतिः सृष्टिः स्थितिः संहृतिरेव च | सन्ध्या माया सती हंसी मर्दिकी रक्तिकी परा | देवमाता भगवती देवकी कमलासना | त्रिमुखी सप्तमुख्यान्या सुरासुरविमर्दिनी | लम्बोष्ठी चोर्द्ध्वकेशी च बहुशीर्षा वृकोदरी || रथरेखाह्वया पश्चाच्छशिरेखा तथापरा | गगनवेगा पवनवेगा च तदनन्तरम् | ततो भुवनपालाख्या ततः स्यान्मदनातुरा || अङ्गनानङ्गवदना तथैवानङ्गमेखला | अनङ्गकुसुमा विश्वरूपासुरभयङ्करी | आख्याह्वसत्यवादिन्यौ वज्ररूपा शुचिव्रता | वरदाख्या च वागीशी चतुःषष्टिः समीरिताः | चापवाणधराः सर्वा ज्वालाब्धिज्ञा महाप्रभाः | दंष्ट्रिण्यश्चोर्द्ध्वकेश्यस्ता युद्धोपक्रान्तमानसाः | सर्वाभरणसन्दीप्ता पूजनीयाः प्रयत्नतः | लोकेशाः पूर्ववत् पूज्यास्तद्वद्वज्रादिकान्यपि | इत्थं यः पूजयेन्मन्त्री श्रीभूतलिपिदेवताम् | श्रीवाण्योः स भवेद्भूमिर्देवैरप्यभिनन्द्यते | कमलैरयुतं हुत्वा राजानं वशमानयेत् | उत्पलैर्जुह्वतस्तद्वन्महालक्ष्मीः प्रजायते | पलाशकुसुमेर्हुत्वा वत्सरेण कविर्भवेत् | वाजीलवणहोमेन वनितां वशमानयेत् | मातृकोक्तानि कर्माणि कुर्ययादत्रापि साधकः | भूतलिप्या पुटीकृत्य यो मन्त्रं भजते नरः | क्रमोत्क्रमाच्छतावृत्त्या तस्य सिद्धो भवेन्मनुः | कुब्जिकातन्त्रे || ध्यानानन्तरम् || एवं ध्यात्वा महेशानि ! जपेत्ताञ्च प्रसन्नधीः | प्. १३८) क्रमोत्क्रमाच्छतावृत्त्या भूतलिप्या पुरस्क्रिया | भूतलिप्या पुटीकृत्य यो यं मन्त्रं जपेन्नरः | सहस्रैकप्रमाणेन हठात् सिद्धिर्भवेद्ध्रुवम् | मासमात्रं जपेन्मन्त्रं भूतलिप्या तु सम्पुटम् | क्रमोत्क्रमाद्वरारोहे ! ततः सिद्धिरनुत्तमा | मन्त्र दोषशान्त्यर्थं शारदायां दशसंस्कारकरणमपि लिखितम्|| तत्तस्मादत्यतिवृद्धप्रपितामहसहृदयगोष्ठीगरिष्ठकृष्णा- नन्दागमवागीशभट्टाचार्यैः स्वकृतन्त्रसारे लिखितम् | अन्वेषकैस्तत्र द्रष्टव्यम् | दोषान्तरेऽपि दश संस्कारा उक्ताः समयाचारतन्त्रे यथा || गुरोर्गृहीतमन्त्रश्च जप्त्वा तां गतिसाधकः | दुष्टाचारं प्रमादाद्वा आलस्याद्वापि सुन्दरि ! हीनवीर्ययत्वमाप्नोति स तु मन्त्रो वरानने ! | इत्यादिदोषनाशार्थं दशसंस्कारमाचरेत् || इति मन्त्रदोषशान्तिविधिः || वीजसङ्केतबोधार्थमाहृत्य तन्त्रशास्त्रतः | वीजनामानि कतिचिद् वक्ष्यामि विदुषां मुदे | माया लज्जा परा संवित् त्रिगुणा भुवनेश्वरी | हृल्लेखा शम्भुवनिता शक्तिर्देवीश्वरी शिवा | महामाया पार्वती च संस्थानकृतरूपिणी | परमेश्वरी च भुवना धात्री जीवनमध्यगा || स्त्रीं || वह्निहीनेऽस्त्रयुङ्माया स्थिरमाया प्रकीर्त्तिता || ह्रीं || शाग्निशान्तिबिन्दुनादैर्लक्ष्मीप्रणव उच्यते | श्रीर्लक्ष्मीर्विष्णुवनिता रमा क्षीरसमुद्रजा || श्रीं || षोडशव्यञ्जनं वह्निवामाक्षिबिन्दुसंयुतम् | चन्द्रवीजसमारूढं बधूवीजमिदं स्मृतम् | बधूर्वामेक्षणा योषिदेकाक्षी स्त्री च कामिनी || स्त्रीं || नादबिन्दुसमायुक्तो द्वादशस्तु सुरो भगम् | योनिः सरस्वती वीजमधरं वाग्भवञ्च वाक् | ऐं || हकारो वामकर्णाढ्यो नादबिन्दुविभूषितः | कूर्च्चं क्रोध उग्रदर्पो दीर्घहूङ्कार उच्यते | शब्दश्च दीर्घकवचं तारा प्रसव इत्यपि || हूं || कामाक्षरं वह्निसंस्थं रतिबिन्दुविभूषितम् | कालीवीजमिदं प्रोक्तं रतिबीजं तदेवहि || क्रीं || कामाक्षरं धरासंस्थं रतिबिन्दुविभूषितम् | प्. १३९) गुप्तकालीवीजमिदं गोपालवीजमित्यपि || तत्कामबीजं कामेशीबीजं शक्तिस्त्वसौ परा || क्लीं || सत्यान्तयुग् व्योमसेन्दु शैवं प्रासादमुच्यते || हौं || कलाद्यं क्लेदिनीबीजं क्रोङ्कारस्त्वङ्कुशाभिधः || क्रों || आकारो बिन्दुमान् पासः शेषश्च समुदीरितः | सकला भुवनेशानी कामेशीवीजमुच्यते | नमस्तु हृदयम् स्वाहा द्विठष्ठयुगलं ठठः || नमः स्वाहा || चन्द्रयुग्मं शिवो वेदमाता ज्वलनसुन्दरी | स्वाहा परा देवभोज्यं ठद्वयं चन्द्रयुग्मकम् | श्रुवो हविर्वेदमाता देवास्यं वह्निसुन्दरी || स्वाहा || शिखा वषट् शिरोमध्यं शक्रमाता हरप्रिया | शिखा वषट् च | वषट् कवचं क्रोधो वर्म हुमित्यपि | क्रोधाख्यो हं तनुत्वञ्च शस्त्रादौ रिपुसंज्ञकः || हूं || अस्त्रनेत्रयुगं वौषट् || वषट् || फडस्त्रं शस्त्रमायुधम् || फट् || तार्त्तीयन्तु हेसौः प्रेतवीजम् || हेसौः || हंसोऽजपामनुः || हंसः || गकारो बिन्दुमान् वीघ्नबीजं गणेशवीजकम् || गं स्मृतिस्थं मांसमौ बिन्दुयुतम् || भूवीजमीरितम् || लं || ठान्तं दहननेत्रेन्दुयुतन्तु विम्बवीजकम् || ड्रीं || अथ कामकला वामनयनं बिन्दुसंयुतम् अर्कमात्रा कलावाणी नादोऽर्धेन्दुः सदाशिवः | अनुच्चार्यय तुरीया च विश्वमातृकलापरा || ं || नादः || भूतडामरसङ्केतबोधार्थं भूतडामरीयवीजनामान्यपि लिख्यन्ते || प्रणवो विषवीजं स्याद् ध्रुवं हालाहलं स्मृतम् कालश्रुतिपथं ज्ञेयं बहुरूपि निरञ्जनम् || प्रणवम् || क्षतजस्थं व्योमवक्त्रं धूम्रभैरव्यलङ्कृतम् | नादबिन्दुसमायुक्तं बीजं प्राणात्मिकं स्मृतम् || ह्रीं || क्रोधीशं क्षतमारूढं धूम्रभैरव्यलङ्कृतम् | विद्याज्जिह्वाबिन्दुयुतं पितृभूवासिनी स्मृतम् || क्रीं || क्रोधकालात्मकं कुर्याद्भौतिकं वाग्भवं स्मृतम् | नादबिन्दुसमायुक्तं समाधायोग्रभैरवीम् | वीजमेतत्तु कथितं शुद्धबुद्धिप्रवर्त्तकम् || ऐं || क्रोधीशं बलभृद्धूम्रभैरवी नादबिन्दुभिः | प्. १४०) त्रिमूर्तिमन्मथं कामराजस्त्रैलोक्यमोहनम् | इन्द्रासनगतो ब्रह्मसमूर्त्तिस्तु समन्मथः || क्लीं || संयुक्तं धूम्रभैरव्यारक्तस्थं बलिभोजनम् | नादबिन्दुसमायुक्तं किङ्किनीवीजमुत्तमम् || ह्रीं || नादबिन्दुसमायुक्तं रक्तस्थं बलिभोजनम् | कालरात्र्यासनोपेतं विशिखाख्यं महामनुम् || ह्रां || विदार्ययालिङ्गितोग्रास्यो वसिस्तु क्षतजोक्षितः | नादबिन्दुसमायुक्तो विज्ञेयः पिशिताशनः || हुं || धूम्रध्वजाधः कालाग्निः सोर्द्ध्वकेशीन्दुबिन्दुभिः | युगान्तकारकं बीजं भैरवेण प्रकाशितम् || स्फें || कपर्दिनं समादाय क्षतजोक्षितविग्रहम् | संयुक्तं धूम्रभैरव्यां क्षोऽयं नादबिन्दुमान् || प्रीं || कपालीद्वयमादाय महाकालेन मण्डितम् | समासनमिति प्रोक्तं चण्डिकाढ्यं प्रयोजयेत् || ठं ठं ठः ठः || क्षतजस्थं व्योमवक्त्रं चन्द्रखण्डविभूषितम् | खद्योतमिति सम्प्रोक्तं ग्रासिनी कालरात्रियुक् || ह्रं ह्रं || क्षतजोक्षितमाकाशं नादबिन्दुविभूषितम् | विदारीभूषितञ्चैव बीजं वैवस्वतो दृकम् || ह्रां || कीर्त्त्याख्याकालवक्त्रा च महाकालेन साधितम् | तदनादिपञ्चरश्मिः सृष्टिस्थित्यन्तकृद्विधिः || ओं || व्योमस्थं तालजङ्घास्थं बिन्दुनादविभूषितम् | कूर्चं कालो महाकालः क्रोधबीजं निरञ्जनम् || हूं || पृथ्वीपालो नवद्वीपपतिरतिमतिः कृष्णचन्द्रो महात्मा विद्याब्राह्मण्यमान्यं यमजनयदमुं दान्तमीशानचन्द्रम् | तस्मात् सत्स्वाप यो विश्वविजयिपदवीं स्वेष्टदेवीप्रसादाच्चक्रे तेनाद्यमेतद्विदभिमतफलं सर्गकाण्डं विचित्रम् || हंसः प्राणो मनश्चन्द्रः कृष्णो मध्यं गतस्तयोः | गौडोदये पुष्पवन्तौ श्रीप्राणकृष्णचन्द्रकौ || अन्नदामङ्गलं देशभाषयाचीकरोद् यतः | तस्माद्विदेशेऽमावास्याकृष्णचन्द्रस्य भूपतेः || एषा निर्जरभाषया समुदिता भास्वत्प्रभा निर्मला विश्वोद्दीप्तिकरी जगद्दिनकरी श्रीप्राणतोषिण्यतः | प्. १४१) श्रीमान्निवृति निवृति क्षितितलेऽभूत् प्राणकृष्णाभिधो हंसो नास्तमितः सदोदययुतः कीर्त्यानया शाश्वतः | इति श्रीप्राणकृष्णविश्वासानुमतायां विश्वविजयिश्रीरामतोषणविद्यालङ्कारविरचितायां श्रीप्राणतोषिण्यां फलकथनरूपदशमपरिच्छेदान्वितं सर्गकाण्डं समाप्तम् | एन्द् ओf १स्त् काण्ड सर्गकाण्डं समाप्तम् | ########### END OF FILE #######